| YouTube Channel

आश्लिष्टः (AzliSTaH)

 
E Bharati Sampat
Sanskrit
(वि) आ+श्लिष्(आलिङ्गने)+क्तः। ‘निष्ठा’ ३.१.१०२। १.आलिङ्गितः। ‘आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम्’ माघः१.२०। २.संयुक्तम्
कृदन्तरूपमाला
Sanskrit
1 {@“श्लिष आलिङ्गने”@} 2 ‘श्लिष्यत्यालिङ्गने, दाहे श्लेषति श्लेषते, णिचि।।
श्लेषयेत्--’ 3 इति देवः।
आश्लेषः--नक्षत्रविशेषः, आलिङ्गनं च।
संज्ञायां, करणे वा घञ् अत्र।
आश्लेषी--णिनिः।
4 श्लेषः--अलंकारविशेषः।
आश्लिष्टः कन्यां देवदत्तः
‘गत्यर्थाकर्मक--’ 5 इत्यादिना कर्तरि क्तः।
श्लेष्मा--औणादिकः 6 मनिन्प्रत्ययः।
रोगविशेषस्य, तज्जनक- शारीरकपदार्थविशेषस्य नाम।
इतराणि सर्वाण्यपि रूपाणि दैवादिक- तुष्यतिवत् 7 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७८६)
02
=>
(४-दिवादिः-११८६। सक। अनि। पर।)
03
=>
(श्लो। १७५-६)
04
=>
[[१। ‘श्याद्व्यधाश्रुसंस्रूवतीणवसावहृलिहश्लिष--’ (३-१-१४१) इति कर्तरि णप्रत्ययः।]]
05
=>
(३-४-७२)
06
=>
(द। उ। ६-७३)
07
=>
(७५८)