आलयविज्ञान (AlayavijJAna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaआलयविज्ञान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಬೌದ್ಧಮತದಲ್ಲಿ ನಾನು ಎಂಬ ಭಾವನೆಯಿಂದ ಆತ್ಮವೆನ್ನಲ್ಪಡುವ ಸೂಕ್ಷ್ಮಚಿತ್ತ
व्युत्पत्तिः - > आलयं लयपर्यन्तं स्थायि विज्ञानम्
प्रयोगाः - > "तत् स्यात् आलयविज्ञानं यद्भवेदहमास्पदम्"
उल्लेखाः - > स० द० सं०
Edgerton Buddhist Hybrid
Englishālaya-vijñāna (see ālaya, 1) connaissance-réceptacle (E. Lamotte, LʼĀlayavijñāna [Le Réceptacle] dans le Mahāyāna-saṃgraha, Mél. chin. et boud., vol. 3, Brussels, 1935, 〔169 ff.〕), or basic, fundamental, underlying vijñāna: Mvy 〔2017〕, where ālaya = kun gzhi, ultimate basis, identified sometimes with citta (Lévi, Sūtrāl. 〔i.18, n. 2〕 in Transl.), and opp. to manas. Frequent in Laṅk
notably 〔2.13〕 (samudrataraṅgān avaloky) ālaya-vijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs … cittāny avalokya, looking on the waves of the sea, stirred in the range (viṣaye) of the wind of the active vijñāna and the ocean of the basal vij., and looking on the minds (of the people there
ālaya-vi° is the ocean, pravṛtti-vi° the wind which stirs it
see under ālaya 1).
वाचस्पत्यम्
Sanskritआलयविज्ञान आलयं लयपर्य्यन्तस्थायि विज्ञानम् ।बौद्धमतसिद्धे अहमास्पदे विज्ञानभेदे । “तत् स्यादालयविज्ञानंयद्भवेदहमास्पदम् । तत् स्यात् प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत्” तेषां मते हि विज्ञानातिरिक्तो बाह्यपदार्थोनास्ति, ज्ञानस्यैवाकारविशेषः अर्घोल्लेखी । आलयविज्ञानस्यसदातनत्वेऽपि कदाचित् नीलाद्युल्लेखिता तथा हि विवादा-ध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेवनीलाद्युल्लखनाः काचित्कत्वात् इति विज्ञानस्य कादाचित्कत्वसिद्धिः “तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कःप्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव न, वासनापरिपाक-प्रत्ययस्य कादाचित्कत्वात् कदाचिदुत्पाद इति वेदितव्यम् ।विज्ञानवादिनये हि वासनानामेकसन्तानवर्त्तिनामालय-विज्ञानानां तत्तत्प्रवृत्तिजननशक्तिः तस्याश्च स्वकार्य्योत्-पादं प्रत्याभिमुख्यं परिपाकः तस्य च प्रत्ययः कारणंस्वसन्तानवर्त्तिपूर्व्वक्षणः कक्षीक्रियते सन्तानान्तरनिबन्धत्वानङ्गीकारात् । ततश्च प्रवृत्तिज्ञानजननालयविज्ञान-वर्त्तिवासनापरिपाकं प्रति सर्व्वेऽप्यालयविज्ञानवर्त्तिनःक्षणाः समर्था एवेति वक्तव्यम् । न चेदेवं कोऽपि नसमर्थः स्यादालयविज्ञानसन्तानवर्त्तित्वाविशेषात् । सर्व्वेसमर्था इति पक्षे कार्य्यक्षेपानुपपत्तिः ततश्च कादाचित्-कत्वनिर्व्वाहाय शब्दस्पर्शरूपरसगन्धविषयाः सुखादि-विषयाः षडपि प्रत्ययाश्चतुरः प्रत्ययान् प्रतीत्योत्पद्यन्तेइति चतुरेणानिच्छताप्यच्छमतिना स्वानुभवमनाच्छाद्यपरिच्छेत्तव्यम् । ते चत्वारः प्रत्ययाः प्रसिद्धाः आलम्बन-समनन्तरसहकार्य्यधिपतिरूपाः । तत्र ज्ञानपदवेदनीयस्यनीलाद्यवभासस्य चित्तस्य नीलालम्बनप्रत्ययात् नीला-कारता भवति, समनन्तरप्रत्ययात् प्राचीनज्ञानाद्बोधरूपता, सहकारिप्रत्ययादालोकात्, चक्षुषोऽधिपतिप्रत्ययाद्विषय-ग्रहणप्रतिनियमः । विदितस्य ज्ञानस्य रसादिसाधारण्य-प्राप्तेर्नियामकं चक्षुरधिपतिर्भवितुमर्हति लोके नियामक-स्याधिपत्वोपलम्भात् । एवं चित्तचैत्तात्मकानां सुखा-दीनां चत्वारि कारणानि द्रष्टव्यानि । एवं चित्तचैत्तात्म-कस्कन्धः पञ्चविधः रूपविज्ञानवेदनासंज्ञासंस्कारसं-ज्ञकः । तत्र रूप्यन्त एभिर्विषया इति रूप्यन्त इति चव्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः । आलय-विज्ञानप्रवृत्तिविज्ञानप्रवाहो विज्ञानस्कन्धः । प्रागुक्त-स्कन्धद्वयसम्बन्धजन्यः सुखदुःखादिप्रत्ययप्रवाहो वेदना-स्कन्धः । गौरित्यादिशब्दोल्लेखिविज्ञानप्रवाहः संज्ञास्कन्धःवेदनास्कन्धनिवन्धना रागद्वेषादयः क्लेशा उपक्लेशाश्चमदमानादयो धर्म्माधर्म्मौ च संस्कारस्कन्धः” सर्वद०विज्ञानानां क्षणिकत्वेऽपि पूर्व्वपूर्व्वक्षणिकविज्ञानसंस्कारा-णामुत्तरोत्तरविज्ञाने संक्रमः तत्संक्रमाच्च स्मरणं, सुषुप्तौच आलयविज्ञानस्य सत्त्वात् तत्रैव सर्व्वसंस्काराणामव-स्थितेः सुप्तोत्थितस्य स्मरणसम्भव इत्यतो बौद्धैः आलय-पर्य्यन्तं क्षणिकविज्ञानव्यक्तिधाराणां स्थायित्वमङ्गीक्रियते ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
