| YouTube Channel

आलिङ्गनं (AliGganaM)

 
शब्दकल्पद्रुमः
Sanskrit
आलिङ्गनं,
क्ली,
(आङ् + लिङ्ग + ल्युट् ।) प्रीतिपूर्व्वक-परस्पराश्लेषः कोलाकोली इति भाषा तत्-पर्य्यायः अङ्गपालिः श्लिषा इति त्रिकाण्ड-शेषः
परिरम्भः परीरम्भः परिष्वङ्गः ६संश्लेषः उपगूहनं इत्यमरः
तत्सप्तधायथा आमोदालिङ्गनं मुदितालिङ्गनं प्रेमा-लिङ्गनं आनन्दालिङ्गनं रुच्यालिङ्गनं मदना-लिङ्गनं विनोदालिङ्गनं इति कामशास्त्रम्
(“आलिङ्गनान्यधिकृताः स्कुटमापुरेव” ।इति माघः
यथा मेघटूते उत्तरमघे ।“यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छूसितानां” ।)