आर्ष (ArSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishCapeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English आर्ष ArSa relating or belonging to or derived from RSis
आर्ष ArSa archaic
आर्ष ArSa archaistic
आर्ष ArSa form of marriage derived from the RSis
आर्ष ArSa speech of a RSi
आर्ष ArSa Vedas
आर्ष ArSa holy text
आर्ष ArSa sacred descent
Wilson
EnglishApte
Englishआर्ष [ārṣa], (-र्षी ) [ऋषेरिदं अण्]
Used by a Ṛiṣi only, relating or belonging to sages, beneficial to sages
शमो दमस्तथा धैर्यं सत्यं शौचमथार्जवम् । यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ॥ * 12.12.17
archaic, Vedic (opp. लौकिक or classical)
आर्षः प्रयोगः
संबुद्धौ शाकल्यस्येतावनार्ष I.1.16 Sk.
आर्षे धर्मः 3.29
1.59
आर्षः प्रत्ययः II.4.58.
Sacred, holy, divine, superhuman
आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम् 6.128.15
6. -र्षः A form of marriage derived form the Ṛiṣis
one of the eight forms of marriage in which the father of the bride receives one or two pairs of cows from the bridegroom
आदायार्षस्तु गोद्वयम् 1.59
3.53, 9.196
for the names of the 8 forms see उद्वाह
आर्षोढा a wife married according to this form. -र्षा A class of Vedic metres.
र्षम् The holy text, the Vedas
आर्षं धर्मोपदेशं च वेदशास्त्रा- विरोधिना 12.16.
Sacred descent.
Derivation (of a poem) from a Ṛiṣi author. -आर्षधरम् of a Sāman.
Apte 1890
Englishआर्ष a. (र्षी f.) [ऋषेरिदं अण्] 1 Used by a Ṛṣi only, relating or belonging to sages, archaic, Vedic (opp. लौकिक or classical)
आर्षःप्रयोगः
संबुद्धौ शाकल्यस्येतावनार्षे Sk.
आर्षो धर्मः Ms. 3. 29
Y. 1. 59
आर्षः प्रत्ययः P. II. 4. 58.
2 Sacred, holy, divine, superhuman
U. 6.
र्षः A form of marriage derived from the Ṛṣis
one of the eight forms of marriage in which the father of the bride receives one or two pairs of cows from the bride-groom
आदायार्षस्तु गोद्वयम् Y. 1. 59
Ms. 3. 53, 9. 196
for the names of the {8} forms see उद्वाह
आर्षोढा a wife married according to this form.
र्षा A class of Vedic metres.
र्षं 1 The holy text, the Vedas.
2 Sacred descent.
3 Derivation (of a poem) from a Ṛṣi author.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishआर्ष आर्ष, अस्, ई, अम् (fr. ऋषि), relating or
belonging to or derived from Ṛṣis, i. e. the poets
of the Vedic and other old hymns, archaistic
(अस्), m.
a form of marriage derived from the Ṛṣis, the
father of the bride receiving one or two pairs of kine
from the bridegroom
(अम्), n. the speech of a
Ṛṣi, the holy text, the Vedas
sacred descent
the
derivation (of a poem) from a Ṛṣi author
(आ),
f. a class of Vedic metres.
—आर्षोढा (°ष-ऊढ्°),
f. a wife married according to the Ārṣa form.
Macdonell
EnglishBenfey
EnglishApte Hindi
Hindiआर्ष
वि* - ऋषेरिदम्-अण्
"केवल ऋषि द्वारा प्रयुक्त, ऋषि संबंधी, आर्ष, वैदिक"
आर्ष
वि* - ऋषेरिदम्-अण्
"पवित्र, पावन
अति मानव"
आर्षः
- ऋषेरिदम्-अण्
"विवाह का एक प्रकार, आठ भेदों में से विवाह का एक भेद जिसमें दुलहिन का पिता वर महोदय से एक या दो जोड़ी गाय प्राप्त करता है"
आर्षम्
- ऋषेरिदम्-अण्
"पावन पाठ, वेद"
Shabdartha Kaustubha
Kannadaआर्ष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ೮ ವಿಧ ವಿವಾಹಗಳಲ್ಲೊಂದು
निष्पत्तिः - > "अण्" (४-३-१२०)
व्युत्पत्तिः - > ऋषिर्वेदः तस्यापत्य्म्
प्रयोगाः - > "ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥"
उल्लेखाः - > मनु० ३-२१
आर्ष
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಋಷಿ ಸಂಬಂಧವಾದ
निष्पत्तिः - > "अण्" (४-३-१२०)
व्युत्पत्तिः - > ऋषेरिदम्
आर्ष
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಋಷಿಪ್ರಣೀತವಾದ
प्रयोगाः - > "आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥"
उल्लेखाः - > मनु० १२-१०६
आर्ष
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ವೇದ ಸಂಬಂಧವಾದ
निष्पत्तिः - > "अण्" (४-३-१२०)
व्युत्पत्तिः - > ऋषिर्वेदः तस्देदम्
L R Vaidya
EnglishArza {% (I) a. (f. र्षी) %} 1. Relating or belonging to a Ṛishi
2. Vedic, (op. to लौकिक or classical), e.g. आर्षः प्रयोगः.
Edgerton Buddhist Hybrid
EnglishAbhyankara Grammar
Englishआर्ष derived from the holy sages
founded on sacred tradition, such as the Vedāṅgas
cf. कृत्स्नं च वेदाड्गमनि- न्द्यमार्षम् R. Prāt. XIV 30. The word is explained as स्वयंपाठ by the com. on Vāj Prāt. IX.2I, and as Vaidika saṁdhi on X.l3. Patañjali has looked upon the pada-pāṭha or Pada-text of the Saṁhitās of the Vedas, as anārṣa, as contrasted with the Saṁhitā text which is ārṣa
cf. आर्ष्याम् in the sense संहितायाम् R. Prāt. II.27
cf. also पदकारैर्नाम लक्षणमनुवर्त्यम् M.Bh. on III.1.109.
Schmidt Nachtrage zum Sanskrit Worterbuch
GermanMahabharata
English*Ārsha, adj. (“belonging to or named after the ṛshis”): XII, 349 (vidhiḥ).
