आर्या (AryA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishHindi
Hindi(स्त्री) एक सम्मानित महिला
Apte Hindi
Hindiआर्या
- ऋ+ण्यत्+ टाप्
पार्वती
आर्या
- ऋ+ण्यत्+ टाप्
श्वश्रू
आर्या
- ऋ+ण्यत्+ टाप्
आदरणीय महिला
आर्या
- ऋ+ण्यत्+ टाप्
छन्द
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaआर्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪೂಜ್ಯಳು
प्रयोगाः - > "आर्याप्यरुन्धती तत्र व्यापारां कर्तुमर्हति"
उल्लेखाः - > कुमा० ६-३२
आर्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಶ್ರೇಷ್ಠಚಿತ್ತವೃತ್ತಿಯುಳ್ಳಹೆಂಗಸು
आर्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಾರ್ವತಿ
विस्तारः - > "गौर्यामार्या त्रिषुत्वेष कुलीनन्याय्यसाधुषु" - नानार्थर० ।
आर्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಾರ್ವತಿ /ಗೌರಿ
आर्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಉತ್ತಮ ಹೆಂಗಸು
आर्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅತ್ತೆ /ಪತಿಯ ತಾಯಿ
आर्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮಾತ್ರಾಛಂದಸ್ಸಿನ ಒಂದು ವೃತ್ತ
निष्पत्तिः - > ऋ (गतौ) - "ण्यत्" (३-१-१२४)
विस्तारः - > "आर्यः साधौ सौविदल्लेऽप्यार्योमावृत्तभेदयोः" - विश्व० ।
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishWordnet
Sanskrit माता, आर्या, देवी
कापि पूज्या आदरणीया वा स्त्री।
"मातः भवती अत्र उपविशतु।"
आर्या
स्त्रीणां कृते प्रयुज्यमानम् एकं सम्बोधनम्।
"आर्ये किम् इयं भवत्याः सामग्री।"
पार्वती, अम्बा, उमा, गिरिजा, गौरी, भगवती, भवानी, मङ्गला, महागौरी, महादेवी, रुद्राणी, शिवा, शैलजा, हिमालयजा, अम्बिका, अचलकन्या, अचलजा, शैलसुता, हिमजा, शैलेयी, अपर्णा, शैलकुमारी, शैलकन्या, जगद्जननी, त्रिभुवनसुन्दरी, सुनन्दा, भवभामिनी, भववामा, जगदीश्वरी, भव्या, पञ्चमुखी, पर्वतजा, वृषाकपायी, शम्भुकान्ता, नन्दा, जया, नन्दिनी, शङ्करा, शताक्षी, नित्या, मृड़ानी, हेमसुता, अद्रितनया, हैमवती, आर्या, इला, वारुणी
शिवस्य पत्नी।
"पार्वती गणेशस्य माता अस्ति।"
Sanskrit Tibetan
Tibetanjo mo
१) आर्या २) देवी
अभिधानचिन्तामणिः
Sanskritगौरी काली पार्वती मातृमातापर्णा रुद्राण्यम्बिका त्र्यम्बकोमा ।
दुर्गा चण्डी सिंहयाना मृडानीकात्यायन्यौ दक्षजार्या कुमारी ॥ २०३ ॥
सती शिवा महादेवी शर्वाणी सर्वमङ्गला ।
भवानी कृष्णमैनाकस्वसा मेनाद्रिजेश्वरा ॥ २०४ ॥
निशुम्भशुम्भमहिषमर्दिनी भूतनायिका ।
गौरी (स्त्री), काली (स्त्री), पार्वती (स्त्री), मातृमातृ (स्त्री), अपर्णा (स्त्री), रुद्राणी (स्त्री), अम्बिका (स्त्री), त्र्यम्बका (स्त्री), उमा (स्त्री), दुर्गा (स्त्री), चण्डी (स्त्री), सिंहयाना (स्त्री), मृडानी (स्त्री), कात्यायनी (स्त्री), दक्षजा (स्त्री), आर्या (स्त्री), कुमारी (स्त्री), सती (स्त्री), शिवा (स्त्री), महादेवी (स्त्री), शर्वाणी (स्त्री), सर्वमङ्गला (स्त्री), भवानी (स्त्री), कृष्णस्वसृ (स्त्री), मैनाकस्वसृ (स्त्री), मेनाजा (स्त्री), अद्रिजा (स्त्री), ईश्वरा (स्त्री), निशुम्भमथनी (स्त्री), शुम्भमथनी (स्त्री), महिषमथनी (स्त्री), भूतनायिका (स्त्री)
अभिधानरत्नमाला
Sanskritरुद्राणी
रुद्राणी, शर्वाणी, काली, कात्यायनी, भवानी, आर्या, अम्बिका, मृडानी, हैमवती, पार्वती, गौरी, उमा, भगवती, दुर्गा, चण्डी, दाक्षायणी, शिवा, अपर्णा, महादेवी, गिरिजा, मेनकात्मजा
रुद्राणी शर्वाणी काली कात्यायनी भवानी च ।
आर्याम्बिका मृडानी हैमवती पार्वती गौरी ॥ १५ ॥
उमा भगवती दुर्गा चण्डी दाक्षायणी शिवा ।
अपर्णा स्यान्महादेवी गिरिजा मेनकात्मजा ॥ १६ ॥
verse 1.1.1.15
page 0003
नाममाला
Sanskritसती, पतिव्रता, साध्वी, पतिवती, एकपती, मनस्विनी, आर्या
सती पतिव्रता साध्वी पतिवत्येकपत्यपि ।
मनस्विनी भवत्यार्या विपरीता निरूप्यते ॥ ३४ ॥
verse 0.1.1.34
page 0017
Mahabharata
EnglishĀryā^1. § 500 (Skandop.): III, 228, 14396 (a Mātṛ, one of the mothers of Śiśu).--§ 502 (Manushyagrahak.): III, 230, 14495 (a graha).
