| YouTube Channel

आवश्यकं (AvazyakaM)

 
शब्दकल्पद्रुमः
Sanskrit
आवश्यकं, त्रि, (अवश्य + मनोज्ञादित्वाद्वुञ् अव्य-यानां भमात्र इति टिलोपः ।) अवश्यकर्त्तव्यं ।नैश्चयिकं उचितं यथा “घ्यणोरावश्यके ।उवर्णान्तादावश्यकेऽर्थे घ्यण् स्यात्” इति मुग्ध-बोधव्याकरणं
किञ्च आवश्यकपर्ब्बादिक्रियमा-णस्य नित्यनैमित्तिकत्वं इति तिथ्यादितत्त्वं
(यथा साहित्यदर्पणे, “आवश्यकानां कार्य्याणांअविरोधाद्विनिर्म्मितः” ।)