पुराणम्
Englishआर्षम् / ĀRṢA(M). A form of marriage. brāhma is the form of marriage in which the bride is given to a man of good ancestry and fine character. marriage by giving the bride after receiving a pair of cows from the bridegroom is called ārṣa. prājāpatya is the form of marriage in which the bride is given to the man who asks for her. When the bride is given with dowry, the marriage is known as āsuram. marriage with the mutual love and consent is gāndharva. Capturing the bride after a fight and marrying her by force is rākṣasa. marriage after deceiving the bride is called paiśāca. These are the seven types of marriage. According to the author of the smṛti another form of marriage known as daiva is also mentioned. (agni purāṇa, Chapter 154).
शब्दकल्पद्रुमः
Sanskritआर्षः, (ऋषे रिदं । ऋषि + अण् ।) विवाह-विशेषः । यत्र वरात् गोद्वयं गृहीत्वा तेनैव सहकन्यादानं । यथा, याज्ञबल्क्यः, --“यज्ञस्थायर्त्विजे दैव आर्ष आदाय गोयुगं ।चतुर्द्दश प्रथमजः पुनात्युत्तरजश्च षट्” ॥
(यथा मनुः, ३ । २९ ।“एकं गोमिथुनं द्वे वा वरादादाय धर्म्मतः ।कन्याप्रदानं विधिवदार्षो धर्म्मः स उच्यते” ॥
)ऋषिप्रणीते त्रि ॥
(यथा मनुः १२ । १०६ ।“आर्षं धर्म्मोपदेशञ्च वेदशास्त्रविरोधिना ।यस्तर्केणानुसन्धत्ते स धर्म्मं वेद नेतरः” ॥
वाचस्पत्यम्
Sanskritआर्ष ऋषेरिदस् अण् । १ ऋषिसम्बन्धिनि तत्कृतपुराणकाव्यादौ । “धर्म्मो यस्याभि शङ्क्यः स्यादार्षं वा दुर्बलात्मनः ।वेदात् शूद्र इवापेयात् स लोकादजरामरात्” भा०व० प० ३१ अ० । आर्षं मन्वादिमतं यस्याभिशङ्क्य-मित्यर्थः “अस्मिन्नार्षे पुनःसंज्ञा भवेदाख्यानसंज्ञका” ःसा० द० । “इत्यार्षेरामायणे” इत्येवं रामायणसर्गसमाप्तौभूरिप्रयोगः । ऋषिणा जुष्टम् । २ ऋषिसेविते वेदे ।“आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्केणा-मुसंधत्ते स धर्मं वेद नेतरः” मनुः ।ऋषिर्वेदस्तस्येदम् अण् । ३ वैदिके । “सम्बुद्धौ शाकल्यखेतावानार्षे” पा० “अनार्षे अवैदिके” सि० कौ० । “आर्षंप्रमाणमुत्क्रम्य धर्म्मं न प्रतिपालयन्” भा० व० प० ३१ अ० ।ऋषेरयं वाचकः अण् । ५ ऋष्यभिधायिनि “ण्यक्षत्रिय-ञितोयूनि अणिञोः” पा० (आर्षात्) “ऋष्यभिधायिनः”सि० कौ० संस्कारहीनत्वेपि ऋषिणा प्रयुक्तः अण् ।व्याकरणोक्तानुशासनसुल्लङ्घ्य ऋषिणा प्रयुक्ते असाधुन्यपिसाधुत्वेनाभिमते ५ शब्दभेदे । आर्षः प्रयोगः । ऋषीणांसमूहः प्रवरगणभेदः अण् । गोत्रप्रवर्त्तकमुनीनां ७ व्या-वर्त्तकप्रवरर्षिसमूहे “अरोगिणीं भ्रातृमतीमसामानार्ष-गोत्रजाम्” या० । मिता० तु ऋषेरिदमार्षं नाम प्रवर इतिव्याख्यातम् ऋषिर्वेदस्तत्र विहितः अण् । ७ विवाहभेदे“यज्ञस्थायर्त्विजे दैव आर्ष आदाय गोयुगम् । चतुर्द्दशप्रथमजः पुनात्युत्तरजश्च षट्” या० “अष्टाविमान् समासेनस्त्रीविवाहान् निबोधत । ब्राह्मोदैवस्तथैवार्षः प्राजापत्य-स्तथाऽऽसुरः । गान्धर्व्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः”इत्युपक्रम्य “एकं गोमिथुनं द्वे वा वरादादाय धर्मतः । कन्या-प्रदानं विधिवदार्षो धर्मः स उच्यते” मनुस्मृतौ धर्म्मइत्युपादानात् कन्यानृशंस्यार्थं गोयुगग्रहणेऽपि न दोषः ।अतएव मनुना तादृशस्य गोमिथुनग्रहणस्य स्वभोगसाधनत्वाभावेन शुल्कत्वमेव निराकृतम् “आर्षे गोमिथुनंशुल्कंकेचिदाहुर्मृषैव तदिति” “आर्षोढाजः सुतस्त्रीन्त्रीन्” मनुः ।गोत्रभेदे प्रवरभेदाश्च विश्वादर्शे दर्शिता यथा । “अत्रगोत्रप्रवराणां स्वरूपं महाप्रवरपाठादवगतन्तव्यम् ।तत्र महान्तः प्रवरा एकद्वित्रिपञ्चार्षेया ऊनपञ्चाशदेवते च सप्तानां गोत्राणां गणश उच्यन्ते । तावतैवापेक्षित-सिद्धेः । यथा वत्सानां भार्गवच्यवनाप्लुवानौर्वजामदग्न्येति १विदानां भार्गवच्यवनाप्लुवानवौर्वविदेति ३ । आर्ष्टिषेणानांभार्गवच्यवनाप्लुवानौर्वार्ष्टि षेणेति २ । जामदग्न्यानां भार्गव-च्यवनाप्लुवानौर्वजामदग्न्येति ४ । एते समानप्रवराः ।