| YouTube Channel

आव्यम् (Avyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“अव रक्षण गति कान्ति प्रीति तृप्ति अवगम प्रवेश श्रवण”@} {@स्वाम्यर्थ याचन क्रियेच्छा दीप्ति अवाप्ति आलिङ्गन हिंसाऽऽदान भाग वृद्धिषु”@} 2 ‘अव् = रक्षणे गतौ कान्तौ प्रीतौ तृप्तौ द्युतौ श्रुतौ।
प्राप्तौ श्लेषेऽर्थने वेशे भागे वृद्धौ ग्रहे वधे।।
स्वाम्यर्थेऽवगमे कामे कृतौ--’ इति बोपदेवः।
आवकः-विका, आवकः-विका, अविविषकः-षिका
अविता-त्री, आवयिता-त्री, अविविषिता-त्री
अवन् 3 -न्ती, आवयन्-न्ती, अविविषन्-न्ती
अविष्यन्-न्ती-ती, आवयिष्यन्-न्ती-ती, अविविषिष्यन्-न्ती-ती
-- आवयमानः, आवयिष्यमाणः
4 5 ऊः-जनौः, 6 जनावौ-जनावः
-- अवितः-तम्-तवान्, आवितम्, अविविषितम्-तः-तवान्
अवः, आवः, अविविषुः, आविवयिषुः
अवितव्यम्, आवयितव्यम्, अविविषितव्यम्
अवनीयम्, आवनीयम्, अविविषणीयम्
आव्यम्, आव्यम्, अविविष्यम्
ईषदवः, दुरवः, स्ववः
-- -- अव्यमानः, आव्यमानः, अविविष्यमाणः
आवः, आवः, अविविषः
7 ऊतिः, आवना, अविविषा, आविवयिषा
अवितुम्, आवयितुम्, अविविषितुम्
अवनम्, आवनम्, अविविषणम्
अवित्वा, आवयित्वा, अविविषित्वा
समव्य, समाव्य, समविविष्य
आवम् २, अवित्वा २, आवम् २, आवयित्वा २, अविविषम्
अविविषित्वा
8 ओम्, अवनी- 9 अवनिः, ओतुः 10 11।
प्रासङ्गिक्यः
01
=>
(४७)
02
=>
(१-भ्वादिः-६०० सक। से-पर।)
03
=>
[[आ। तव विदितविषादो दृष्टकृत्स्नाऽऽमिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम्।। भ। का। १०-१७।]]
04
=>
[पृष्ठम्००४५+ २४]
05
=>
[[१। ‘ज्वरत्वर--’ (६-४-२०) इत्युपधावकारयोरूठ्।]]
06
=>
[[१आ। ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिः।]]
07
=>
[[२। ‘ऊतियूति--’ (३-३-९७) इति क्तिनि उदात्तान्तो निपातितः।]]
08
=>
[[३। औणादिके मन्प्रत्यये प्रत्ययस्य टिलोपे इडभावे ऊठि गुणे रूपम्।]]
09
=>
[[४। औणादिकेऽनिप्रत्यये ‘कृदिकारात्--’ (४-१-४५। ग। सू।) इति डीषि रूपद्वयम्।]]
10
=>
[[५। औणादिकः तुन् प्रत्ययः, ऊट् गुणः।]]
11
=>
(बिडालः)
1 {@“उङ् शब्दे”@} 2 आवकः-विका, आवकः-विका, 3 ऊषिषकः-षिका
ओता-त्री, आवयिता-त्री, ऊषिषिता-त्री
-- आवयन्-न्ती, आवयिष्यन्-न्ती-ती
4 अवमानः, आवयमानः, ऊषिषमाणः
ओष्यमाणः, आवयिष्यमाणः, ऊषिषिष्यमाणः
5 समुत्-समुतौ-समुतः
-- -- उतम्-तः-तवान्, आवितम्-तः-तवान्, ऊषिषितम्-तः-तवान्
6 अवः, आवः, ऊषिषुः, आविवयिषुः
ओतव्यम्, आवयितव्यम्, ऊषिषितव्यम्
अवनीयम्, आवनीयम्, ऊषिषणीयम्
7 अव्यम्, 8 अवश्याव्यम्, आव्यम्, ऊषिष्यम्
ईषदवः-दुरवः-स्ववः
-- -- 9 ऊयमानः, आव्यमानः, ऊषिष्यमाणः
10 अवः, आवः, ऊषिषः
11 ओतुम्, आवयितुम्, ऊषिषितुम्
उतिः, आवना, ऊषिषा, आविवयिषा
अवनम्, आवनम्, ऊषिषणम्
उत्वा, आवयित्वा
ऊषिषित्वा
समुत्य, समाव्य, समूषिष्य
आवम् २, उत्वा २, आवम् २, आवयित्वा २, ऊषिषम्
ऊषिषित्वा २।
प्रासङ्गिक्यः
01
=>
(९४)
02
=>
(१-भ्वादिः-९५३-अक। अनि। आत्म-)
03
=>
[[१। ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। द्वित्वम्।]]
04
=>
[[आ। ‘स्तोत्रावमानैः दुतवेणुवीणैः च्युताशुभैर्व्योमचरैर्ज्युतं ते। प्रवे भवाब्धिप्लवमारुतानां धृतामयं भक्तिनिमेयमङ्घ्रिम्।।’ धा। का। २-३६।]]
05
=>
[[२। ‘ह्रस्वस्य पिति--’ (६-१-७१) इति तुक्।]]
06
=>
[[३। पचाद्यच्।]]
07
=>
[[४। ‘अचो यत्’ (३-१-९७) इति यत्।]]
08
=>
[[५। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
09
=>
[[६। ‘अकृत्सार्वधातुकयोर्दीर्घः’ (७-४-२५) इति दीर्घः।]]
10
=>
[[७। ‘ऋदोरप्’ (३-३-५७) इत्यप् भावे।]]
11
=>
[पृष्ठम्००९३+ २७]