| YouTube Channel

आरम्भणम् (ArambhaNam)

 
Apte
English
आरम्भणम् [ārambhaṇam], [आ-रभ् ल्युट् मुम्]
Taking hold of, seizing.
The place of seizing, a handle
Forming, making
तदनन्यत्वमारम्भणशब्दादिभ्यः Br. Sūtra 2.
Apte Hindi
Hindi
आरम्भणम्
नपुं*
- आ+रभ्+ल्युट् मुम्
"काबू में करना, पकड़ना"
आरम्भणम्
नपुं*
- आ+रभ्+ल्युट् मुम्
"पकड़ने का स्थान, दस्ता, बींटा"
E Bharati Sampat
Sanskrit
(वि) आ+रभ(राभस्ये)+ल्युट् | ‘ल्युट् च’ ‘ल्युट् च’ ३.३.११५।। १.प्रारम्भः। २.प्रयत्नः। ३.प्रस्तावना ४.गर्वः। आरभ्यतेऽनेन आ+रभ+ल्युट् ‘करणाधिकरणयोश्च’ ३.३.११७। ५.उपादानकारणम्
कृदन्तरूपमाला
Sanskrit
1 {@“रभ राभस्ये”@} 2 राभस्यम् = कार्योपक्रमः।
अयं प्रायेण आङ्पूर्वक एव प्रयुज्यते।
3 4 आरम्भकः-म्भिका, 5 रम्भकः-म्भिका, 6 रिप्सकः-प्सिका, रारभकः-भिका
7 आरब्धा-ब्ध्री, रम्भयिता-त्री, रिप्सिता-त्री, रारभिता-त्री
-- रम्भयन् न्ती, रम्भयिष्यन्-न्ती-ती
-- 8 आरभमाणः, 9 आरभमाणः, रम्भयमाणः, रिप्समानः, रारभ्यमाणः, रप्स्यमानः, रम्भयिष्यमाणः, रिप्सिष्यमाणः, रारभिष्यमाणः
सुरप्-सुरभ्-सुरभौ-सुरभः
-- -- आरब्धम्-ब्धः, रम्भितम्-तः, रिप्सितम्, रारभितम्-तः-तवान्
10 11 रम्भः-रम्भा, 12 साध्वारम्भी, रम्भः, रिप्सुः, 13 रारम्भः
आरब्धव्यम्, आरम्भयितव्यम्, रिप्सितव्यम्, रारभितव्यम्
आरम्भणीयम्, आरम्भणीयम्, रिप्सनीयम्, रारभणीयम्
14 आरभ्यम्, आरम्भ्यम्, रिप्स्यम्, रारभ्यम्
ईषद्रम्भः-दूरम्भः-सुरम्भः
-- -- -- आरभ्यमाणः, आरम्भ्यमाणः, रिप्स्यमानः, रारभ्यमाणः
आरम्भः, आरम्भः, रिप्सः, रारभः
आरब्धुम्, आरम्भयितुम्, रिप्सितुम्, रारभितुम्
रब्धिः, आरम्भणा, रिप्सा, रारभा
आरम्भणम्, आरम्भणम्, रिप्सनम्, रारभणम्
रब्ध्वा, रम्भयित्वा, रिप्सित्वा, रारभित्वा
आरभ्य, आरम्भ्य, आरिप्स्य, आरारभ्य
रम्भम् २, रब्ध्वा २, रम्भम् २, रम्भयित्वा २, रिप्सम् २, रिप्सित्वा २, रारभम्
रारभित्वा
15 इत्यसच्प्रत्यये रूपम्।
बाहुलकात्, ‘राभस्ये’ इति निर्देशाद्वा नुम् न।]] रभसः।
प्रासङ्गिक्यः
01
=>
(१३७८)
02
=>
(१-भ्वादिः-९७४। अक। अनि। आत्म।)
03
=>
[पृष्ठम्११०२+ २८]
04
=>