अर्घाधिकर्षितुल्यत्वात् । यास्कानां भार्गववीतहव्यसा-वेदसेति ५ । मित्रध्रुवाणां भार्गववाध्र्यश्वदैवोदासेति ६ ।वैण्यानां भार्गववैण्यपार्थेति ७ । एते भार्गवानुवृत्तावपिन मिथः समानप्रवराः भृगुं मुक्त्वेति वचनात् । शुन-कानां शौनकेति वा गार्त्समदेति वा । अत्र गोत्रप्रवरभेदोपयोगित्वेन पक्षे प्रवरैक्यादविवाहः । एते सप्तभृगवः । अथाङ्गिरसा गौतमा भारद्वाजाः शुद्धाश्वेति त्रि-विधाः । तेषु गौतमास्तावत् । आयास्यानामाङ्गिरसायास्यगौतमेति १ । शारद्वतानामाङ्गिरसशारतद्वतगौतमेति २ ।कौमण्डकानामाङ्गिरसौदक्यकाक्षीवत गौतमकौमण्डेति ३ ।दीर्घतमानामाङ्गिरसौदक्यकाक्षीवतगौतमदैर्व्यतमेति ४ । का-रेणुपालानामाङ्गिरस गौतमकारेणुपालेति ५ । वामदेवा-नामाङ्गिरसगौतमवामदेवेति ६ । औशसानानामाङ्गिरसौशस-नगौतमेति ७ । एते सप्त गौतमाङ्किरसाः समानप्रवराःअर्द्धाधिकर्षितुल्यत्वात् । भारद्वाजानामाङ्गिरसबार्हस्पत्य-भारद्वाजेति १ । रौक्षायणानामाङ्गिरसबार्हस्पत्यभारद्वाजचान्दनमातृवचसेति । गर्गाणामाङ्गिरसवार्हस्पत्यभार-द्वाजगार्ग्यशैन्येति । आङ्गिरसगार्ग्य शैन्येति वा ३ ।त्रय एते भरद्वाजाङ्गिरसाः समानप्रवराः अर्घाधिक-र्षितुल्यत्वात् । गार्ग्याणां त्र्यार्षेयपक्षेऽर्द्धाधिकर्षितुल्यत्वा-भावेऽपि पक्षे समानप्रवरत्वाद्भारद्वाजैरविवाहः । विष्णु-वृद्धानामाङ्गिरसपौरुकुत्सजामदग्न्येति १ । काण्वानामा-ङ्गिरसाजमीढकाण्वेति २ । हरितानामाङ्गिरसाम्बरीषयौवनाश्वेति ३ । सांकृतीनामाङ्गिरससांकृत्यगौरवीतेति ४ ।रथीतराणामाङ्गिरसवैरूप्यरथीतरेति ५ । मुद्गलानामाङ्गिरसभार्म्याश्वमौद्गलेति ६ । कपीनामाङ्गिरसामक्षय्यवार्क्षय्येति ७ ।एते सप्त शुद्धाङ्गिरसाः भिन्नप्रवराः आङ्गिरसानु-वृत्तावपि आङ्गिरसम्मुक्त्वेति वचनात् । अत्रीणामात्रेया-र्चनानसश्यावाश्वेति १ । गबिष्ठिराणाम्पत्रेयार्चनानसगविष्ठिरेति २ । बभ्रूदकानाम् आत्रेयार्चनानसबभ्रूदकेति ३ ।मुद्गलानामात्रेयार्चनानसपौर्वतिथेति” ४ । एते चत्वारःसमानप्रवराःतुल्यर्षित्वात् । काश्यपानां काश्य पावत्सा-रनैध्रुवेति १ । रेभाणां काश्यपावत्साररैभेति २ । शाण्डि-ल्यानां काश्यपावत्सारशाण्डिल्येति ३ । काश्य पावत्सार-वैदेति वा काश्यावत्सारासितेति वा शाण्डिल्या-सितदेवलेति वा इति चतुर्धा प्रवराः । लौगाक्षीणांकाश्यपावत्सारवासिष्ठेति ५ । एते समानप्रवराः । काश्य-पानुवृत्तेः चतुर्थप्रवरे काश्यपानुवृत्त्यभावेऽपि त्रिभिःप्रवरैः समानप्रवरत्वात् काश्यपैरविवाहः । लौगाक्षीणांवासिष्ठपदानुवृत्त्या द्व्यामुष्यायणत्वाद्वसिष्ठैरविवाहः । वसि-ष्ठानां वासिष्ठेति १ । कुण्डिनानां वासिष्ठमैत्रावरुण कौ-ण्डिन्येति २ । उपमन्यूनां वासिष्ठेन्द्रप्रमदभारद्वस्विति ३ ।पराशराणां वसिष्ठशक्तिपराशरेति ४ । एते वासिष्ठाश्च-त्वारः समानप्रवराः वसिष्ठानुवृत्तेः । कुशिकानां वैश्वा-मित्रदैवरातौदलेति १ । रौहितानां वैश्वामित्राष्टकरोहि-तेति २ । रौत्थकानां विश्वामित्ररौत्थक रैवतेति ३ । विश्वा-मित्राणां वैश्वामित्रारसदेवतरसेति ४ । मौञ्जायनानांविश्वामित्रमधुच्छन्दमौञ्जेति ५ । धनञ्जयानां वैश्वामित्र-माधुच्छन्दसधनञ्जयेति ६ । कतकानां वैश्वामित्रकात्याक्षी-लेति ७ । इन्द्रकौशिकानां विश्वामित्रेन्द्रकौशिकेति ८ ।अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति ९ । पौराणांवैश्चामित्रपौराणेति १० । एतेषां दशानां कुशिकानां विश्वा-मित्रपदानुवृत्तेर्मिथः समानप्रवरत्वम् । अगस्तीनाम-गस्तिदार्ढ्यच्युतेध्मवाहेति । दार्भवाहानामगस्त्यागस्त्यदा-र्ढ्यच्युतदार्भवाहेति १ । साम्भवाहानामागस्त्यदार्ढ्यच्युत-साम्भवाहेति २ । सोमवाहनानामागस्त्यदार्ढ्यच्युत सोमवा-हेति ३ । यज्ञवाहानामागस्त्यदार्ढ्यच्युतयज्ञवाहेति ४ ।