| YouTube Channel

आर्षः (ArSaH)

 
Apte Hindi
Hindi
आर्षः
पुं*
- ऋषेरिदम्-अण्
"विवाह का एक प्रकार, आठ भेदों में से विवाह का एक भेद जिसमें दुलहिन का पिता वर महोदय से एक या दो जोड़ी गाय प्राप्त करता है"
E Bharati Sampat
Sanskrit
(वि) ऋषेरिदम् ऋषि+अण् ‘तस्येदम्’ ४.३.१२०। १.ऋषिसम्बान्धी तत्कृतपुराणकाव्यादिः। २.ऋषिप्रणीतम् ‘आर्षं धर्मोपदेशं वेदशास्त्राविरोधिना यस्तर्केणानुसन्धत्ते धर्मं वेद नेतरः’ मनुः१२.१०६। २.वैदिकः। ‘संबुद्धौ आकल्यस्येतावनार्वे’ अव्यधानी ऋषेरयं वाचकः। ऋषि+अण् ३.ऋष्याभिधायी (स्त्री) आर्षी ४.व्याकरणोक्तानुशासनमुल्लङ्घ्य ऋषिणा प्रयुक्तः साधुत्वेनाभिमतः असाधुशब्द प्रयोगः। आर्षप्रयोगः। (पुं) ऋषिर्वेदः तस्यायम् ऋषि+अण् ‘तस्येदम्’ ४.३.१२०। ५.विवाहविशेषः, अष्टविधविवाहभेदेष्वेकः। ‘ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः। गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः’ मनुः३.२१। ‘एकं गोमिथुनं द्वे वा वरादादाय धर्मतः कन्याप्रदानं विधिवदार्षो धर्मः उच्यते’ मनुः३.२६।
शब्दकल्पद्रुमः
Sanskrit
आर्षः,
पुं,
(ऋषे रिदं ऋषि + अण् ।) विवाह-विशेषः यत्र वरात् गोद्वयं गृहीत्वा तेनैव सहकन्यादानं यथा, याज्ञबल्क्यः, --“यज्ञस्थायर्त्विजे दैव आर्ष आदाय गोयुगं ।चतुर्द्दश प्रथमजः पुनात्युत्तरजश्च षट्”
(यथा मनुः, २९ ।“एकं गोमिथुनं द्वे वा वरादादाय धर्म्मतः ।कन्याप्रदानं विधिवदार्षो धर्म्मः उच्यते”
)ऋषिप्रणीते त्रि
(यथा मनुः १२ १०६ ।“आर्षं धर्म्मोपदेशञ्च वेदशास्त्रविरोधिना ।यस्तर्केणानुसन्धत्ते धर्म्मं वेद नेतरः”