Āryā^2 = Umā, q.v.
पुराणम्
Englishआर्या / ĀRYĀ. One of the seven mothers who were present at the birth of subrahmaṇya. (Śloka 13, Chapter 228, Vana Parva, M.B.).
शब्दकल्पद्रुमः
Sanskritआर्य्या, (ऋ + ण्यत् + स्त्रियां टाप् ।) पार्ब्बती ।इति त्रिकाण्डशेषः । छन्दोविशेषः । तस्या लक्षणम् ।“यस्याः पादे प्रथभे द्वादशमात्राः स्थितास्तृतीयेऽपि ।अष्टादश द्वितीये चतुर्थके पञ्चदश सार्य्या” ॥
इति श्रुतबोधः ॥
अपिच ।“लक्ष्मैतत्सप्तगणा गोपेता भवति नेह विषमे जः ।षष्ठो जश्च न लघुर्वा प्रथमेऽर्द्धे नियतमार्य्यायाः ॥
षष्ठे द्वितीयलात्परकेल्ले मुखलाच्च स यतिपदनियमः ।चरमेऽर्द्धे पञ्चमके तस्मादिह भवति षष्ठो लः” ॥
सा नवधा ।“पथ्या विपुला चपला भुखचपला जघनचपला च ।गीत्युपगीत्युद्गीतय आर्य्यागीतिश्च नवधार्य्या” ॥
इति छन्दोमञ्जरी ॥
श्रेष्ठा स्त्री ॥
वाचस्पत्यम्
Sanskritआर्य्या स्त्री ऋ--ण्यत् । पार्वत्याम् आर्य्याशतकम् । २ श्वश्र्वांश्रेष्ठायां ३ स्त्रियाञ्च ४ मात्रावृत्तभेदे “लक्ष्मैतत्सप्तगणा गोपेता नेह भवति विषमे जः । षष्ठोजश्च नलघूवा प्रथमेऽर्द्धे नियतमार्य्यायाः । षष्ठे द्वितीयलात्परके नले मुखलाच्च सयति पदनियमः । चरमेऽर्द्धे पञ्चमकेतस्मादिह भवति षष्ठोलः” वृत्त० र० उक्ते ५ छन्दोभेदे स्त्री ।साचार्या नवविधा यथा “पथ्या विपुला चपला मुखचपलाजघनचपला च । गीत्युपगीत्युद्गीतष आर्यागीतिश्चनवधा चार्या” इति । तासां लक्षणम् वृत्तर० । “त्रिष्वं-शकेषु पादो दलयोराद्येषु दृश्यते यस्याः । पथ्येति १ नामतस्याः प्रकीर्त्तितं नागराजेन । उल्लङ्घ्य गणत्रयमादिमंशकलयोर्द्वयोर्भवति पादः । यस्यास्तां पिङ्गलनागोविपुलामिति २ समाख्याति । उभयार्द्धयोर्जकारौ द्वितीय-तुर्यौ गमध्यगौ यस्याः । चपलेति ३ नाम तस्याःप्रकीर्त्तितं नागरांजेन । आद्यं दलं समस्तं भजेत लक्ष्मचपलागतं यस्याः । शेषे पूर्बजलक्ष्मा मुखचपला ४ सोदितामुनिना । प्राक्प्रतिपादितमर्द्धे प्रथमे प्रथमेतरे तु चप-लायाः । लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ५ सा ।आर्या प्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।दलयोः कृतयतिशोभां तां गीतिं ६ गीतवान् भुज-ङ्गेशः । आर्याद्वितीयकेऽर्द्धेयद्गद्रितं लक्षणं तत् स्यात् ।उभयोरपि दलयोरुपगीतिं ७ तां मुनिर्ब्रूते । आर्याश-कलद्वितयं व्यत्ययरचितं भवेद् यस्याः । सोद्गीतिः ८किल गदिता तद्वदंशभेदसंयुक्ता । आर्यापूर्व्वार्द्ध्वं यदिगुरुणैकेनाधिकेन निधने युक्तम् । इतरत्तद्वन्निखिलंयदीयमुदितेयमार्यागीतिः” ९ । “पादे द्वादश विषमेमात्राष्टादश द्वितीये हि । पञ्चदश चेत् तुरीये कथि-ता गाथा तथैवार्य्या” ग्रन्थान्तरे यथाकथञ्चिद्द्वादशाष्टा-दशाक्षरादिमात्रात्मकपादत्वोक्तावपि वृत्तरत्नाकरोक्तेर्गण-नियमोऽस्त्येव सामान्यशास्त्रऽतोऽपवादशास्त्रस्य प्रबल-त्वात् । तेन यथाकथञ्चित्तथामात्रानिवेशोऽनुचितएव ।“शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्य्योभिः । संक्षिप्त-मार्य्यमतिना सम्यग्विज्ञाय सिद्धान्तम्” सां० का० “क्वचिदत्रभवेदार्याक्वचिद्वक्त्रापवक्त्रके” सा० द० कथालक्षणम् । “आर्यावक्त्रापवक्त्राणांछन्दसा येन केनचित्” सा० द० । “अति-स्पष्टवर्णस्वरसंस्कारवत्या गिरा राजानमुद्दिश्यार्यामिमांपपाठ” काद० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
