| YouTube Channel

आलस्यं (AlasyaM)

 
शब्दकल्पद्रुमः
Sanskrit
आलस्यं,
क्ली,
(अलस + ष्यञ् ।) अलसस्य भावः ।अलसता तत्पर्य्यायः तन्द्रा कौसीद्यं इतिहेमचन्द्रः
मन्दता मान्द्यं कार्य्यप्रद्वेषः ।इति राजनिर्घण्टः
(यदुक्तं “आलस्यं श्रमग-र्भाद्यैर्जाड्यं जृम्भासितादिकृत्” इत्युक्तलक्षणोव्यभिचारिभावभेदः सुश्रुते ।“सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता ।शक्तस्य चाप्यनुत्साहः कर्म्मण्यालस्यमुच्यते”
)