| YouTube Channel

आर्द्रः (ArdraH)

 
E Bharati Sampat
Sanskrit
(वि) अर्द्यते स्म अर्द(गतौ)+रक् ‘अर्देर्दीर्घश्च’ उ०२.१८। १.सजलवस्तु ‘सार्द्रम्, क्लिन्नं, स्तिमितम् तिमितम्, समुन्नम्, उन्तम्’ अमरः। ‘प्रत्यंसं विलुलितमूर्धजा चिराय स्नानार्द्रं वपुरूदवापयत्किलैषा’ माघः८.६८। २.सरसः, रसयुक्तः। ‘आर्द्रं द्रव्यं द्विधा प्रोक्तं सरसं नीरसं तथा’ वैद्यकम् ३.काठिन्यशून्यम्, आनुगुण्ययुक्तम्, मृदु ‘प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्‌गाढरागोदयाः’ मालती०५.७.४। ४.नूतनतया ‘ते पुत्रयोर्नैऋतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ’ रघुः१४.४। (स्त्री) नक्षत्रभेदः, आर्द्रानक्षात्रम् ‘कन्यायां कृष्णपक्षे तु पूजायित्वार्द्रभे दिवा’ दु०त०लिङ्गपु०।