| YouTube Channel

आर्त्तवं (ArttavaM)

 
शब्दकल्पद्रुमः
Sanskrit
आर्त्तवं,
क्ली,
(ऋतुरस्य प्राप्तः, अण् यद्वा ऋतुरेव ।प्रज्ञादिभ्यश्चेत्यण् ।) स्त्रीरजः इत्यमरः
पुष्पं ।इति मेदिनी
(यथा मनुः, ४८ ।“तस्मात् युग्मासु पुत्त्रार्थी संविशेदार्त्तवे स्त्रियं” ।“नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्त्तवदर्शने”
अथार्त्तवस्य स्वरूपमाह ।स्त्रीणां रस एव मासेनार्त्तवं भवतीत्थुक्त्वा पुन-राह शुश्रुत एव ।“मासेनोपचितं काले धमनीभ्यस्तदार्त्तवं ।ईषद्विवर्णकृष्णञ्च वायुर्योनिमुखं नयेत्”
गर्भग्रहणयोग्यस्यार्त्तवस्य लक्षणमाह ।“शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमं ।तदार्त्तवं प्रशंसन्ति यद्वासो विरञ्जयेत्”
आर्त्तवस्य वर्णद्वयाभिधानं वातादिप्रकृतिभेदेनवर्णभेदात् यद्वासो विरञ्जयेत् यद्वासो लग्नंप्रक्षालितं तद्वासस्त्यजति तु विकृतरक्तं कुर्य्यात्” ।इति भावप्रकाशः
“मासान्निष्पिच्छदाहार्त्ति पञ्चरात्रानुबन्धि ।नैवातिबहुलात्यल्पमार्त्तवं शुद्धमादिशेत्
गुञ्जाफलसवर्णञ्च पद्मालक्तकसन्निभं ।इन्द्रगोपकसङ्काशमार्त्तवं शुद्धमेव तत्”
इति चरकः, --“शशासृक्प्रतिमं यत्तु यद्वा लाक्षारसोपमं ।तदार्त्तवं प्रशंसन्ति यद्वासो विरञ्जयेत्
विधिमुत्तरवस्त्यन्तं कुर्य्यादार्त्तवशुद्धये
स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्त्तवादिषु ।कुर्य्यात् कल्कान् पिचूंश्चापि पथ्यान्याचमनानि
ग्रन्थिभूते पिबेत् पाठां भूषणं वृक्षकाणि ।दुर्गन्धे पूयसङ्काशे मज्जतुल्ये तथार्त्तवे
पिबेद्भद्रश्रियः क्वाथञ्चन्दनक्वाथमेव च” ।“आर्त्तवं शोणितन्त्वाग्नेयमग्नीषोमीयत्वाद्गर्भस्यपाञ्चभौतिकञ्चापरजीवरक्तमाहुराचार्य्याः”
“एवं मासेन रसः शुक्रीभवति स्त्रीणाञ्चार्त्तव-मिति”
इति शुश्रुतः
)