| YouTube Channel

आर्घ्यं (ArghyaM)

 
शब्दकल्पद्रुमः
Sanskrit
आर्घ्यं,
क्ली,
पीतवर्णदीर्घतुण्डषट्पदसन्निभमाक्षि-कोत्पन्नमधु अस्य गुणाः अतिशयचक्षुर्हित-कारित्वं कफपित्तरक्तदोषनाशित्वञ्च
इति राज-निर्घण्टः
यथा, भावप्रकाशः
“मधूकवृक्षा निर्यासं जरत्कार्य्व्याश्रमोद्भवाः ।स्रवन्त्यार्ध्यं तदा ख्यातं श्वेतकं मालवे पुनः
तीक्ष्णतुण्डास्तु याःपीता मक्षिकाः षट्पदोपमाः ।आर्घ्यास्तास्तत्कृतं यत्तदार्घ्यमित्यपरे जगुः”
(“आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परं ।कषायं कटुपाके बल्यं तिक्तमवातकृत्”
इति सुश्रुतः
)
आर्घ्यं,
क्ली,
(आर्घया मक्षिकया विहितम् आर्घा+ यत् ।) आर्घानाममक्षिकोत्पन्नमधु तस्यगुणाः अतिशयचक्षुर्हितकारित्वं कफपित्तास्र-दोषनाशित्वञ्च इति राजनिर्घण्टः
(यदुक्तं, --“मधूकवृक्षानिर्यासं जरत्कार्व्वाश्रमोद्भवाः ।स्रवन्त्यार्घ्यं तदाख्यातं श्वेतकं मालवे पुनः
तीक्ष्णतुण्डास्तु याः पीता मक्षिकाः षट्पदोपमाः ।आर्घास्तास्तत्कृतं यत् तदार्घ्यमित्यपरे जगुः”
यथा सुश्रुते, --“आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परं ।कषायं कटु पाके बल्यं तिक्तमवातकृत्”
इदं हि अष्टविधमधुजातिमध्ये परिगणितम् ।“पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव ।आर्घ्यमौद्दालिकं दालमित्यष्टौ मधुजातयः”
)