| YouTube Channel

आलक्ष्यः (AlakSyaH)

 
E Bharati Sampat
Sanskrit
(वि) समन्तानत् लक्ष्यम् आ+लक्ष(दर्शनाङ्कनयोः)+यत् ‘अचो यत्’ ३.१.९७। १.सम्यग् ज्ञेयः। २.सम्यग् दृश्यः। ३.ईषदॄश्यः। ४.ईषद्‌ज्ञेयः। ‘उपान्तवानीरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि’ रघुः १३.३०। (अ) आ+लक्ष(दर्शनाङ्कनयोः)+णिच्+ल्यप् ‘समासेऽनञ् पूर्वे क्तो ल्यप्’ ७.१.३७। ५.सम्यग् ज्ञात्वा ६.सम्यग् दृष्ट्वा