| YouTube Channel

आर्य्यः (AryyaH)

 
शब्दकल्पद्रुमः
Sanskrit
आर्य्यः, त्रि, (अर्त्तुं प्रकृतमाचरितुं योग्यः अर्य्यतेवा
+ ण्यत् ।) सत्कुलोद्भवः इत्यमरः ।पूज्यः श्रेष्ठः बुद्धः इति शब्दरत्नावली
सङ्गतः इत्यजयः
(मान्यः, उदारचरितः, शा-न्तचित्तः यथा, रामावणे, काण्डे ।“योऽहमार्य्येण परवान् भ्रात्रा ज्येष्ठेन भाविनि” ।न्यायपथावलम्बी, प्रकृताचारशीलः, सततकर्त्तव्य-कर्म्मानुष्ठाता यदुक्तं, “कर्त्तव्यमाचरन् काममकर्त्तव्यमनाचरन् ।तिष्ठति प्राकृताचारे तु आर्य्य इति स्मृतः”
धार्म्मिकः धर्म्मशीलः यथा, मनुः, १० ७५७ ।“आर्य्यरूपमिवानार्य्यं कर्म्मभिः स्वैर्व्विभावयेत्” ।उचितः यथा, रामायणे, --“मार्गमाय्यं प्रपन्नस्य नानुमन्येत कः पुमान्”
नाट्योक्तौ सम्मानसूचकमिदं नाम प्रायेण मान्य-जनाह्वाने व्यवह्रियते यथा, सातित्वदर्पणे, षष्ठ-परिच्छेदे ।“स्वेच्छया नाममिर्विप्रैर्विप्र आर्य्येति चेतरैः” ।“वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परं”
)
आर्य्यः,
पुं,
(अर्त्तुं सदाचरितुं योग्यः + ण्यत् ।)स्वामी बुद्धः इति हेमचन्द्रः
सुहृत् इत्यजयः ।(श्रेष्ठवर्णः म्लेच्छेतरजातिः यदुक्तं महाभारते ।“म्लेच्छाश्चान्ये बहुविधाः पूर्व्वं ये निकृता रणे ।आर्य्याश्च पृथिवीपालाः” इति स्वनामख्यातःसावर्णमनोः पुत्त्रः यथा, हरिवंशे ।“वरीयांश्चावरीयांश्च संमतो धृतिमान् वसुः ।चरिष्णुरार्य्यो धृष्णुश्च राजः सुमतिरेव ।सावर्णस्य मनोः पुत्त्राः भविष्या दश भारत !”
)