| YouTube Channel

आरयन्-न्ती (Arayan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ऋ गतौ”@} 2 ‘तत्रेयर्त्यृच्छतीत्यर्तेः, श्नि गतौ स्याद् ऋणाति तु।।’ 3 इति देवः।
आरकः-रिका, आरकः-रिका, 4 अरिरीषकः-अरिरिषकः- 5 ईर्षिषकः-षिका
6 अरीता-अरिता-त्री, आरयिता-त्री, अरिरीषिता-अरिरिषिता-ईर्षिषिता-त्री
7 ऋणन्-ती, आरयन्-न्ती, अरिरीषन्-अरिरिषन्-ईर्षिषन्-न्ती
अरीष्यन्-अरिष्यन्-न्ती-ती, आरयिष्यन्-न्ती-ती, अरिरीषिष्यन्-अरिरिषिष्यन्-ईर्षिषिष्यन्-न्ती-ती
-- आरयमाणः, आरयिष्यमाणः
-- -- 8 ईः-इरौ-इरः
-- -- -- -- 9 समीर्णम्-र्णः-र्णवान्, आरितम्-तः, अरिरीषितः-अरिरिषितः-ईर्षिषितः-तवान्
10 अरः, आरः, अरिरीषुः-अरिरिषुः-ईर्षिषुः, आरिरयिषुः
अरीतव्यम्-अरितव्यम्, आरयितव्यम्, अरिरीषितव्यम्-अरिरिषितव्यम्-ईर्षिषितव्यम्
अरणीयम्, आरणीयम्, अरिरीषणीयम्-अरिरिषणीयम्-ईर्षिषणीयम्
11 आर्यम्, आर्यम्, अरिरीष्यम्-अरिरिष्यम्-ईर्षिष्यम्
ईषदरः-दुररः-स्वरः
-- -- -- 12 ईर्यमाणः, आर्यमाणः, अरिरीष्यमाणः-अरिरिष्यमाणः-ईर्षिष्यमाणः
अरः, आरः, अरिरीषः-अरिरिषः-ईर्षिषः
अरीतुम्-अरितुम्, आरयितुम्, अरिरीषितुम्-अरिरिषितुम्-ईर्षिषितुम्
13 ईर्णिः, आरणा, अरिरीषा-अरिरिषा-ईर्षिषा, आरिरयिषा
अरणम्, आरणम्, अरिरीषणम्-अरिरिषणम्-ईर्षिषणम्
ईर्त्वा, आरयित्वा, अरिरीषित्वा-अरिरिषित्वा-ईर्षिषित्वा
समीर्य, समार्य, समरीरिष्य-समरिरिष्य-समीर्षिष्य
आरम् २, ईर्त्वा २, आरम् २, आरयित्वा २, अरिरीषम् २, अरिरिषम् २, अरिरीषित्वा २, अरिरिषित्वा २, ईर्षिषम्
ईर्षिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१३०)
02
=>
(९-क्र्यादिः-१४९७। सक। सेट्। पर। प्वादिः।)
03
=>
(श्लो-३०)
04
=>
[[३। अस्य धातोः सनि, ‘इट् सनि वा’ (७-२-४१) इतीड्विकल्पः। इट्पक्षे द्विती- यस्यैकाचो द्विर्वचने ‘वॄतो वा’ (७-२-३८) इति दीर्घविकल्पः। एवं सर्वत्र सन्नन्ते इट्पक्षे बोध्यम्।]]
05
=>
[[४। इडभावपक्षे ‘इको झल्’ (१-२-९) इति सनः कित्त्वाद् गुणाभावेन, ‘ॠत इद्धातोः’ (७-१-१००) इति इत्त्वे रपरत्वे, ‘हलि च’ (८-२-७७) इति दीर्घे रूपम्। एवं सन्नन्ते इडभावपक्षे सर्वत्र ज्ञेयम्।]]
06
=>
[[५। ‘वॄतो वा’ (७-२-३८) इतीटो दीर्घविकल्पः।]]
07
=>
[[६। ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे, ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इति आकारलोपे नुमि रूपम्।]]
08
=>
[[७। धातोः इत्वे रपरत्वे, ‘र्वोरुपधायाः--’ (८-२-७६) इति दीर्घे रूपम्।]]
09
=>
[[८। सनि वैकल्पिकेट्त्वात् ‘यस्य विभाषा’ (७-२-१५) इति, ‘श्र्युकः किति’ (७-२-११) इति वा इण्णिषेधः। ‘ल्वादिभ्यः’ (८-२-४४) इति निष्ठानत्वे णत्वम्।]]
10
=>
[पृष्ठम्०१३३+ २१]
11
=>
[[१। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यत्।]]
12
=>
[[२। यकि धातोरित्वे रपरत्वे, ‘हलि च’ (८-२-७७) इति दीर्घः। एवं क्त्वायां, ल्यपि ज्ञेयम्।]]
13
=>
[[३। ‘ऋल्वादिभ्यः क्तिन् निष्ठावद्वाच्यः’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नत्वे, णत्वे रूपम्।]]