आरब्ध (Arabdha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishआरब्ध [ārabdha], p. p. Begun, commenced
आरब्धे हि सुदुष्करे$पि महतां मध्ये विरामः कुतः Subh. Ratn. -ब्धम् Beginning.
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaआरब्ध
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಪ್ರಾರಂಭಿಸಲ್ಪಟ್ಟ /ಉಪಕ್ರಮಿಸಲ್ಪಟ್ಟ
निष्पत्तिः - > आ + रभ (राभत्स्ये) - "क्तः" (३-२-१०२)
प्रयोगाः - > "व्रतयज्ञविवाहेषु श्राद्धे होमेऽएचने जपे । आरब्धे सूतकं न स्यात् अनारब्धे तु सूतकम् ॥"
Wordnet
Sanskrit आरब्ध, आत्त, उपात्त, प्रकृत, प्रक्रान्त, समुपारब्ध, समुद्यत, प्रस्तुत, प्रतिपन्न
यस्य आरम्भः कृतः अस्ति तथा च यः प्रचलति।
"कस्माद् अपि व्यवधानात् आरब्धं कार्यं आरमत्।"
शब्दकल्पद्रुमः
Sanskritआरब्धं, त्रि, (आङ् + रभ् + क्तः ।) कृतारम्भं । आरम्भेक्ली । यथा, --“आरब्धं मलमासात् प्राक् यत् कर्म्म न समापितं ।आगते मलमासेऽपि तत् समाप्यं न संशयः” ॥
इति मलमासतत्त्वं ॥
* ॥
आरब्धकर्म्मण्यशौचा-भावो यथा, --“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे ।आरब्धे सूतकं न स्यादनारब्धे तु सूतकं” ॥
इति तिथ्यादितत्त्वं ॥
वाचस्पत्यम्
Sanskritआरब्ध आ + रभ--क्त । कृतारम्भणे “प्रारब्धादन्य-कार्य्याणां करणं परिवर्त्तकः” सा० द० “अनारब्धकार्य्येएव तु” इत्यादि शा० सू० । यस्य कियदंशं कर्त्तुमारेभेतादृशः पदार्थः आरब्धः । भावे क्त । २ आरम्भे “व्रतय-ज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे । आरब्धे सूतकं न स्याद-नारब्धेतु सूतकम्” तिथि० त० विष्णुः ।आरब्धफलयोः सुकृतदुष्कृतयोः तत्त्वज्ञानोत्पत्तावपियावत्फलसमाप्ति न नाशः इत्येतत् शा० सू० भा० स्थिरीकृतम्यथा “बन्धहेत्वोर्विद्यासामर्थ्यादशेषविनाशसिद्धेरवश्यं भावि-नी विदुषः शरीरपाते मुक्तिरित्यवधारयति । “अनारव्वकार्य्येएव तु पूर्व्वे तदवधि” शा० सू० “पूर्व्वयोरधिकर-णयोर्ज्ञाननिमित्तः सुकृतदुस्कृतयोर्विनाशोऽवधारितःसकिमविशेषेणारब्धकार्य्ययीर्भवत्युत विशेषेणानारब्धकार्य्य-योरेवेति विचार्य्यते तत्र “उभे हैवैष एतेन तरतीत्येव-मादि” शुतावविशेषश्रवणादविशेषेणैव क्षयैत्येवंप्राप्तेप्रत्याह अनारब्धकार्य्ये एव त्विति । अप्रवृत्तफलेएव पूर्व्वे जन्मान्तरसञ्चिते, अस्मिन्नपि च जन्मनिप्राक्ज्ञानोत्पत्तेः सञ्चिते च सुकृतदुस्कृते ज्ञानाधिगमात्क्षीयेते नत्वारब्धकार्य्ये सामिभक्तफले, याभ्यामेतद्ब्रह्म-ज्ञानायतनंजन्मनिर्मितम् । कुतएतत्? “तस्य तावदेव चिरंयावन्न विमोक्ष्य इति” शरीरपानावधिकरणात् क्षेमप्राप्तेः ।इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात्ज्ञानप्राप्त्यनन्तरमेव क्षेमश्नुवीत तत्र शरीरपातप्रतीक्षां ना-चक्षीत । ननु वस्तुबलेनैवायमकर्त्रात्मबोधः कर्म्माणि-क्षपयन् कथं कानिचित् क्षपयेत् कानि चिच्चोपेक्षेतनहि समानेऽग्निवीजसम्पर्के केषाञ्चिद्वीजशक्तिः क्षीयतेकेषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्त्तुमिति, उच्यतेन तावदनाश्रित्यारब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यते । आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेग-स्यान्तराले प्रतिबन्धासम्भवाद्भवति वेगक्षयप्रतिपालनम् ।अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्म्माण्यु-च्छिनत्ति । बाधितमपि मिथ्याज्ञानं द्विचन्द्रज्ञानवत्संस्कारवशात् कञ्चित् कालमनुवर्त्ततएव । अपि चनैवात्र विवदितव्यं ब्रह्मविदां कञ्चित् कालं शरीरं ध्रियतेन ध्रियत इति । कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनंदेहधारणञ्चापरेण प्रतिक्षेप्तुंशक्येत । श्रुतिस्मृतिषु चस्थितप्रज्ञलक्षणनिर्द्देशेनैतदेव निरुच्यते । तस्मादनारब्धकार्य-योरेव सुकृतदुष्कृतयोविर्द्यासामर्थ्यात् क्षय इति निर्णयः”भा० । “चक्रभ्रमणवद्धृतशरीरः” सांख्यसूत्रेण फलजनकस्यकर्मणोनाशेऽपि चक्रजन्यवेगस्य चक्रनाशेऽपि स्थितिवत्देहरूपस्य कर्मफलस्य संस्कारात्मना स्थितिरित्यवधारितम् ।यथा च आरब्धफलस्य कर्म्मणो यावदधिकारस्थितिस्तथानिर्ण्णीतं शा० सू० भा० ३ अ० ३ पादे यथा “यावदधि-क्वारमवस्थितिराधिकारिकाणाम्” शा० सू० “विदुषो वर्त्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते न वेति चिन्त्यते ।ननु विद्यायाः साधनभूतायाः सम्पत्तौ कैवल्यनिर्वृत्तिःस्यान्नवेति नेयं चिन्तोपपद्यते । न हि पाकसाधनसम्पत्ता-वोदनोभवेन्नवेति चिन्ता सम्भवति नापि भुञ्जानस्तृप्यतिन वेति चिन्त्यते । उपपन्ना त्वियं चिन्ता ब्रह्मविदामपिकेषाञ्चिदितिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् । तथा-ह्यपान्तरतमा नाम वेदाचार्य्यः पुराणर्षः विष्णुनियोगात् कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः सम्ब-भूवेति स्मरन्ति । वशिष्ठश्च ब्रह्मणोमानसः पुत्रः सन्-निमिशापादपगतपूर्व्वदेहः पुनर्व्रह्मादेशान्मित्रावरुणाभ्यां, भूग्वादीनामपि ब्रह्मण एव मानसानां उत्राणां वारुणेयज्ञे पुनरुत्पत्तिः स्मर्य्यते । सनत्कुमारोऽपि व्रह्मणएव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वे-न प्रादुर्बभूव । एवमेव दक्षनारदप्रभृतीनामपि भूयसीदेहान्तरोत्पत्तिकथा तेन तेन निमित्तेन भवति स्मृतौ, श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलक्ष्यते । ते च क्वचित्पतिते पूर्व्वदेहे देहान्तरमाददते, क्वचित्तु स्थितएव तस्मिन्योगैश्वर्य्य वशादनेकदेहादानन्यायेन । सर्वे चैते समधिगत-सकलवेदार्थाः स्मर्य्यन्ते । तदेतेषां देहान्तरोत्पत्ति-दर्शनात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्व-महेतुत्वं वेत्यत उत्तरमुच्यते । न, तेषामपानतरतमः प्रभृ-तीनां वेदप्रवर्त्तनादिकलोकस्थितिहेतुष्वधिकारेषु नियुक्ता-नामधिकारतन्त्रव्वात् स्थितेः । यथासौ भगवान्सविता सहस्रयुगपर्य्यन्तं जगतोऽधिकारं चरित्वा तदवसानेउदयास्तमयवर्जितं कैवल्यमनुभवति “अथात ऊर्द्धंउदेत्य नैवोदेता नास्तमेतैकलएव मध्ये स्थातेति” श्रुतेः ।