| YouTube Channel

आर्य्या (AryyA)

 
शब्दकल्पद्रुमः
Sanskrit
आर्य्या,
स्त्री,
(ऋ + ण्यत् + स्त्रियां टाप् ।) पार्ब्बती ।इति त्रिकाण्डशेषः छन्दोविशेषः तस्या लक्षणम् ।“यस्याः पादे प्रथभे द्वादशमात्राः स्थितास्तृतीयेऽपि ।अष्टादश द्वितीये चतुर्थके पञ्चदश सार्य्या”
इति श्रुतबोधः
अपिच ।“लक्ष्मैतत्सप्तगणा गोपेता भवति नेह विषमे जः ।षष्ठो जश्च लघुर्वा प्रथमेऽर्द्धे नियतमार्य्यायाः
षष्ठे द्वितीयलात्परकेल्ले मुखलाच्च यतिपदनियमः ।चरमेऽर्द्धे पञ्चमके तस्मादिह भवति षष्ठो लः”
सा नवधा ।“पथ्या विपुला चपला भुखचपला जघनचपला ।गीत्युपगीत्युद्गीतय आर्य्यागीतिश्च नवधार्य्या”
इति छन्दोमञ्जरी
श्रेष्ठा स्त्री
वाचस्पत्यम्
Sanskrit
आर्य्या स्त्री ऋ--ण्यत् पार्वत्याम् आर्य्याशतकम् श्वश्र्वांश्रेष्ठायां स्त्रियाञ्च मात्रावृत्तभेदे “लक्ष्मैतत्सप्तगणा गोपेता नेह भवति विषमे जः षष्ठोजश्च नलघूवा प्रथमेऽर्द्धे नियतमार्य्यायाः षष्ठे द्वितीयलात्परके नले मुखलाच्च सयति पदनियमः चरमेऽर्द्धे पञ्चमकेतस्मादिह भवति षष्ठोलः” वृत्त० र० उक्ते छन्दोभेदे स्त्री ।साचार्या नवविधा यथा “पथ्या विपुला चपला मुखचपलाजघनचपला गीत्युपगीत्युद्गीतष आर्यागीतिश्चनवधा चार्या” इति तासां लक्षणम् वृत्तर० “त्रिष्वं-शकेषु पादो दलयोराद्येषु दृश्यते यस्याः पथ्येति नामतस्याः प्रकीर्त्तितं नागराजेन उल्लङ्घ्य गणत्रयमादिमंशकलयोर्द्वयोर्भवति पादः यस्यास्तां पिङ्गलनागोविपुलामिति समाख्याति उभयार्द्धयोर्जकारौ द्वितीय-तुर्यौ गमध्यगौ यस्याः चपलेति नाम तस्याःप्रकीर्त्तितं नागरांजेन आद्यं दलं समस्तं भजेत लक्ष्मचपलागतं यस्याः शेषे पूर्बजलक्ष्मा मुखचपला सोदितामुनिना प्राक्प्रतिपादितमर्द्धे प्रथमे प्रथमेतरे तु चप-लायाः लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला सा ।आर्या प्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।दलयोः कृतयतिशोभां तां गीतिं गीतवान् भुज-ङ्गेशः आर्याद्वितीयकेऽर्द्धेयद्गद्रितं लक्षणं तत् स्यात् ।उभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते आर्याश-कलद्वितयं व्यत्ययरचितं भवेद् यस्याः सोद्गीतिः ८किल गदिता तद्वदंशभेदसंयुक्ता आर्यापूर्व्वार्द्ध्वं यदिगुरुणैकेनाधिकेन निधने युक्तम् इतरत्तद्वन्निखिलंयदीयमुदितेयमार्यागीतिः” “पादे द्वादश विषमेमात्राष्टादश द्वितीये हि पञ्चदश चेत् तुरीये कथि-ता गाथा तथैवार्य्या” ग्रन्थान्तरे यथाकथञ्चिद्द्वादशाष्टा-दशाक्षरादिमात्रात्मकपादत्वोक्तावपि वृत्तरत्नाकरोक्तेर्गण-नियमोऽस्त्येव सामान्यशास्त्रऽतोऽपवादशास्त्रस्य प्रबल-त्वात् तेन यथाकथञ्चित्तथामात्रानिवेशोऽनुचितएव ।“शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्य्योभिः संक्षिप्त-मार्य्यमतिना सम्यग्विज्ञाय सिद्धान्तम्” सां० का० “क्वचिदत्रभवेदार्याक्वचिद्वक्त्रापवक्त्रके” सा० द० कथालक्षणम् “आर्यावक्त्रापवक्त्राणांछन्दसा येन केनचित्” सा० द० “अति-स्पष्टवर्णस्वरसंस्कारवत्या गिरा राजानमुद्दिश्यार्यामिमांपपाठ” काद०