[[१। ‘रभेरशब्लिटोः’ (७-१-६३) इति, अजादिषु प्रत्ययेषु शब्लिड्वर्जं नुमागमः। एवमेव घञादिष्वपि ज्ञेयम्। “काशकृत्स्नधातुपाठीयकन्नडटीकायां रभकः रभः, रभमाणः, रभणीयम् इत्यादिप्रयोगेषु नुमोऽदर्शनात् वस्तुतः सानुषङ्गाः आरम्भः, आरम्भणम्… इत्येवमादयः प्रयोगाः रभधातोः, किं तर्हि? सानुषङ्गस्य रम्भधातोः…” इत्यादिकं क्षीरतरङ्गिणीटिप्पणे (पुटे १५१) सुदूरं विचारितम्। तत्र पाणिनीयधातुपाठकोशेषु कुत्रापि सानुषङ्गस्य रम्भधातोरुल्लेखाभावात् प्रमाणं मृग्यमिति बोध्यम्। ‘रेभृ शब्दे’ इति भौवा- दिकस्य धातोः दुर्गसम्मतं ‘रभि शब्दे’ इति पाठमाश्रित्य निर्वाहं केचित् कुर्वन्ति। तदपि दुर्गान्यैस्तत्पाठानादरात् प्रमाणमिति बोध्यम्।]]
05
=>
[[२। ण्यन्ते ण्वुलि, ‘अत उपधायाः’ (७-२-११६) इति प्राप्तां परामपि वृद्धिं बाधित्वा, ‘रभेरशब्लिटोः’ (७-१-६३) इति नुम् नित्यत्वाद्भवति।]]
06
=>
[[३। सन्नन्ते, ‘सनि मीमाघुरभ--’ (७-४-५४) इत्यादिना इस्। ‘अत्र लोपोऽ- भ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘स्कोः--’ (८-२-२९) इति सलोपः। भकारस्य चर्त्वेन पकारः।]]
07
=>
[[४। तृजादिषु ‘झषस्तथोः--’ (८-२-४०) इति धत्वे, जश्त्वे रूपमिति ज्ञेयम्।]]
08
=>
[[५। शानचि, ‘रभेरशब्लिटोः’ (७-१-६३) इत्युक्तत्वात् नुमागमो न। यस्तु परि- भाषेन्दुशेखरे ‘गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः’ (परिभाषा १६) इत्यत्र, “…संज्ञाभूतानां प्रतिषेधम् आरभता वार्तिककृता…” इति वाक्ये, आत्मनेपदस्यास्य धातोः शत्रन्तप्रयोगः प्रयुक्तः, तु सम्पातायात इति तावता धातोरस्योभयपदित्वं कल्प्यम्। ‘अनुदात्तेत्त्वलक्षणमात्मनेपदम् अनित्यम्’ (परि। ९७) इति वचनात् आत्मनेवदस्यानित्यत्वात् ‘आरभता’ इति प्रयोगः सूपपन्न इति वाच्यम्। तस्याः परिभाषायाः भाष्याद्यनादृतत्वेनाप्रामाण्यस्य नागेशभट्टैरेव समर्थितत्वादित्यन्यत्र विस्तरः। ‘भोक्तुम् आरभमाणः’ इत्यत्र, ‘शकधृषज्ञाग्लाघटरभ--’ (३-४-६५) इत्यादिना धातुमात्रात् तुमुन्।]]
09
=>
[भोक्तुम्]
10
=>
[पृष्ठम्११०३+ २६]
11
=>
[[१। पचाद्यचि नुमि रम्भः। स्त्रियां टापि रम्भा = अप्सरोविशेषः, कदली च।]]
12
=>
[[२। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः।]]
13
=>
[[३। यङन्तात् पचाद्यचि, यङो लुकि नुमागमे रूपमेवम्।]]
14
=>
[[४। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्ययः। हलन्तलक्षणण्यतोऽपवादः।]]
15
=>
[[५। ‘अत्यविचमितमिरभि--’ [द। उ। ९-४४]