चतुर्णामगस्तीनामागस्त्यपदानुवृत्त्या मिथः समानप्रवरत्वमितिप्रवरनिर्णयः । अत्र संग्रहश्लोकाः । “एकोऽपि चं मुनि-र्येषां प्रवरेष्वनुवर्त्तते । सगोत्रास्तेमिथोज्ञेया भृगुमङ्गि-रसं विना । शुनकाः स्युर्गृत्समदैः काश्यपैः शाण्डिलाअपि । भारद्वाजास्तथा गर्गाः पक्षे तुल्यर्षिदर्शनात्” ।यद्वा । “च्यवनो गोतमोऽगस्त्योभरद्वाजोऽत्रिकश्यपौ । वि-श्वामित्रोवशिष्ठश्च यद्गणप्रवरेष्वमी । वर्त्तन्ते ते सगोत्राः स्युःकश्यपैः शाण्डिलास्तथा । शुनकाःस्युर्गृत्समदैर्भारद्वाजैश्चगर्गका” इति । अत्र प्रमादेन समानगणगोत्रप्रवरकन्यो-द्वाहे ज्ञानोत्तरकालं मातृवदेनाम्बिभृयात् । गर्भश्चेदुत्पन्नःस न दुष्यति । काश्यपो भवति गोत्रेण । ज्ञात्वा गच्छन्गुरुतल्पगः । तदुत्पन्नश्चण्डालवद्भवति । श्राद्धमपि स-गोत्रप्रवराय न देयमित्याहुः । प्रवरविज्ञानात् विहीनोभवति एतत्समस्तं संप्रधार्य निश्चितं दास्यामीति तेषामुक्तते गृहङ्गच्छन्ति” ।तत्रैव अथ मतान्तरम् । “सर्वे समानगोत्राःस्यु-रिति गाणगारिः । कथं ह्याप्रीसूक्तानि भवेयुः । कथंप्रयाजा इत्यपि । नानागोत्राः स्युरिति शौनकः । तन्त्राणांव्यापित्वात् गृहपतिगोत्रान्वयाविशेषात् । तस्य राद्धि-रनुराद्धिः । सर्वेषां प्रवरास्त्वावर्त्तेरन् आवापधर्मि-त्वात् । जामदग्न्या वत्सादयः पञ्चार्षेयाः । यथा भार्ग-वाप्नवानौर्वजामदग्न्येति । वत्सश्रीवत्सयोश्च तथैव ।आर्ष्टिषेणानां भार्गवच्यवनाप्नुवानौर्वार्ष्टिषेणेति । विदानांभार्गवच्यवनाप्नुवानौर्वविदेति । यास्कवाधूलमौलमौक-शार्कराक्षिसार्ष्टिसावर्णिशालङ्कायनदैवन्त्यायनानां भार्गववै-तहव्यसावेदेति । शैन्यानां भार्गवशैन्यपार्थेति । मित्र-यूनां भार्गवदैवोदासवाद्ध्र्यश्वेति । शुनकानां भार्गवशौनक-गात्र्समदेति । गौतमानामाङ्गिरसायास्यगौतमेति उतथ्याना-माङ्गिरसौतथ्यगौतमेति । राहुगणानामाङ्गिरसराहुगण-गौतमेति । सोमराजिकीनामाङ्गिरससौमराजिगौतमेति ।वामदेवानामाङ्गिरसवामदेवगौतमेति । वृहदुक्थानामाङ्गि-रसबार्हदुक्थगोतमेति । पार्षदश्वानामाङ्गिरसपार्षदश्ववैरू-पेति । अष्टादंष्ट्रा इत्येके ब्रुवते अतीत्याङ्गिरसम् । अष्टा-दंष्ट्रापौरुकुत्सत्रासदस्यवेति । ऋक्षाणामाङ्गिरसवार्हस्पत्यभ-रद्वाजवान्दनमातृवचसेति । कक्षीवतामाङ्गिरसगौतमौशि-जकाक्षीवतेति । दीर्घतमसामाङ्गिरसौतथ्यदैर्घतमसेति ।भारद्वाजाग्निवेश्यानामाङ्गिरसवार्हस्पत्यभारद्वाजेति । मुद्ग-लानामाङ्गिरसभार्म्यश्वमौद्गल्येति । तार्क्ष्यं हैके ब्रुवतेअतीत्याङ्गिरसं तार्क्ष्यभार्म्यश्वमौद्गलेति । विष्णु-वृद्धानामाङ्गिरसपौरुकुत्सत्रासदस्यवेति । गर्गाणामाङ्गिरसवार्हस्पत्यभारद्वाजगर्गशैन्येति । आङ्गिरसशैन्यगार्गेतिवा । हरितकुत्सपिङ्गशाङ्खदर्भभैमगवानाम् आङ्गिरसा-म्बरीषयौवनाश्वेति सङ्कृतिपूतिमाषतण्डिशङ्खभौमगवा-नाम् आङ्गिरसगौरुवीतसांकृत्येति । शाक्तिगौरुवीतसांकृत्येति वा । काण्वानामाङ्गिरसाजमीढकाण्वेति ।घोरमिहैके ब्रुवते अतीत्याजमीढम् । आङ्गिरसघोर-काण्वेति । कपीनामाङ्गिरसामक्षय्यवार्क्षय्येति । अथशौङ्गशैशिरयः । भरद्वाजाः स्युः शुङ्गाः कताः शैशिरयः ।तेषामुभयतः प्रवृणीते एकमितरोद्वावितरः त्रीनितरः ।न हि चतुर्णां प्रवरोऽस्ति न पञ्चानाम् । आङ्गिरसवार्ह-स्पत्यभारद्वाजेत्यादि । कपी प्रसिद्धावुदिताविह द्वौ स्वतन्त्रएकस्त्वपरोऽस्वतन्त्रः । तत्र स्वतन्त्रस्य कपेर्विवाहं मिथोभरभाजकुलेन चाहुः । अथात्रीणामात्रेयार्चनानसश्या-वाश्वेति । गविष्ठिराणामात्रेयगाविष्ठिरपौर्वतिथेति ।