यथा च वर्त्तमाना व्रह्मविदः प्रारव्यभोगक्षये कैवल्यमनुभवन्ति “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य”इति एवमपान्तरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषुतेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शनेकैवल्यहेतावक्षीणकर्माणो यावदधिकारमवतिष्ठन्ते तदव-साने चापवृज्यन्त इत्यविरुद्धम् । सकृत्प्रवृत्तमेव हि तेऽधि-कारफलदानाय कर्माशयमतिवाहयन्तः स्वातन्त्र्येणगृहादिव गृहान्तरमन्यमन्यं देहं सञ्चरन्तः स्वाधिका-रनिर्वर्त्तनायापरिमुषितस्मृतयएव देहेन्द्रियप्रकृतिवशि-त्वान्नियामकबलेन युगपत् क्रमेण वाऽधितिष्ठन्ति! नचैतेजातिस्मरा इत्युच्यन्ते तएव त इति स्मृतिप्रसिद्धेः । यथासुलभा बह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वंदेहं, जानकं देहमाविश्य व्युद्य तेन, पश्चात्तं स्वमाविवेशेति स्मर्य्यते । यदि ह्युपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मा-न्तरं देहान्तरारम्भकारणमाविर्भवेत् ततोऽन्यदप्यदग्धवीजं कर्म्मान्तरं तद्वदेव प्रसज्यतेति ब्रह्मविद्यायाः पाक्षिकंमोक्षहेतुत्वमहेतुत्वं वाशङ्क्येत न तवेयमाशङ्का युक्ताज्ञानात् कर्म्मवीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् । तथा हिश्रुतिः “भिद्यते हृदयग्रन्थिरित्येवमादिः” “स्मृतिलम्भे च सर्वग्रन्थीनां विप्रमोक्ष” इति च । स्मृतिरपि “यथैधांसि समि-द्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन! । ज्ञानाग्निः सर्व्वकर्म्माणिभस्मसात् कुरुतेतथेति” । “वीजान्यग्न्यपदग्धानि न रोहन्तियथा पुनः । ज्ञानदग्धैस्तथाक्लेशैर्नात्मा सम्पाद्यते पुन-रिति” चैवमाद्या । नचाविद्यादिक्लेशदाहे सति क्लेशवीजस्य कर्माशयस्यैकदेशदाहएकदेशप्ररोहश्चेत्यृपपद्यते नह्यग्निदग्धस्य शालिवीजस्यैकदेशप्ररोहो दृश्यते । प्रवृत्त-फलस्य तु कर्माशयस्य मुक्ते शरीरवेगक्षयान्निवृत्तिः “तस्यतावदेव चिरमिति” शरीरपातक्षेपकरणात् । तस्मादुप-पन्ना यावदधिकारमाधिकारिकाणामवस्थितिः” भा० ।अतएव वाचस्पत्ये उक्तम् “उपासनादिसंसिद्धितोषिते-श्वरनोदितम् । अधिकारं समाप्यैव प्रविशन्ति परं पदम्”३ अवरुद्धे “ध्वान्तं घनारब्धमिवार्द्धरात्रः” किरा० ।“घनारब्धम् मेघावरुद्धम्” मल्लि० । घनारुद्धैत्येव ज्यायान्पाठः तेनास्य अवरुद्धार्थकत्वे प्रमाणाभावेऽपि न क्षतिरिति
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
