| YouTube Channel

आर्य्यमिश्रः (AryyamizraH)

 
शब्दकल्पद्रुमः
Sanskrit
आर्य्यमिश्रः, त्रि, (आर्य्यः श्रेष्ठो मिश्रश्च ।) गौरवितः ।इति त्रिकाण्डशेषः
(माननीयः, पूज्यः यथारामायणे, काण्डे ।“समक्षमार्य्यमिश्राणां साधूनां गुणवर्त्तिनाम्” ।उत्तरचरिते, प्रस्तावनायां ।“अद्य खलु भगवतः कालप्रियनाथस्य यात्राया-मार्य्यमिश्रान् विज्ञापयामि” ।)