| YouTube Channel

आरम्भवाद (ArambhavAda)

 
Shabdartha Kaustubha
Kannada
आरम्भवाद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಿತ್ಯವಾದ ಪರಮಾಣುವೇ ಜಗತ್ತಿನ ಉತ್ಪತ್ತಿಗೆ ಕಾರಣೆಅವೆಂದು ಹೇಳುವ ತಾರ್ಕಿಕರ ವಾದ
विस्तारः - > "द्रव्याणि द्रव्यान्तरमारम्भन्ते गुणाश्च गुणान्तरम्" - वै० सू०
वाचस्पत्यम्
Sanskrit
आरम्भवाद
पु०
आरम्भस्य वादः परीक्षापूर्व्वकः कथाभेदः ।वैशेषिकाद्यभिमते परमाणुभ्य एव जगदुत्पत्तिनिर्ण्णायकेवादे “द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणा-न्तरमिति” वै० सू० दर्शितः “आत्माकाशाणुमुखतः कारणंपूर्व्वमिष्यते कुलालादिवदण्डन्तु घटवज्जन्मनाशभाक् ।पृथिव्यम्भोऽग्निवायूनां कर्मसंयीजिताणवः द्यणुकादिक्रमेणाण्डमारभन्ते इदं महदिति” हि तेषां वादः ।शा० भाष्ये तु तदेतन्मतमुत्थाप्य निराकृतं यथा“परमाणुकारणवादैदानीं निराकर्त्तव्यः तत्रादौ ताव-द्योऽणुकारणवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते सप्रतिसमाधीयते तत्रायं वैशेषिकाणामभ्युपगमः कारणद्रव्यसमवायिनोगुणाः कार्य्यद्रव्यसमानजातीयं गुणा-न्तरमारभन्ते शुक्लेभ्यसुन्तुभ्यः शुक्लस्य पटस्य प्रसवद-र्शनात्तद्विपर्य्ययाऽदर्शनाच्च तस्माच्चेतनस्य ब्रह्मणो जग-त्कारणत्वेऽभ्युपगम्यमाने कार्य्येऽपि जगति चैतन्यं सम-वेयात् तददर्शनात् चेतनं ब्रह्मजगत्कारणम्भवितुमर्ह-तीति इममभ्युपगमन्तदीययैव प्रक्रियया व्यभिचारयति ।“महद्दीर्घवद्ग्रस्वपरिमण्डलाभ्याम्” सू० “एषा तेषांप्रक्रिया परमाणवः किल किञ्चित्कालमनारब्धकार्य्या यथा-योगं रूपादिमन्तः पारिमाण्डल्यपरिमाणास्तिष्ठन्ति ते चपश्चाददृष्टादिपुरःपराः संयोगसचिवाश्च सन्तोद्व्यणुकादि-क्रमेण कृत्स्नं कार्य्यजातमारभन्ते कारणगुणाश्च कार्य्येगुणा-न्तरम् यदा द्वौ परमाणू द्व्यकणुकमारभेते तदा परमा-णुगता रूपादिगुणविशेषाः शुक्लादयोद्व्यणुके शुक्लादीनार-भन्ते परमाणुगुणविशेषस्तु पारिमाण्डल्यम् द्व्यणुकेपारिमाण्डल्यमपरमारभते द्व्यणुकस्य परिमाणान्तरयोगा-भ्युपगमात् अणत्वह्रस्वत्वे हि द्व्यणुकवर्त्तिनी परिमाणेवर्णयन्ति यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापिसमानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् ।अणुत्वह्रस्वत्वे तुद्व्यणुकसमवायिनी अपि नैवारभेते चतुर-णुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात् यदा-पि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यणु कसहितोवा परमाणुः कार्य्यमारभन्ते तदापि समानैषा योजना ।