| YouTube Channel

आरोग्यशाला (ArogyazAlA)

 
Monier Williams Cologne
English
आरोग्य—शाला
f.
a hospital,
L.
Shabdartha Kaustubha
Kannada
आरोग्यशाला
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಚಿಕಿತ್ಸಾ ಗೃಹ
व्युत्पत्तिः - > आरोग्यार्था शाला
प्रयोगाः - > "आरोग्यशालां कुर्वीत महौषधिपरिच्छदाम् विदग्धवैद्यसंयुक्तां बह्वन्नरससंयुताम् वैद्यस्तु शास्त्रवित्प्राज्ञः दृष्टौषधपराक्रमः ओषधीमूलतत्त्वज्ञः समुद्धरणकालवित् त्यागिवद्देहिनां तद्वदनुकूलप्रियंवदः ॥"
E Bharati Sampat
Sanskrit
(स्त्री) आरोग्यार्था शाला आरोग्यदानस्थानम्, चिकित्सालयः। ‘आरोग्यशालां कुर्वीत महौषधपरिच्छदाम्’ वैद्यकम्
Indian Epigraphical Glossary
English
ārogya-śālā (EI 24
ASLV), hospital
cf. Raṅgādhip-
ārogyaśālā (EI 24), ‘the hospital of [the god] Raṅganātha
[at Śrīraṅgam]’.
Wordnet
Sanskrit
Synonyms:
आरोग्यशाला, चिकित्साशाला, रुग्णालयम्, चिकित्सागारम्
noun
आरोग्यदानगृहम्।
"आरोग्यशालां कुर्वीत महौषघपरिच्छदां विदग्धवैद्यसंयुक्तां बहून्नरससंयुता।"
शब्दकल्पद्रुमः
Sanskrit
आरोग्यशाला,
स्त्री,
(आरोग्यार्था शाला मध्यपद-लोपिकर्म्मधारयः ।) आरोग्यदानगृहं चिकित्-सालयः यथा, --“धर्म्मार्थकाममोक्षाणामारोग्यं साधनं यतः ।अतस्त्वारोग्यदाता नरो भवति सर्व्वदः
आरोग्यशालां कुर्व्वीत महौषधपरिच्छदां ।विदग्धवैद्यसंयुक्तां बह्वन्नरससंयुतां
वैद्यस्तु शास्त्रवित् प्राज्ञो दृष्टौषधपराक्रमः ।ओषधीमूलतत्त्वज्ञः समुद्धरणकालवित्
बलवीर्य्यविपाकज्ञः शालिमांसौषधीगणे ।त्यागिवद्देहिनां तद्वदनुकूलः प्रियंवदः”
इति वैद्यकं
वाचस्पत्यम्
Sanskrit
आरोग्यशाला स्त्री आरोग्यार्था शाला शा० त० चिकित्-सार्थे राजादिकारिते गृहभेदे तत्करणप्रकारो वैद्यकेउक्तो यथा “धर्मार्थकाममोक्षाणामारोग्यं साधनं यतः ।अतस्त्वारोग्यदाता नरो भवति सर्वदः आरोग्यशालांकुर्वीत महौषधपरिच्छदाम् विदग्धवैद्यसंयुक्तां बह्वन्नर-ससंयुताम् वैद्यस्तु शास्त्रवित् प्राज्ञो दृष्टौषधपराक्रमः ।ओषधीमूलतत्त्वज्ञः समुद्धरणकालवित् बलवीर्य्यविपाकज्ञःशालिमांसौषधीगणे त्यागिवद्देहिनां तद्वदनुकूलःप्रियंवदः”