आसनं (AsanaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishआसनं [आस्-ल्युट्] 1 Sitting down.
2 A seat, place, stool
स वासवेनासनसन्निकृष्टं Ku. 3. 2
आसनं मुच् to leave one's seat, rise
R. 3. 11.
3 A particular posture or mode of sitting
cf. पद्म°, वीर°, भद्र°, वज्र° &c.
4 Sitting down or halting, stopping, encamping.
5 Abiding, dwelling
Ms. 2. 245, 6. 59.
6 Any peculiar mode of sexual enjoyment (84 such asanas are usually mentioned).
7 Maintaining a post against an enemy (opp. यानं), one of the six modes of foreign policy
which are:
संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः Ak.
प्रतिबद्धशक्त्योः कालप्रतीक्षया तूष्णीमवस्थानमासनं
परस्परस्य सामर्थ्यविघातादासनं स्मृतं Agni P.
Ms. 7. 160, 162, 166
Y. 1. 346
Pt. 3.
8 The front part of an elephant's body, withers.
9 Throwing (fr. अस् to throw).
10 N. of two trees (असन and जीवक).
ना A seat, stool, stay.
नी 1 Stay, abiding, sitting.
2 A small seat or stool.
3 A shop, stall.
Comp.
बंधधीर a. resolute to sit down, firm in one's seat
निषेदुषीमासनबंधधीरः R. 2. 6.
Hindi
Hindiसीट
शब्दकल्पद्रुमः
Sanskritआसनं, (आस्यते उपविश्यतेऽस्मिन् । आस् +अधिकरणे + ल्युट् ।) पीठ । पिँडि चौकि इत्यादिभाषा । हस्तिस्कन्धदेशः । यत्र महामात्रो निव-सति । विजिगीषोर्दुर्गादीनवर्द्धयतः स्थितिः । इत्य-मरः ॥
यात्रानिवर्त्तनं । इति मेदिनी ॥
अष्टाङ्ग-योगस्य तृतीययोगाङ्गं । तत्तु पञ्चप्रकारकरचर-णादिसंस्थानविशेषः । यथा, --“पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनं तथा ।वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम्” ॥
तेषां क्रमः ।“ऊर्व्वोरुपरि विन्यस्य सम्यक् पादतले उभे ।अङ्गुष्ठौ च निबध्नीयात् हस्ताभ्यां व्युत्क्रमात्तथा ॥
पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥
१ ॥
जानूर्व्वोरन्तरे सम्यक् कृत्वा पादतले उभे ।ऋजुकायो विशेन्मन्त्री स्वस्तिकं तत् प्रचक्ष्यते ॥
२ ॥
सीमन्याः पार्श्वयोर्न्यस्येद्गुल्फयुग्मं सुनिश्चलम् ।वृषणाधःपादपार्ष्णिं पाणिभ्यां परिबन्धयेत् ॥
भद्रासनं समुद्दिष्टं योगिभिः सारकल्पितम् ॥
३ ॥
ऊर्व्वोः पादौ क्रमान्न्यस्येत् कृत्वा प्रत्यङ्मुखाङ्गुली ।करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ॥
४ ॥
एकपादमधः कृत्वा विन्यस्योरौ तथेतरम् ।ऋजुकायो विशेन्मन्त्री वीरासनमितीरितम् ॥
५ ॥
इति तन्त्रसारः ॥
अन्यच्च ।“आसनानि कुलेशानि यावन्तो जीवजन्तवः ।चतुरशीतिलक्षाणि चैकैकं समुदाहृतम् ॥
आसनेभ्यः समस्तेभ्यः साम्प्रतं द्वयमुच्यते ।एकं सिद्धासनं नाम द्वितीयं कमलासनम्” ॥
इति निरुक्ततन्त्रम् ॥
शृङ्गारासनानि बन्धशब्दे द्रष्टव्यानि ॥
उपवेशनाधारः । पीठादि । यथा ।श्रीभगवानुवाच ।“उपचारान् प्रवक्ष्यामि शृण षोडश भैरव ।यैः सम्यक् तुष्यते देवी देवोऽप्यन्यो हि भक्तितः ॥
आसनं प्रथमं दद्यात् पौष्पं दारुजमेव वा ।वास्त्रं वा चार्म्मणं कौशं मण्डलस्योत्तरे सृजेत् ॥
पौष्पासनं यद्विहितं यस्य तद्यदि गर्भकम् ॥
निवेदयेत्तदा पद्मे विपुलं द्वारि चोत्सृजेत् ।पौष्पं पुष्पौघरचितं कुशसूत्रादिसंयुतं ॥
अतिप्रीतिकरं देव्या ममाप्यन्यस्य भैरव ।यज्ञदारुसमुद्भूतमासनं मसृणं शुभम् ॥
