| YouTube Channel

आविर्भूतः (AvirbhUtaH)

 
E Bharati Sampat
Sanskrit
(वि) आविस्+भू(सत्तयाम्)+घञ् ‘भावे’ ३.३.१८। १.प्रत्यक्षः। २.प्रकाशितः, स्पष्टः। ‘आविर्भूतमपां मध्ये पारिजातमिवापरम्’ रघुः१.११।
शब्दकल्पद्रुमः
Sanskrit
आविर्भूतः, त्रि, (आविस् + भू + क्त ।) प्रकाशितः ।अधिष्ठितः जन्मयुक्तः अवतीर्णः प्रादुर्भूतः ।आविर्भावविशिष्टः यथा, --“उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ ।लग्ने कर्कटके पुनर्व्वसुदिने मेषं गते पूषणि ।निर्दग्धुं निखिलाः पलाशसमिधो मध्यादयोध्यारणे-राविर्भूतमभूदपूर्व्वविभवं यत्किञ्चिदेकं महः”
“तत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ।आविर्भूता महाघोरा योगिनीकोटिभिः सह”
इति तिथ्यादितत्त्वम्