| YouTube Channel

आलीढं (AlIDhaM)

 
शब्दकल्पद्रुमः
Sanskrit
आलीढं,
क्ली,
(आङ् + लिह् + क्तः ।) धन्विनां दक्षिण-जङ्घाप्रसारवामपादसंकोचरूपावस्थानं इत्यमरः ।(यथा, रघौ ५२ ।। “अतिष्ठदालीढविशेषशोभिनावपुःप्रकर्षेण विडम्बितेश्वरः” ।(तल्लक्षणं यथा, चिन्तामणिधृतम् ।“नमिता पूर्व्वजङ्घा पश्चिमा प्रगुणा भवेत् ।असमो मध्यकायश्च स्यादालीढस्य लक्षणम्”
)
आलीढं, त्रि, (आङ् + लिह + क्त ।) अशितं भुक्तं ।इति मेदिनी
(क्षतः, रघुवंशे, ३७ ।“सेनान्यमालीढमिवासुरास्त्रैः” ।)