नोच्छ्रायं नातिविस्तीर्णमासनं विनियोजयेत् ॥
अन्यदारूद्भवञ्चापि दद्यादासनमुत्तमम् ॥
सकण्टकं क्षीरयुक्तं दारुसारविवर्जितम् ।चैत्यश्मशानसंभूतं वर्जयित्वा विभीतकम् ॥
वाल्कलं कोषजं फालं वस्त्रमेतत्त्रयं मतम् ।रोमजं कम्बलञ्चैव तदनेन चतुष्टयम् ॥
अनेन रचितं दद्यादासनं चेष्टभूतये ।सिंहव्याघ्रतरक्षूणां छागस्य महिषस्य च ॥
गजानां तुरगाणाञ्च कृष्णसारस्य चर्म्मणः ।सृमरस्याथ रामस्य मृगाणां नवभेदिनाम् ॥
चर्म्मभिः सर्व्वदेवानामासनं प्रीतिदं स्मृतम् ।वास्तेषु कम्बलं शस्तमासनं देवतुष्टये ॥
राङ्कवं चार्म्मणं श्रेष्ठं दारवं चन्दनोद्भवम् ।यच्चासनं कुशमयं तदासनमनुत्तमम् ॥
सर्व्वेषामपि देवानामृषीणाञ्च यतात्मनाम् ।योगपीठस्य सदृशमासनं स्थानमुच्यते ॥
आसनस्य प्रदानेन सौभाग्यं मुक्तिमाप्नुयात् ।सृमरो रोहितो न्यङ्कुः सम्बरो वभ्रुणो रुरुः ॥
शशैणहरिणाश्चेति मृगा नवविधा मताः ।हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्र भैरव ॥
ऋष्यः खङ्गो रुरुश्चैव पृषतश्च मृगस्तथा ।एते वलिप्रदानेषु चर्म्मदाने च कीर्त्तिताः ॥
सर्व्वेषां तैजसानाञ्च आसनं ज्येष्ठमुच्यते ।आयसं वर्ज्जयित्वा तु कांस्यं सीसकमेव वा ॥
शिलामयं मणिमयं तथा रत्नमयं मतम् ।आसनं देवताभ्यस्तु भुक्त्यै मुक्त्यै समुत्सृजेत् ॥
* ॥
अत्रैव साधकानाञ्च आसनं शृणु भैरव ।यत्रासीनः पूजकस्तु सर्व्वसिद्धिमवाप्नुयात् ॥
ऐणञ्च चार्म्मणं वास्त्रं तैजसञ्च चतुष्टयम् ।आसनं साधकानाञ्च सततं परिकीर्त्तितम् ॥
पूर्व्वोक्तं यच्च देवेभ्य आसनं परिकीर्त्तितम् ।तत्सर्व्वमासनं शस्तं पूजाकर्म्मणि साधके ॥
न यथेष्टासनो भूयात् पूजाकर्म्मणि साधकः ।काष्ठादिकासनं कुर्य्यात् मितमेव सदा बुधः ॥
* ॥
चतुर्व्विंशत्यङ्गुलेन दीर्घं काष्ठासनं मतम् ।षोडशाङ्गुलविस्तीर्णमुत्सेधचतुरङ्गुलम् ॥
षडङ्गुलं वा कुर्य्यात्तु नोच्छ्रितं चात्र कारयेत् ।पुर्ब्बोक्तं वर्ज्जयेद्वर्ज्ज्यमासनं पूजनेष्वपि ॥
वास्त्रं द्विहस्तान्नो दीघं सार्द्धहस्तान्न विस्तृतम् ।न त्र्यङ्गुलात्तथोच्छ्रायं पूजाकर्म्मणि संश्रयेत् ॥
यथेष्टं चार्म्मणं कुर्य्यात् पूर्व्वोक्तं सिद्धिदायकम् ॥
षडङ्गुलाधिकं कुर्य्यान्नोच्छ्रितन्तु कदाचन ।काम्बलं चार्म्मणं चैलं महामायाप्रपूजने ॥
प्रशस्तमासनं प्रोक्तं कामाख्यायास्तथैव च ।त्रिपुरायाश्च सततं विष्णोश्चापि कुशासनम् ॥
बहुदीर्घं बहूच्छ्रायं तथैव बहुविस्तृतम् ।दारुभूमिसमं प्रोक्तमश्मापि सर्व्वकर्म्मणि ॥
पृथक् पृथक् कल्पयेच्च शोभनं तादृशासनम् ।न पत्रमासनं कुर्य्यात् कदाचिदपि पूजने ॥
न प्राण्यङ्गससुद्भूतमस्थिजं द्विरदादृते ।मातङ्गदन्तसञ्जातमासनं कामिके चरेत् ॥
चर्म्मपूर्व्वोदितं ग्राह्यं तथा गन्धमृगस्य च ॥
* ॥
सलिले यदि कुर्व्वीत देवतानां प्रपूजनम् ॥
तत्राप्यासनमासीनो नोत्थितस्तु समाचरेत् ।तोये शिलामयं कुर्य्यादासनं कौशमेव वा ॥
दारवं तैजसं वापि नान्यदासनमाचरेत् ।आसनारोपसंस्थानं स्थानाभावे तु पूजकः ॥
आसनं कल्पयित्वा तु मनसा पूजयेज्जले ॥
यद्यासनस्य संस्थानं तोयमध्ये न विद्यते ॥
अन्यत्र वा तदा स्थित्वा देवपूजां समाचरेत्इत्येतत् कथितं पुत्त्र पूज्यपूजकसङ्गतम् ॥
आसनं पाद्यमधुना शृणु वेतालभैरव” ॥
इति कालिकापुराणे ६७ अध्यायः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
