| YouTube Channel

आरब्धं (ArabdhaM)

 
शब्दकल्पद्रुमः
Sanskrit
आरब्धं, त्रि, (आङ् + रभ् + क्तः ।) कृतारम्भं आरम्भेक्ली यथा, --“आरब्धं मलमासात् प्राक् यत् कर्म्म समापितं ।आगते मलमासेऽपि तत् समाप्यं संशयः”
इति मलमासतत्त्वं
*
आरब्धकर्म्मण्यशौचा-भावो यथा, --“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे ।आरब्धे सूतकं स्यादनारब्धे तु सूतकं”
इति तिथ्यादितत्त्वं