विकितगालवकालवमनुतन्तुकुशिकानां वैश्वामित्रदेव-रातौदलेति । श्रौमतकामकायनानां वैश्वामित्रदेवश्रव-सदैवोदासेति । धनञ्जयानानां वैश्वामित्रमाधुच्छन्दसधानञ्जयेति । अजानां वैश्वामित्रमाधुच्छन्दसरौहि-णेति । पूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौरा-णेति । कतानां वैश्वामित्रकात्याक्षीलेति । अघमर्षणार्नावैश्वामित्राघमर्षणकौशिकेति । रेणूनां वैश्वामित्रगाथिन-रैणवेति । वेणूनां वैश्वामित्रगाथिनवैणवेति । शा-लङ्कायनशालाक्षलोहिताक्षलोहितजह्नूनां वैश्वामित्र-माधुच्छन्दसधानञ्जयेति शालङ्कायनकौशिकेति वा । का-श्यपानां काश्यपावत्सारासितेति । निध्रुवाणां काश्यपा-वत्सारनैध्रुवेति । रेभाणां काश्यपावत्साररैभ्येति । शाण्डि-लानां काश्यपावत्सारदैवलेति शाण्डिलासितदैवलेति वा ।वासिष्ठवसिष्ठानां योऽन्यौपमन्युपराशरकुण्डिनेभ्यः । उप-मन्यूनां वासिष्ठाभरद्वस्विन्द्रप्रमदेति । पराशराणां वासिष्ठ-शक्तिपराशरेति । कुण्डिनानां वासिष्ठमैत्रावरुण-कौण्डिन्येति । अगस्तीनामागस्त्यदार्ढाच्युतेध्मवाहेति ।सोमवाहानामागस्त्यदार्ढ्यच्युतसौमवाहेति । पुरोहितप्रवरोराज्ञाम् । अथ यदि सार्ष्ट्यं प्रवृणीरन् । मानवेड-पौरूरवःकुत्सेति शस्त्राणि । तान्यदक्षिणानि । तेषामन्तेज्योतिष्टोमः पृष्ट्यशमनीयसहस्रदक्षिणः । अन्यो वाप्रजातदक्षिणः । दक्षिणाचेता पृष्ट्वा शमनोयेरन्निति विज्ञा-यते । स एव हेतुः प्रकृतिभावे । “भृगूणां न विवाहो-ऽस्ति चतुर्ण्णामादितोमिथः । शैनादयस्त्रयस्तेषां विवाहोमिथ इष्यते । यस्मात् वै गौतमादीनां विवाहोनेष्यतेमिथः । दीर्घतमस्तथौतथ्यः कक्षीवांश्चैव गोत्रजः ।भरद्वाजाग्निवैश्यर्क्षाः शौङ्गाः कात्याश्च शैशिराः । एतेसमानगोत्राः स्युर्गर्गानेके वदन्ति वै । पृषदश्वामुद्गलाविष्णुवृद्धाः काण्वोऽगस्त्यो हारितः सङ्कृतिश्च । यस्क-श्चैषां मिथ इष्टोविवाहः सर्वैरन्यैर्जासदग्न्यादिभिश्च ।द्व्यार्षेयाणां त्र्यार्षेयसन्निपाते न विवाहः । त्र्यार्षेयाणांपञ्चार्षेयसन्निपाते न विवाहः । “एते समानगोत्राःस्युर्विश्वामित्रोऽनुवर्त्तते । अत्रयश्च वसिष्ठाश्च कश्यपाश्चपृथक् पृथक् । जमदग्निर्गौतमश्च भरद्वाजोऽत्रयस्तथा ।विश्वामित्रः कश्यपश्च वसिष्ठोऽगस्तयोऽष्टमाः” । सप्ताना-मृषीणामगस्त्यष्टमानां यदपत्यं तद्गोत्रमित्याचक्षते“एकएव ऋषिर्यावत् प्रवरेष्वनुवर्त्तते । तावत् समानगोत्राःस्युर्भृगुमङ्गिरसं विना । वसिष्ठौ द्वौ च विज्ञेयौ ब्रह्म-पुत्रोऽथ शापतः । मैत्रावरुणिरित्येव वासिष्ठोवि-ग्रहान्तरात् । ब्रह्मात्मजाच्छक्तिपराशरव्यासशुकादयः ।ज्ञेयो विवेकस्त्वनयोर्द्वितीयात् कुण्डिनादयः । अतएवभिन्नशरीरत्वात् भिन्नगोत्रप्रवरत्वाच्च वसिष्ठवासिष्ठगणयो-र्विवाहः । जामदग्न्यविश्वामित्राणां देवरातवर्जं सर्वत्रविवाहः । अत्रिविश्वामित्राणां धनञ्जयवर्जं सर्व्वत्रविवाहः इति” प्रवरनिर्ण्णयः ।अथ सौत्रप्रवराः तत्रैव “जामदग्न्यावीतहव्यागार्त्समदा वाध्य्रश्वावैन्या गौतमाः भरद्वाजाः कपयोहारीताःकाण्वा विरूपा मौद्गला विष्णुवृद्धा आत्र या विश्वा-मित्राः कश्यपा वासिष्ठा आगस्त्या इत्यष्टादश गणाःस्युः । आदितः पञ्चगणा भृगवो भवन्ति । भृगुजाम-दग्न्या वत्सश्रीवत्सच्यवनाप्नवानाः । और्व्वसावर्णि-जीवन्तिजावाल्यतिशाट्यायनवैरोहित्थावटमण्डुप्राचीनयो-ग्यार्ष्टिषेणानां भृगवो न मिथो विवाह्याः । वीत-हव्ययास्कवाधूलमौनमौकसावेदसा भृगवो न मिथो वि-बाह्याः । गार्त्समदशौनकौ भार्गवौ न मिथो विवाह्यौ ।वाध्र्युश्वमित्रयवौ भार्गवौ न मिथो विवाह्यौ । वैण्य-पार्थौ भार्गवौ न मिथो विवाह्यौ । आङ्गिरसाया-स्यौतथ्यौशिजकाक्षीवतवामदेववृहदुक्थ्यान्ता गौतमान मिथो विवाह्याः । आङ्गिरसवार्हस्पत्यभारद्वाज-कुक्कुटाग्निवेश्यौज्जापनसर्वस्तम्बस्तम्बशुङ्गकतशैशिरिपक्षिऋ-क्षवान्दनमातृवचसस्वतन्त्रकपिगार्ग्यकपिशैन्यान्ता भर-द्वाजा न मिथो विवाह्याः । आङ्गिरसकथ्यमहा-योक्षाजः कथवंश्या न मिथो विवाह्याः । आङ्गिरसमौह-पिताम्बरीषयौवनाश्वमान्धातृशङ्खपिङ्गदर्भकुत्सहारिताः नमिथो विवाह्याः । आङ्गिरसाजमीढकण्वा न मिथोविवाह्याः । आङ्गिरसविरूपपृषदश्वरथीतराष्टादंष्ट्राविरूपाः न मिथो विवाह्याः । आङ्गिरसमौद्गल्यऋक्ष-वोमुद्गला न मिथो विवाह्याः । आङ्गिरसविष्णुवर्धन-त्रासदस्यवाघमर्षणभद्रणमद्रणवादरायणौपमित्यौपगविसात्य-किसात्यकाम्यारुणिनितुन्दयाविष्णुवर्धा न मिथो विवाह्याःआत्रेयार्चनानसश्यावाश्वगविष्ठिरधनञ्जयातिथिसुमङ्गलवाम-रथ्यवीजवाप्यमुद्गलान्ता आत्रेया न मिथो विवाह्याः ।