| YouTube Channel

आरोग्यं (ArogyaM)

 
Apte 1890
English
आरोग्यं [अरोगस्य भावः ष्यञ्] Freedom from disease, good health
Comp.
शाला an hospital.
शब्दकल्पद्रुमः
Sanskrit
आरोग्यं,
क्ली,
(अरोगस्य भावः ष्यञ् ।) व्याध्यभावः ।तत्पर्य्यायः अनामयं इत्यमरः
पाटवं ३लाघवं वार्त्तं इति राजनिर्घण्टः
(“आ-रोग्यं तत् सुखावहं” इति शार्ङ्गधरः
“धर्म्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्” ।“सुखसंज्ञकमारोग्यम्, ”“वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः ।पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम्
”इति चरकः
“सुखमात्रं समासेन सद्वृत्तस्यैतदीरितं ।आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः”
इति सुश्रुतः
)