| YouTube Channel

आरूणिः (ArUNiH)

 
E Bharati Sampat
Sanskrit
(पुं) अरूणस्यापत्यम् अरूण+इञ् ‘अत इञ्’ ४.१.९५। १.उद्दातकः, गौतममुनिः। ‘उद्दालको हारूणिः श्वेतकेतुं पुत्रमुवाच’ छा०उ०। २.वैशम्पायनान्तेवासिभेदः। ३.सामवेदब्राह्मण भेदः। ४.आयोदधौम्यमुनिशिष्यभेदः। ५.गरूदानुजस्य अरूणस्य पुत्रभेदः। ६.विनतायाः पुत्रभेदः, अरूणानुजः। ‘अरूणश्चारूणिश्चैव विनतायाः सुताः सुश्रूताः’ हरिवं०१२६। (स्त्री) आरूणी ७.अरूणमुनिपुत्री ८.गरूडाग्रजारुणपुत्री