| YouTube Channel

आर्ज्जुनि (Arjjuni)

 
वाचस्पत्यम्
Sanskrit
आर्ज्जुनि
पु०
अर्ज्जुनस्यापत्यं बाह्वा० इञ् अर्ज्जुनापत्येअभिमन्यौ तदुत्पत्तिकथा “ततः सुभद्रा सौभद्रं केशवस्यप्रिया स्वसा जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत् ।दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम् सुभद्रा सुषुवेबीरमभिमन्युं नरर्षभम् अभीश्च मन्युमांश्चैव ततस्तमरि-मर्द्दनम् अभिमन्युमिति प्राहुरार्ज्जुनिं पुरुषर्षभम्” भा०आ० प० २२१ अ० वर्चोनामसोमपुत्रस्यावतारःयथोक्तं भा० आ० ६७ अ० “यस्तु वर्च्चा इति ख्यातःसोमपुत्रः प्रतापवान् सोऽभिमन्युर्वृहत्कीर्त्तिरर्ज्जुनस्यसुतोऽभवत् यस्यावतरणेराजन्! सुरान् सोमोऽब्रवीदिदम् ।नाहं दद्याम्प्रियं पुत्रं मम प्राणैर्गरीयसम् समयः क्रियतामेष शक्यमतिवर्त्तितुम् सुरकार्य्यं हि नः कार्य्यमसु-राणां क्षितौ बधः तत्र यास्यत्ययं वर्च्चा स्थास्यतिवै चिरम् ऐन्द्रिर्न्नरस्तु भविता यस्य नारायणः सखा ।सोऽर्ज्जुनेत्यभिविख्यातो पाण्डोः पुत्त्रः प्रतापवान् ।तस्यायं भविता पुत्रो बालोभुवि महारथः ततः षोडश-वर्षाणि स्थास्यत्यमरसत्तमाः! अस्य षोडशवर्षस्य संग्रामोभविष्यति यत्रांशा वः करिष्यन्ति कर्म वीरनिसूदनम् ।नरनारायणाभ्यां तु संग्रामो विना कृतः चक्रव्यूहंसमास्थाय योधयिष्यन्ति वः सुराः! विमुखाञ्छात्रवान्सर्वान् कारयिष्यति मे सुतः बालः प्रविश्य व्यूहमभेद्यंविचरिष्यति महारथानां वीराणां कदनञ्च करिष्यति ।सर्व्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति दिनार्द्धेन महा-बाहुः प्रेतराजपुरं प्रति ततो महारथैर्व्वीरैः समेत्यबहुशोरणे दिनक्षये महाबाहुर्मया भूयः समेष्यति ।एकं वंशकरं पुत्त्रं वीरं वै जनयिष्यति प्रनष्टं भारतं वंशंस भूयोधारयिष्यति एतत् सोमवचः श्रुत्वा तथाऽस्त्वितिदिवौकसः प्रत्यूचुः सहिताः सर्व्वे ताराधिपमपूजयन् ।एवं ते कथितं राजंस्तव जन्म पितुः पितुः” अभिमन्यु-शब्देऽस्य युद्धचर्य्या २९५ पृष्ठे उक्ता