विश्वामित्रदेवरातचिकितमनुदन्त्वौलकिबालकियज्ञवल्कोलू-कलवृहदग्निबभ्रुशाललिश्यालायनश्यालङ्कायनकालव वौद-रश्रौमतकामकायनदैवश्रवसाज्यमाधुच्छन्दसधनञ्जयाष्टकलो-हितपूरणपारिधायाघमर्षणकौशिककतसूनुपनसधूम्रजठरवा-वलौकहव्याग्निदैव्यन्ता विश्वामित्रा न मिथो विवाह्याः ।काश्यपावत्सारनैध्रवरेभरैभशाण्डिल्यशाण्डिल्यदैवरातासि-तान्ताः काश्यपा न मिथो विवाह्याः । वसिष्ठशक्ति-प्रराशरवासिष्ठा न मिथो विवाह्याः । आगस्त्यदार्ढ्य-च्युतेध्मवाहदार्भवाहसाम्भवाहसोमवाहयज्ञवाहान्ता अग-स्तयो न मिथो विवाह्याः” । एवं प्रवरज्ञानस्य विवाहो-पयोगितोक्ता । अस्य होमविशेषोपयोगिताऽपि आर्षेयशब्देवक्ष्यते । निर्ण्णयसिन्धौ अत्र कश्चिद्विशेष उक्तो यथा ।“अथ गोत्राणि प्रवराश्चोच्यन्ते । तत्र बौधायनः गो-त्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च ऊनपञ्चाशदेवैषांप्रवरा ऋषिदर्शनात्” ।“तत्र सप्त भृगवः वत्सा विदा आर्ष्टिषेणा यस्कामित्रयवावैन्याः शुनका इति ७ । वत्सानां भार्गवच्यबना-प्नवानौर्वजामदग्न्येति १ । भार्गवौर्वजामदग्न्येति वाभार्गवच्यवनाप्नवानेति वा । विदानां पञ्च भार्गवच्यव-नाप्नवानोर्ववैदेति २ । भार्गकौर्वजामदग्न्येति वा एतौद्वौ जामदग्न्यसंज्ञौ । आर्ष्टिषेणानाम् मार्गवच्यवना-प्नवानार्ष्टिषेणानूपेति । भार्गवार्ष्टिषेणानूपेति वा ।एषान्त्रयाणां परस्परमविवाहः । वात्स्यानाम् भार्गव-च्यवनाप्नवानेति वत्सपुरोधसयोः पञ्च भार्गवच्यवनाप्न-वानवात्स्यपौरोधसेति । वैजवननिमतिथयोः पञ्च भार्गव-च्यवनाप्नवानवैजवननैमतिथेति । एते त्रयः क्वचित् एषा-मपि पूर्वैरविवाहः । अत्र तत्तद्गणस्थाऋषयोऽन्यश्च विशेषस्तत्कृते प्रवरदर्पणे ज्ञेयः । यस्कानाम् भार्गववैतहव्य-सावेदसेति । मित्रयूनाम् भार्गववाध्य्रश्वदिवोदासति ।भार्गवच्यवनदिवोदासेति वा वाध्य्रश्वेत्येको वा । वैन्यानांभार्गववैन्यपार्थेति । एतएव श्यैताः । शुनकानां शुन-केति वा गार्त्समदेति वा भार्गवगार्त्समदेति द्वौ वाभार्गवशौनहोत्रगार्त्समदेति त्रयो वा । वेदविश्वज्योतिषांभार्गववेदवैश्वज्योतिषेति । शाठरमाठराणां भार्गवशाठ-रमाठरेति एतौ द्वौ क्वचित् यस्कादीनां स्वगणन्त्यक्त्वासर्वैर्विवाहः । तदुक्तं स्मृत्यर्थसारे “यस्कामित्रयवावैन्याःशुनकाः प्रवरैक्यतः । स्वं स्वंहित्वा गणं सर्वे विवहेयुःपरावरैरिति” ।“अथाङ्गिरसः ते गौतमाः भरद्वाजाः केवलाङ्गिरस-श्चेति त्रिधा । अत्र गोतमा दश आयास्याः शरद्वन्तःकौमण्डादीर्घतमसः औशनसः कारेणुपालाः राहु-गणाः सोमराजकाः वामदेवाः वृहदुक्थाश्चेति तत्राया-स्यानाम् आङ्गिरसायास्यगौतमेति शरद्वताम् आङ्गि-रसगौतमशारद्वतेति । कौमण्डानां आङ्गिरसौतथ्यकाक्षीवदिति गौतमकौमाण्डेति वा । आङ्किरसानामायास्यौशिज-गौतमकाक्षीवदिति वा आङ्गिरसौतथ्यगोतमौशिज-काक्षीवदिति वा । आङ्गिरसौशिजकाक्षीवदिति त्रयो वा ।दीर्घतमसाम् आङ्गिरसौतथ्यकाक्षीवतगौतमदैर्घतमसेतिआङ्गिरसौतथ्यदैर्घतमसेति त्रयो वा । औशनसानाम्आङ्गिरसगौतमौशनसेति त्रयः । कारेणुपालानाम् आ-ङ्गिरसगौतमकारेणुपालेति त्रयः राहुगणानां आङ्गिरस-राहूगणगौतमेति । सोमराजकानाम् आङ्गिरससोमरा-जकगौतमेति । वामदेवानाम् आङ्गिरसवामदेव्यगौतमेतिवृहदुक्थानाम् आङ्गिरसवार्हदुक्थगौतमेति । आङ्गि-रसवामदेववार्हदुक्थेति वा । उतथ्यानामाङ्गिरसौतथ्य-गौतमेति । औशिजानामाङ्गिरसौशिजकाक्षीवदित्याप-स्तम्वः । आङ्गिरसायास्यौशिजगौतमकाक्षीवदिति कात्या-यनः । एतौ द्वौ क्वचित् रघुवाणाम् । आङ्गिरसराघुवनगौतमेति केचित् । तत्र मूलं चिन्त्यम् । एषां सर्वेषांगौतमानामविवाहः ।