तदेवं यथा परमाणोः परिमण्डलात्मनोऽणु ह्रस्वञ्च द्व्य-णुकं जायते महद्दीर्घञ्च त्र्यणुकादि परिमण्डलम् यथावा द्व्यणुकादणोर्ह्रस्वाच्च सतोमहद्दीर्घञ्च त्र्यणुकादि जा-यते नाणु नोत ह्रस्वम् एवं चेतनाद्ब्रह्मणोऽचेतनं जगज्ज-निष्यत इत्यभ्युपगमे तव किं छिन्नम् अथ मन्यसे विरो-धिना परिमाणान्तरेणाक्रान्तं कार्य्यद्रव्यं द्व्यणुकादि ततो-नारम्भकाणि कारणगतानि पारिमाण्डल्यादीनि इत्य-भ्युपगच्छामि तु चेतनाविरोधिना गुणान्तरेण जगतआक्रान्तत्वमस्ति येन कारणगता चेतना कार्य्ये चेतनान्तरंनारभेत नह्यचेतनानां चेतनाविरोधी कश्चिद्गुणोऽस्ति चेतनाप्रतिषेधमात्रत्वात् तस्मात् पारिमाण्डल्यादिवैषम्यात् प्राप्नोति चेतनाया आरम्भकत्वमिति, मैवंमंस्थाः यथा कारणे विद्यमानानामपि पारिमाण्डल्यादी-नामनारम्भकत्वमेवं चैतन्यस्यापीत्यस्यांशस्य समानत्वात् ।न परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनार-म्भकत्वे कारणं प्राक् परिमाणान्तरारम्भात् पारिमाण्ड-ल्यादीनामारम्भकत्वोपपत्तेः आरब्धमपि कार्य्य द्रव्यंप्राग्गुणारम्भात् क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगसात् ।न परिमाणान्तरारम्भेव्यग्राणि पारिमाण्डल्यादी-नीत्यतः स्वममानजातीयं परिमाणान्तरं नारभन्ते परि-माणान्तरस्यान्यहेतुकत्वाभ्युपगमात् “कारणबहुत्वात् प्रच-यविशेषाच्च महत्” “तद्विपरीतमण्” “एतेन दीर्घत्वह्रस्व-त्वे व्याख्याते” इति हि काणभुजानि सूत्राणि चसन्निधानविशेषात् कुतश्चित् कारणबहुत्वादीनि एवार-भन्ते पारिमाण्डल्यादीनीत्युच्यते द्रव्यान्तरे गुणा-न्तरे वाऽऽरभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसम-वायाविशेषात् तस्मात् यथा स्वभावादेव पारिमाण्डल्या-दीनामनारम्भकत्वं तथा चेतनाया अपि द्रष्टव्यम् संयो-गाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात् समान-जातीयोत्पत्तिव्यभिचारः द्रव्ये प्रकृते गुणोदाहरणम-युक्तमिति चेन्न दृष्टान्तेन विलक्षणारम्भमात्रस्य विवक्षित-त्वात् द्रव्यस्य द्रव्यनेवोदाहर्त्तव्यं गुणस्य वा गुण-एवेति कश्चिन्नियमे हेतुरस्ति सूत्रकारोऽपि भवतां द्रव्यस्यगुणमुदाजहार “प्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य पञ्चा-त्मकत्वं विद्यत” इति यथा प्रत्यक्षापत्यक्षयोर्भूम्याकाशयोःसमवयन् संयोगोऽप्यप्रत्यक्षः एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चसुभूतेषु समवयत् शरीरमप्रत्यक्षं स्यात् प्रत्यक्षन्तु शरीरंदृश्यते तस्मान्न पाञ्चभौतिकमिति एतदुक्तं भवति गुणश्चसंयोगोद्रव्यं शरीरम् दृश्यतेत्विति चात्रापि विलक्षणोत्पत्तिःप्रपञ्चिता नन्वेवं सति तेनैवैतद्गतम्, नेति ब्रूमः तत्-सांख्यं प्रत्युक्तं एतत्तु वैशेषिकं प्रति नन्वतिदेशोऽपिसमानन्यायतः “एतेन शिष्टापरिग्रहा अपि व्याख्याताः”इति सत्यमेतत् तस्यैव त्वयं वैशेषिकपरीक्षारम्भे