| YouTube Channel

आरूढः (ArUDhaH)

 
E Bharati Sampat
Sanskrit
(वि) आ+रूह(बीजजन्मादौ)+क्तः(कर्तरि०)। ‘गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरूहजीर्यतिभ्यश्च’ ३.४.७२। १.आरोहणकर्ता, आरोहकः, कृतारोहणः। ‘आरूढः पतित इति स्वसंभवोऽपि’ माघः८.५४। २.उत्पन्नः, जातः। ‘तदागमारूढगुरूप्रहर्षः’ रघुः ५.६१। ३.‘आरूढः, उत्पन्नः’ इति मल्लिनाथः। आ+रूह(बीजजन्मादौ)+क्तः(कर्मणि)। ‘निष्ठा’ ३.१.१०२। ३.यत्रारोहणं कृतं तत् ‘कृतारोहणम् अरूढो वृक्षो भवता’ सि०कौ०। ‘आरूढकविताशाखं वन्दे वाल्मीकिक्तेकिलम्’ रामा०।
शब्दकल्पद्रुमः
Sanskrit
आरूढः, त्रि, (आङ् + रुह् + कर्त्तरि क्तः ।) कृता-रोहणः वृक्षादिर उपर चडा व्यक्ति इतिभाषा यथा, --“राम रामेति रामेति कूजन्तं मधुराक्षरं ।आरूढकविताशाखं वन्टे वाल्मीकिकोकिलं”
इति रामायणपाठस्य पूर्व्वपाठ्यश्लोकः
(यथा स्मृतिः ।“आरूढो नैष्ठिकं धर्म्मं यस्तु प्रच्यवते पुनः ।प्रायश्चित्तं पश्यामि येन शुध्येत् आत्महा”
गीता ।“योगारूढस्य तस्यैव शमः कारणमुच्यते” ।)