| YouTube Channel

आर्यः (AryaH)

 
Apte Hindi
Hindi
आर्यः
पुं*
- ऋ+ण्यत्
"ईरान के लोग, हिन्दूजाति जो अनार्य, दस्यु तथा दास से भिन्न हैं "
आर्यः
पुं*
- ऋ+ण्यत्
जो अपने देश के नियम तथा धर्म के प्रति निष्ठावान हैं
आर्यः
पुं*
- ऋ+ण्यत्
पहले तीन वर्ण
आर्यः
पुं*
- ऋ+ण्यत्
"सम्माननीय या आदरणीय पुरुष, प्रतिष्ठित व्यक्ति"
आर्यः
पुं*
- ऋ+ण्यत्
सकुलोत्पन्न पुरुष
आर्यः
पुं*
- ऋ+ण्यत्
सच्चरित्र पुरुष
आर्यः
पुं*
- ऋ+ण्यत्
"स्वामी, मालिक"
आर्यः
पुं*
- ऋ+ण्यत्
"गुरु, अध्यापक"
आर्यः
पुं*
- ऋ+ण्यत्
मित्र
आर्यः
पुं*
- ऋ+ण्यत्
वैश्य
आर्यः
पुं*
- ऋ+ण्यत्
श्वसुर
आर्यः
पुं*
- ऋ+ण्यत्
बुद्ध भगवान
E Bharati Sampat
Sanskrit
(पुं) अर्तुं सदाचरितुं योग्यः। ऋ(गतौ)+ण्यत् ‘ऋहलोर्ण्यत्’ ३.१.१२४। १.गुरुः। २.स्वामी ३.‘सुहृद्स्नेहितः’ अमरः। ४.‘बुद्धः’ इति हेमचन्द्रः। ५.श्रेष्ठवर्णः, म्लेच्छेतरजातिः। ‘म्लेच्छश्चान्ये बहुविधाः पूर्वं ये निकृता रणे आर्याश्च पृथिवीपाताः’ भार०। ६.सावर्णमनुपुत्रः। ‘चरिष्णुरार्यो धृष्णुश्च राजः सुमतिरेव सावर्णस्य मनोः पुत्राः भविष्या दश भारत ॥’ हरिवंशम् ७.श्वशुरः। (वि) अर्तुं प्रकृतमाचरितुं योग्यः अर्यते वा ८.सत्कुलोद्भवः, कुलीनः। ‘महाकुलकुलीनार्यसभ्यसज्जनसाधवः’ अमरः। ९.नाट्योक्तः। ‘राजन्नित्यृषिभिर्वाच्य सोऽपत्यप्रत्ययेन स्वेच्छया नामभिर्विप्रैः विप्र आर्येति चेतरैः॥ वाच्यौ नटीसूत्रधारौ आर्यनाम्ना परस्परम्’ सा०द०६.१४५.४६.४७। १०.मान्यः, मारिषः। ‘आर्यस्तु मारिषः’ अमरः। ११.साधुः, शान्थाचित्तः, उदारचरितः। ‘आर्यः साधौ सौविदल्केऽपि’ विश्वः। ‘योऽहमार्येण परवान् भ्रात्रा ज्येष्ठेन भाविनि’ रामा०त्रिकाण्डम् १२.सदाचारनिष्ठः, न्यायपथावलम्बी, सततकर्तव्यानुष्ठाना ‘कर्तव्यमाचरन् काममकर्तव्यमनाचरन् तिष्ठति प्राकृताचारे तु आर्य इति स्मृतः॥’ ‘ग्रहीतुमार्यान् परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः’ माघः१.१७। १३.पूज्यः, श्रेष्ठः। १४.धार्मिकः, धर्मशीलः। ‘आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत्’ मनुः१०.७५७। (स्त्री) आर्या १५.पार्वती ‘आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा’ अमरः। १५.श्रेष्ठा ‘आर्यामाद्यामचलननयां नौमि सौभाग्यदाम्रीम् ।’ ‘अथार्या हिण्दी शिखरवासिनी’ त्रिकाण्ड०। १६.श्वश्रूः। १७.छन्दोविशेषः। ‘यस्याः पादे प्रथमे द्वादशमात्राः स्थितास्तृतीयेऽपि अष्टादश द्वितीये चतुर्थकं पञ्चदश सार्या’ श्रुतबोधः।
Wordnet
Sanskrit
Synonyms:
आर्यः
noun
आचार्यगुरुपत्यादीनाम् आदरणीयानां पुरुषाणां कृते उपयुक्तं सम्बोधनम्।
"आर्य भवता सह मेलितुं केचन जनाः आगताः।"
Synonyms:
श्रीमान्, महोदयः, आर्यः, आर्यमिश्रः
noun
पुंसां व्यक्तिनामात् प्राक् आदरप्रदर्शनार्थे उपयुज्यमाना संज्ञा।
"पुरुषाणां नाम्नः पूर्वम् आर्य इति उपाधिः आगच्छति।/ आर्यचाणक्येन समो नास्ति कोपि राजनीतिज्ञः।"
Synonyms:
आचार्यः, आर्यः
noun
गुरुब्राह्मणादीनां कृते आदरसूचकं सम्बोधनम्।
"एषः आचार्यः स्वस्य भोजनं स्वयमेव पचति।"
Synonyms:
आर्यः, आर्यमिश्रः, महाशयः, शिष्टः, आर्यजनः, साधुजनः, सुजनः, महानुभावः
noun
यस्य चौर्यकपटयुक्तम् आचरणं नास्ति।
"वयं यं पुरुषम् आर्यम् इति अमन्यन्त सः तु चोरः आसीत्।"
Synonyms:
महाशयः, महानुभावः, शिष्टः, साधुजनः, महाजनः, आर्यः, आर्यमिश्रः, भावमिश्रः, सुजनः, आयवृत्तः
noun
सद्विचारयुक्तः उच्चविचारयुक्तः वा जनः।
"महाशयानां सङ्गतिः लाभदायिका भवति।"
Synonyms:
बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः
noun
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
"कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।"
Synonyms:
आर्यः, आर्यजनः, आर्यमिश्रः, साधुः, सज्जनः, महाजनः, महाशयः
noun
कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् , तिष्ठति प्रकृताचारे सः।
"आर्यान् पूजयेत्। / यद् आर्यमस्यामभिलाषि मे मनः।"