अथ भरद्वाजाः ते चत्वारः । भरद्वाजा गर्गा-ऋक्षाःकपय इति भरद्वाजानामाङ्गिरसवार्हस्पत्यभारद्वा-जेति त्रयः । गर्गाणामाङ्गिरसवार्हस्पत्यभारद्वाज-शैन्यगार्ग्येति पञ्च । आङ्गिरसशैन्यगार्ग्येति वा अन्त्ययो-र्व्यत्ययो वा । भारद्वाजगार्ग्यशैन्येति वा । गर्गभेदानाम्आङ्गिरसतैत्तिरकापिभुवेति ऋक्षाणां कपिलानां चाङ्गि-रसवार्हस्पत्यभरद्वाजवान्दनमातृवचसेति पञ्च । आङ्गि-रसवान्दनमातृवचसेति त्रयो वा । कपिलानामाङ्गिरसा-महीयवऋक्षयसेति । आत्मभुवाम् आङ्गिरसभारद्वाजवार्ह-स्पत्यमन्त्रवरात्मभुवेति पञ्च । अयं क्वचित् भरद्वाजानांसर्वेषामविवाहः ।अथ केवलाङ्गिरसः हरितानाम् आङ्गिरसाम्बरीषयौवनाश्वेति । आद्योमान्धाता वा । कुत्सानाम्आङ्गिरसमान्धातृकौत्सेति । कण्वानामाङ्गिरसाजमीढ-काण्वेति आङ्गिरसघोरकाण्वेति वा । रथीतराणामा-ङ्गिरसवैरूपराथीतरेति आङ्गिरसवैरूपपार्षदश्वेति वा ।अष्टादंष्ट्रपार्षदश्ववैरूपेति वा । अन्त्ययोर्व्यत्ययो वा ।मुद्गलानामाङ्गिरसभार्म्याश्वमौद्गल्येति आद्यस्तार्क्ष्यो वाआङ्गिरसताविमौद्गल्येति वा । विष्णुवृद्धानामाङ्गिरस-पौरुकुत्सत्रासदस्यवेति । एषां स्वगणं विहाय सर्वैर्विवाहोभवति । हरितकुत्सयोस्तु न भवति ।अथात्रयः ते चत्वारः आत्रेयाः वाद्भुतकाः गविष्ठिराःमुद्गला इति । आद्यानामात्रेयार्चनानसश्यावाश्वेति । वाद्भु-तकानाम् आत्रेयार्चनानसवाद्भुतकेति । धनञ्जयानाम्आत्रेयार्चनानसधानञ्जयेति क्वचित् । गविष्ठिराणामात्रेया-र्चनानसगविष्ठिरेति । आत्रेयगाविष्ठिरपौर्वातिथेति वा ।मुद्गलानामात्रेयार्चनानसपौर्वातिथेति । वामरथ्यसुमङ्गल-वैजवापानामात्रेयार्चनानसतिथेति आत्रेयार्चनानस-गाविष्ठिरेवि वा । सुमङ्गलानाम् अत्रिसुमङ्गलश्यावाश्वेतिकेचित् । अत्रेः पुत्रिकापुत्राणाम् आत्रेयवामरथ्यपौत्रि-केति । अत्रीणां सर्वेषामविवाहः ।अथ विश्वामित्राः ते दश कुशिकाः लौहिताः रौक्षकाःकामकायनाः कताः धनञ्जयाः अधमर्षणाः पूरणाः इन्द्र-कौशिका इति कुशिकानां विश्वामित्रदेवरातौदलेति ।लौहितार्ना विश्वामित्राष्टकलौहितेति । अन्त्ययो-र्व्यर्त्ययो वा वैश्वामित्रमाधुच्छन्दसाष्टकेति वा । विश्वा-मित्राष्टकेति द्वौ वा । रौक्षकाणां वैश्वामित्रगाथिनरैवणेतिवैश्वामित्ररौक्षकरैवणेति वा । कामकायनानां वैश्वा-मित्रदेवश्रवसदैवतरसेति वा । अजानां वैश्वामित्र-माधुच्छन्दसाजेति वैश्वामित्राश्मरथवाधूलेति वा अघ-मर्षणानां वैश्वामित्राघमर्षणकौशिकेति । पूरणानां वैश्वा-मित्रपौरणेति द्वौ वा । वैश्वामित्रदेवरातपूरणेति वाइन्द्रकौशिकानां विश्वामित्रेन्द्रकौशिकेति द्वौ । धनञ्ज-यानां विश्वामित्रमाधुच्छन्दसधानञ्जयेति । वैश्वामित्र-माधुच्छन्दसाघमर्षणेति वा कतानां वैश्वामित्रकात्याक्षी-लेति एते वौधायनोक्ताः । रौहिणानां वैश्वामित्रमा-धुच्छन्दसरौहिणेति । रेणूनां वैश्वामित्रगाथिनरैण-वेति । जन्हूनां वैश्वामित्रशालङ्कायनकौशिकेति । आ-श्मरथ्यानां वैश्वामित्राश्मरथ्यवाधूलेति । वेणूनां वैश्वामित्र-गाथिनवैणवेति एते आश्वलायनामात्स्योक्ताः अन्यैस्त्व-न्येऽपि षढ्गणा ऊक्ताः तेऽन्यत्र तत्कृतौ ज्ञेयाः एषांविश्वामित्राणामविवाहः ।अथ कश्यपाः ते पञ्च निध्रुवाः कश्यपाः शण्डिलाःरेभाः लौगाक्षयश्च । निध्रुवाणां काश्यपावत्सारनैध्रुवेति ।कश्यपानां काश्यपावत्सारासितेति । रेभाणां काश्यपावत्सा-रैभेति । शण्डिलानां काश्यपावत्सरशाण्डिल्येति । अन्त्य-स्थाने देवलोवासितो वा । शाण्डिलासितदेबलेति वा ।कश्यपासितदेतलेति वा । अन्त्ययोर्व्यत्ययो वा देव-लासितेति द्वौ वा । लौगाक्षीन् वक्ष्यामः । एषां कश्य-पानामविवाहः ।अथ वसिष्ठाः ते पञ्च वसिष्ठाः कुण्डिनाः उपमन्यवःपराशराः जातूकर्ण्याश्चेति । वासिष्ठेन्द्रप्रमदाभरद्वस्वितिवासिष्ठेत्येकं वा । कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डि-न्येति । उपमन्यूनां वासिष्ठेन्द्रप्रमदाभरद्वस्विति ।