तत्प्रक्रि-यानुगतेन निदर्शनेन प्रपञ्चः कृतः “उभयथापि कर्मा-ऽतस्तदभावः” सू० इदानीं परमाणुकारणवादं निराक-रोति वादैत्थं समुत्तिष्ठति पटादीनि हि सावयवानिद्रव्याणि स्वानुगतैः संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्य-माणानि दृष्टानि तत्सामान्येन यावत्किञ्चित् सावयवंसर्वन्तत् स्वानुगतैरेव संयोगसचिवैस्तैस्तैर्द्रव्यै रारब्धमितिगभ्यते सचायमवयवावयविविभागोयतो निवर्त्तते सोऽपक-र्षपर्य्यन्तगतः परमाणुः सर्वञ्चेदं गिरिसमुद्रादिकं ज-गत् सावयवं सावयवत्वादाद्यन्तवत् चाकारणेन कार्य्येणभवितव्यमित्यतः परमाणवोजगतः कारणमिति कणभुग-भिप्रायः तानोमानि चत्वारि भूतानि भूम्यप्तेजःपवना-ख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिक-ल्प्यन्ते तेषाञ्चापकर्षपर्य्यन्तगतत्वेन परतोविभागासम्भवा-द्विनश्यताञ्च पृथिव्यादीनां परमाणुपर्य्य न्तविभागो भवतिस प्रलयकालः ततः सर्गकाले वायवीयेष्वणुष्वदृष्टापेक्षंकर्मोत्पद्यते तत्कर्म स्वाश्रयमणुमण्वन्तरेण संयुनक्ति ततोद्व्यणुकादिक्रमेण वायुरुत्पद्यते एवमग्निः एवमापः एवंपृथिवी एवं शरीरं सेन्द्रियमित्येवं सर्वमिदं जगदणुभ्यःसम्भवति अणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि रू-पादीनि सम्भवन्ति तन्तुपटन्यायेनेति काणादा सन्यन्ते ।तत्रेदमभिधीयते वियोगावस्थानां तावदणूनां संयोगःकर्मापेक्षोऽभ्युपगन्तव्यः कर्मवतां तन्त्वादीनां संयोगदर्शनात् ।कर्मणश्च कार्य्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम् अनभ्युप-गमे निमित्ताभावान्नाणुष्वाद्यं कर्म्म स्यात् अभ्युपगमेऽपियदि प्रयत्नोऽभिघातादिर्वा यथादृष्टं किमपि कर्म्मणीनिमि-त्तमभ्युपगम्येत तस्यासम्भवान्नैवाणुष्वाद्यं कर्म्मस्यात् हितस्यामवस्थायामात्मगुणः प्रत्यत्नः सम्भवति शरीराभावात् ।शरोरप्रतिष्ठे हि मनस्यात्ममनःसंयोगे सत्यात्मगुणः प्र-यत्नो जायते एतेनाभिघाताद्यपि दृष्टनिमित्तं प्रत्या-ख्यातव्यम् सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्म्मणोनिमित्तं सम्भवति अथादृष्टमाद्यस्य कर्म्मणोनिमित्तमि-त्युच्येत तत्पुनरात्मसमवायि वा स्यादणुसमवायि वा उभय-थापि नादृष्टनिमित्तमणुषु कर्मावकल्प्येत अदृष्टस्याचेतम-त्वात् नह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्त्तते प्रव-र्त्तयति वेति साङ्ख्यपरीक्षायामभिहितम् आत्मनश्चानु-त्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात् आत्मसमवा-यित्वाभ्युपगमाच्च नादृष्टमणुषु कर्म्मणोनिमित्तं स्यात् अस-म्बन्धात् अदृष्टवता पुरुषेणास्त्यणूनां सम्बन्ध इति चेत्सम्बन्धसातत्यात् प्रवृत्तिसतत्यप्रसङ्गः नियामकान्तराभा-वात् तदेवं नियतस्य