| YouTube Channel

आलस्यम् (Alasyam)

 
E Bharati Sampat
Sanskrit
(वि) अलसस्य भावः। अलस+ष्यञ्(स्वार्थे)। ‘कर्मणि च’ चातुर्वर्ण्यादिभ्यः स्वार्थे उपसंख्यानम्’ वा०५.१.१२४। अलसः। मन्दः, तुन्दपरियृजः, शीतकः, अनुष्ठाः। ‘मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः’ अमरः।
(न) अलसस्य भावः। अलस+ष्यञ् ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च’ ५.१.१२४। १.तन्द्रा ‘तन्द्रा, कौसीद्यम्’ हेमचन्द्रः। ‘मन्दता, मान्द्यम्, कार्यप्रद्वेषः, कार्यनिरुत्साहः’ राजनिर्घण्टः। ‘सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणयोलता शक्तस्य चाप्यनुत्साहः कर्मण्यालस्यमुच्यते’ सुश्रुतः। ‘आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।’ २.व्याभिचारिभेदः। ‘न तथा भूषयत्यङ्गं तथा भाषते सखीम् जृम्भते मुहुरासीना बाला गर्भभरालसा’ सा०द०१८३। ३.धर्मक्रियाशून्यत्वम् ‘धर्मनिष्क्रियतालस्यं शोकस्त्वज्ञानमुच्यते’ भा०व०३११। ‘आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति’ मनुः। ‘अत्तालस्यं धर्मक्रियाशून्यत्वम्’ वाचस्पत्यम्
Wordnet
Sanskrit
Synonyms:
आलस्यम्, तन्द्रा, कौसीद्यम्, मन्दता, मान्द्यम्, कार्यप्रद्वेषः
noun
श्रमगर्भाद्यैः जाड्यम्।
"आलस्यात् कार्यस्य पूर्तता जाता।"
Tamil
Tamil
ஆலஸ்யம் : சோம்பல், மந்தகதி.