वासिष्ठाभरद्वस्विन्द्रप्रमदेति वा । आद्ययोर्व्यत्ययो वा परा-शराणां वासिष्ठशाक्त्यपाराशर्येति । जातूकर्ण्यानांवासिष्ठानां सर्वेषामविवाहः । अन्त्यस्याऽत्रिभिश्च ।अथागस्त्याः ते चत्वारः इध्मवाहाः साम्भवाहाःसोमवाहाः यज्ञवाहाश्चेति आद्यानाम् आगस्त्यदार्ढ्य-च्युतैध्मवाहेति आगस्त्येको वा । सोमवाहानाम् आग-स्त्यदार्ढ्यच्युतसोमवाहेति । सांभवाहाां साभवाहोऽन्त्यःआद्यौ पूर्वकावेव सोमवाहानां तदन्तास्त्रयः दर्भवाहानांतदन्तास्त्रयः ।अगस्तीनामागस्त्यमाहेन्द्रमायोभुवेति पूर्णमासानाम्आगस्त्यपौर्णमासपारणेति । हिमोदकानाम् आगस्त्यहैमच-र्चिहैमोदकेति । पाणिकानामागस्त्यपैनायक पाणिकेति ।एते षट् क्वचित् । अगस्तीनां सर्व्वेषामविवाहः ।अथ द्विगोत्राः शौङ्गशैशिरीणाम् आङ्गिरसवार्हस्पत्य-भारद्वाजकात्याक्षीलेति पञ्च कात्याक्षीलयोः स्थाने शौङ्ग-शैशिरी वा आङ्गिरसकात्याक्षीलेति त्रयो वा एषां भर-द्वाजैर्व्विश्वामित्रैश्चाविवाहः । एवं कपिलानां कतानाञ्चसंकृतिपूतिमाषादीनाम् आङ्गिरसगौरुवीतसांकृत्येति शा-त्यगौरुवीतसांकृत्येति वा एषां स्वगणस्थैर्वसिष्ठैः शौङ्कशै-शिरैर्लौगाक्षिभिश्चाविवाहः । कश्यपैरपीति प्रयोगपारि-जाते । लौगाक्षीणां काश्यपावत्सारवासिष्ठेति काश्यपा-वत्सारासितेति वा एतेऽहर्वसिष्ठा नक्तं कश्यपाः एषांवसिष्ठैः कश्यपैः संकृताद्यैश्चाविवाहः । देवरातस्य जाम-दग्न्यैर्विश्वामित्रैश्चाविवाह इति प्रयोगपारिजातेयदुक्तं बह्वृचश्रुतौ “यथैवाङ्गिरसः सन्नुपेयात्तव पुत्र-ताम् । आङ्गिरसोजन्मनास्याजीगर्तिः श्रुतःकविरित्थ-ङ्गिरसगणस्थत्वेन भार्गवजामदग्नत्वस्मृतेर्बाधात् । तेनप्रत्यक्षश्रुत्या हरिवंशादिस्मृतेश्च बाचात् तेन द्वौ देव-रातौ एक आङ्गिरसः श्रुत्युक्तः अन्यो भार्गवः तयोःकल्पभेदेऽप्याङ्गिरसेन देवरातेन जामदग्नैर्भवत्येव विवाहःभार्गवेण तु नेति तत्त्वम् । धनञ्जयानां विश्वामित्रैर-त्रिभिश्चाविवाहः जातूकर्ण्यानां वसिष्ठैरत्रिभिश्चाविवाहःएवं दत्तक्रीतकृत्रिमस्वयंदत्तपुत्रिकापुत्रादीनाम् उत्पादक-पालकयोः पित्रोर्गोत्रप्रवरा वर्ज्या इति प्रवरमञ्जरीनारायणवृत्तिप्रयोगपारिजातादयः । अत्र सर्वत्रोपपत्तयःमूलं च तत्कृते प्रवरदर्पणे ज्ञेयमिति दिक् । क्षत्रियवै-श्ययोस्तु पुरोहितगोत्रप्रवरावेवेति सर्व्वसिद्धान्तः यद्यपिबह्वृचपरिशिष्टे कपिभरद्वाजयोर्विवाह उत्तस्तथापि“भरद्वाजाश्चंकपयोगर्गारौक्षायणा इमे । चत्वारीऽपि भर-द्वाजगोत्रैक्यान्नान्वियुर्मिथः । कपिगर्गभरद्वाजामिथोरौ-क्षायणा द्विजाः । नोद्वहेयुः सयोत्रत्वात् प्रवरैक्याच्चकुत्रचिदिति” स्मृत्यर्थसाराद्यक्तेरविवाह एव तयोरितिप्रवरमञ्जर्य्यां यद्यपीदमुक्तम् तथापि भृग्वङ्गिरोगणेषु तुभबत्येव यथा बह्वृ परिशिष्टे बौधायनः “एक एव-ऋषिर्यावत्प्रवरेष्वनुवर्त्तते । तावत्समानगोत्रत्वमृते भृग्वङ्गि-रोगणात्” माधवीये स्मृत्यन्तरं “पञ्चानां त्रिषु सामान्याद-विवाहस्त्रिषु द्वयोः । भृग्वङ्गिरोगणेष्वेवं शेषेष्वेकोऽपिवारयेदिति” एवं विश्वादर्शप्रयोगपारिजाताचारमाधवीय-निर्ण्णयसिन्धुप्रभृतिषु भृग्वङ्गिरोगणेषु पञ्च प्ररवाणांमध्ये त्रिषु साम्ये । त्रिषु प्रवरेषु द्वयोः साम्येऽपिशेषगोत्राणामेकर्षिसाम्येऽपि समानप्रवरत्वादविवाह्यत्वंसिद्धमेतेन अन्यूनानतिरिक्तसंज्ञासंख्याकत्वेन समानार्षत्वंयत् रघुनन्दनेनोक्तं तन्निर्मूलत्वादग्राह्यं बौधायनादिस्मृतिविरुद्धत्वात्तदर्शनविजृम्भितत्वाच्च एवं वत्ससावर्णिगो-त्रप्रवरेषु आप्नुवत्प्रवरत्वकथनमपि प्रवरध्यावाज्ञानवि-लसितम् । अधिकमार्षेयशब्दे वक्ष्यते । ऋषेरयं अण् ।ऋषिकृतस्मरणे । वेदे यन्मन्त्रं येन ऋषिणा कल्पादौ स्मृतंतन्मन्त्रस्य तदार्षत्वम् । “आर्षं छन्दश्च दैवत्यं विनियोग-स्तथैव च । वेदितव्यं प्रयत्नेन ब्राह्यणेन विशेषतः”योगिया० ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