कस्यचित् कर्म्मनिमित्तस्याभावा-न्नाणुष्वाद्यं कर्म्मस्यात् कर्म्माभावात् तन्निबन्धनः संयोगो-म स्यात् संयोगाभावाच्च तन्निबन्धनं द्व्यणुकादि कार्य्यजातंन स्यात् संयोगश्चाणोरण्वन्तरेण सर्वीत्म्ना वा स्यादेकदे-शेन वा, सर्वात्मना चेदुपचयानुपपत्तेरणुमात्रत्वप्रसङ्गोदृष्टविपर्य्ययप्रसङ्गश्च प्रदेशवतोद्रव्यस्य प्रदेशवता द्रव्यान्तरेणसंयोगस्य दृष्टत्वात् एकदेशेन चेत् सावयवत्वप्रसङ्गः ।परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् कल्पितानाम-वस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्य्यस्यासमवायिकारणं स्यात् असति चासमवायिकारणे द्व्यणु-कादि कार्य्यद्रव्यं नोत्पद्येत यथा चादिसर्गेनिमित्ताभावात् संयोगोत्पर्त्त्यर्थं कर्म नाणूनां सम्भवतिएवं महाप्रलयेऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनांसम्भवेत् हि तत्रापि किञ्चिन्नियतं तन्निमित्तंदृष्टमस्ति अदृष्टमपि भोगप्रसिद्ध्यर्थं प्रलयप्रसिद्ध्यर्थ-मिति अतोनिमित्ताभावान्न स्यादणूनां संयोगोत्प-त्थर्थंविभागोत्पत्त्यर्थञ्च कर्म अतश्च संयोगविभागायत्तयोःसर्गप्रलययोरभावः प्रसज्येत तस्मादनुपपन्नोऽयं पर-माणुकारणवादः “समवायाभुपगमाच्च साम्यादनवस्थितेः”सू० समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणृवादनिरा-करणेन सम्बध्यते द्वाभ्याञ्चाणभ्यां द्व्यणुकमुत्पद्यमान-मत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभुपगम्यते भवता नचैवमभ्युपगच्छता शक्यतेऽणुकारणवादः समर्थयितुमुकुतः?साम्यादनवस्थितेः यथैव ह्यणुभ्यामत्यन्तभिन्नं सत्द्व्यणुकंसमवायलक्षणेन सम्बन्धेन ताभ्यां सम्बध्यते एवं समवा-योऽपि समवायिभ्योऽत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैवसम्बन्धेन समवायिभिः सम्बध्येत अत्यन्तभेदसास्यात् ततश्चतस्य तस्यान्योऽन्यः सम्बन्धः कल्पयितव्य इत्यनवस्था प्रस-ज्येत नन्विह प्रत्ययग्राह्यः समवायो नित्यसम्बन्धएवसमवायिभिर्गृह्यते नासम्बद्धः सम्बन्धान्तरापेक्षो वा ततश्च नतस्यान्यः सम्बन्धः कल्पतयिव्योयेनानवस्था प्रसज्येत ने-त्युच्यते संयोगोऽप्येवं सति संयोगिभिर्नित्यसम्बन्ध ए-वेति समवायवन्नान्यं सम्बन्धमपेक्षेत अथार्थान्तरत्वात्संयोगः सम्बन्धान्तरमपेक्षते, समवायोऽपि तर्ह्य-र्थान्तरत्वात् सम्बन्धान्तरमपेक्षेत गुणत्वात् संयोगःसम्बन्धान्तरपेक्षते समवायोऽगुणत्वादिति युज्यते वक्तुम्अपेक्षाकारणस्य तुल्यत्वात् गुणपरिभाषायाश्चातन्त्रत्वात् ।तस्मादंर्थान्तरं समवायमभ्युपगच्छतां प्रसज्येतैवानवस्था ।प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्व्वासिद्धेर्द्वाभ्या-मणुभ्यां द्यणुकं नैवोत्पद्येत तस्मादप्यनुपपन्नः परमाणु-कारणवादः “नित्यमेव भावात्” सू० अपि अणवःप्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वा उभयस्वभावा वाअनुभयस्वभावा वाऽभ्युपगम्येरन् गत्यन्तराभावात् चतु-र्द्धापि नोपपद्यते प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भा-वात् प्रलयाभावाप्रसङ्गः निवृत्तिस्वभावत्वेऽपि नित्यमेवनिवृत्तेर्भावात् सर्गाभावप्रसङ्गः उभयस्वभावत्वञ्च विरो-धादसमञ्जसम् अनुभयस्वभावत्वे तु निमित्तवशात् प्रवृ-त्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसन्नि-धानान्नित्यप्रवृत्तिप्रसङ्गः अतन्त्रत्वेऽप्यदृष्टादेर्नित्यप्र-वृत्तिपरसङ्गः तस्मादप्यनुपपन्नः परमाणुकारणवादः “रू-पादिमत्त्वाच्चविपर्य्ययो दर्शनात्” सू० नावयवानां द्रव्या-णामवयवशोविभज्यमानानां यतः परोविभागो सम्भ-वति ते चतुर्बिधा रूपादिमन्तः परमाणवश्चरुर्विधस्य रूपा-दिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिकाअभ्युपगच्छन्ति तेषामभुपगमो निरालम्बन एव यतो-रूपादिमत्त्वात् परमाणूनामणुत्वनित्यत्वविपर्य्ययः प्रस-ज्येत परमकारणापेक्षयास्थूलत्वमनित्यत्वञ्च तेषामभिप्रेतविपरीतमापद्येतेत्यर्थः कुतः? एवं लोके दृष्टत्वात् ।यद्धि लोके रूपादिमद्वस्तु तत् स्वकारणापेक्षया स्थूलम-नित्यञ्च दृष्टं तद्यथा पटस्तन्तूनपेक्ष्य स्थऊलोऽनित्यश्च भवतितन्तवश्चांशूनपेक्ष्य स्थूला अनित्याश्च भवन्ति तथाचामी परमाणवोरूपादिमन्तस्तैरभ्युपगस्यन्ते तस्मात्तेऽपिकारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति यच्चनित्यत्वे कारणं तैरुक्तं “सदकारणवन्नित्यमिति” तद-प्येवं सत्यणुषु सम्भवति उक्तेन प्रकारेण कारणवत्त्वो-पपत्तेः यदपि नित्यत्वे द्वितीयं कारणमुक्तम् “अ-नित्यमिति विशेषतः प्रतिषेधाभाव” इति तदपि ना-वश्यं परमाणूनां नित्यत्वं साधयति असति हि यस्मिन्कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यतेन पुनः परमाणुनित्यत्वमेवापेक्षते तच्चास्त्येव नित्यं परम-कारनं ब्रह्म शब्दार्थव्यवहारमात्रेण कस्यचिद-र्थस्य प्रसिद्धिर्भवति प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यव-हारावतारात् यदपि नित्यत्वे तृतीयं कारणमुक्तम् ।“अविद्या चेति” तद्यद्येवं विब्रियेत सतां परिदृश्यमनका-र्य्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति ततोद्व्यणुकनि-त्यताप्यापद्येत अथाद्रव्यवत्त्वे सतीति विशेष्यते तथाप्य-कारणवत्त्वमेव नित्यतानिमित्तमापद्येत तस्य प्रागे-वोक्तत्वादविद्या चेति पुनरुक्तं स्यात् अथापि कारण-विभागात् कारणविनाशाच्चान्यस्य तृतीयस्य विनाशहेतोर-सम्भवोऽविद्या सा परमाणूनां नित्यत्वं ख्यपयतीति व्या-ख्यायेत नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनंष्टुमर्ह-तीति नियमोऽस्ति संयोगसचिवे ह्यनेकस्मिश्च द्रव्ये द्रव्या-न्तरस्यारम्भकेऽभ्युपगम्यमाने एतदेवं स्यात् यदा त्वपास्तविशेषंसामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भ-कमभ्युपगम्यते तदा घृतकाठित्यविलयनवत् मृर्त्त्यवस्थाविलय-नेनापि विनाश उपपद्यते तस्माद्रूपादिमत्त्वात् स्यादभि-प्रेतविपर्य्ययः परमाणूनां, तस्मादप्यनुपपन्नः परमाणुकार-णवादः “उभयथा दोषात्” सू० गन्धरसरूपस्पर्शगुणास्थूला पृथ्वी, रसरूपस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्श-गुणं रूक्ष्मतर तेजः, स्पर्शपुणः सूक्ष्मतमोवायुरित्येव-मेतानि चत्वारि भूतान्यपचितापचितगुणानि स्थ लसूक्ष्म-तारतम्योपेतानि लोके लक्ष्यन्ते तद्वत् परमाणवोऽप्युप-चितापचितगुणाः कल्प्येरन् वा उभयथापि तद्दो-षानुषङ्गोऽपरिहार्य्य एव स्यात् कल्प्यमाने तावदुपचि-तापचितगुणत्वे उपचितगुणानां मूर्त्युपचयादपरमाणुत्वप्रसङ्गः नचान्तरेणापि मूर्त्त्युपचयं गुणोपचयो भवती-त्युच्येत कार्य्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् अक-ल्प्यमाने तूपचितापचितगुणत्वे परमाणुत्वसाम्यपेरसिद्धयेयदि तावत् सर्व्वएव एकैकगुणाएव कल्प्येरन् ततस्तेजसिस्पर्शस्योपलब्धिर्न स्यात् अप्सुरूपस्पर्शयोः, पृथिव्यां रूप-रसस्पर्शानां, कारणगुणपूर्व्वकत्वात् कार्य्यगुणानाम् अथसर्वे चतुर्गुणाएव कल्प्येरन् ततोऽप्स्वपि गन्धस्योपलब्धिःस्यात् तेजसि गन्धरस्योः, वायौ ग्नधरसरूपाणां, नचैवं दृश्यते तस्मादप्यनुपपन्नः परमाणुकारणवादः” ।एतेनादृष्टस्य सातत्येऽपि कालवशात् नित्यमसमर्थनम् प-रेषामकिञ्चित्करम् महाकालस्यैकत्वेन नियामकत्वाभा-वात् खण्डकालस्य तदानीं क्रियाद्यभावेन विशेषाकत्वा-सम्भवात् क्रियायाः मूर्त्तद्रव्याधीनत्वान्मूर्त्तस्य चावयव-संयोगाधीनत्वेन सर्गोत्तरमेवोत्पत्तेस्तदाऽसत्त्वात् यच्चनिरवयवस्य परमाणोर्दिगवच्छेदेन संयोगसम्भवसमर्थनंतदप्यकिञ्चित्करं नित्यायादिशस्तदवच्छेदकत्वासम्भवात्दिग्विभागस्यैवावच्छेदकत्वस्य लोके दृष्टत्वात् दिग्विभा-जकस्य चावयवभेदस्य परमाणोरसम्भवेन तत्त्वायोगात् किञ्च “षट्केन युगपद्योगात् परमाणोःषडंशतेत्यापत्तिश्च तथाहि दिगवच्छेदेन संयोगे हिपूर्व्वादिचतुर्द्दिग्भेदेन ऊर्द्धाधोदिग्भेदेन षट्सु दिक्षुविनिगमनाभावेन युगपद्यीगापत्त्या परमाणोः पडं-शतापत्तिस्तेन निरवयवत्वं तस्य सिध्येत् वस्तुतः प्रा-च्यादिव्यवहारस्य उदयगिर्य्यादिसम्बन्धाधीनत्वेन तस्य चसर्गोत्तरकालीनतया तदानीं तद्व्यवहारः सर्वथा नसम्भवत्येवेति दिगवच्छेदेन परेषां संयोगकल्पनं सर्व्वथाऽयुक्तमेव अधिकम् अवयविशब्दे ४३३ पृष्ठादौ दृश्यम्