| YouTube Channel

आरग्वध (Aragvadha)

 
Yates
English
आ-रग्व_ध (धः) 1.
m.
A plant, (Cas-
sia fistula.)
Spoken Sanskrit
English
आरग्वध - Aragvadha -
m.
- golden shower tree [ Cathartocarpus Fistula - Bot. ]
आरग्वध - Aragvadha -
n.
- its fruit
Wilson
English
आरग्वध
m.
(-धः) A plant, (Cassia fistula.)
E.
आङ्, रुज् sickness, बध what destroys.
Apte
English
आरग्वधः [āragvadhḥ], The tree Cassia Fistula (Mar. बाहवा) largely used in medicinal recipes. -धम् Its fruit.
Apte 1890
English
आरग्वधः The tree Cassia Fistula (Mar. बाहवा) largely used in medicinal recipes.
धं Its fruit.
Monier Williams Cologne
English
आरग्-वध
m.
the tree Cathartocarpus (Cassia) Fistula,
Bhpr.
Suśr.
आरग्-वध
n.
its fruit,
Suśr.
Shabdartha Kaustubha
Kannada
आरग्वध
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಕ್ಕೆ ಗಿಡ
विस्तारः - > "आरग्वधे राजवृक्षशम्याकचतुरङ्गुलाः" - अम०
आरग्वध
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕಕ್ಕೆ ಕಾಯಿ
अभिधानचिन्तामणिः
Sanskrit
--source--
आरग्वधः कृतमाले वृषो वासाटरूषके
-wordlist-
आरग्वध (पुं), कृतमाल (पुं), वृष (पुं), वासा (स्त्री), आटरूष (पुं)
अभिधानरत्नमाला
Sanskrit
आरग्वध
आरग्वध, कृतमाल, स्वर्णपुष्पी
आरग्वधः कृतमालः स्वर्णपुष्पी कथ्यते १९८
verse 2.1.1.198
page 0025
शब्दकल्पद्रुमः
Sanskrit
आरग्वधः,
पुं,
(आ + रगे शङ्कायां क्विप आरगरोगशङ्कामपि हन्ति अच् बधादेशश्च ।) वृक्ष-विशेषः सोनालु सोँदालि इति ख्यातः तत्-पर्य्यायः राजवृक्षः सम्पाकः चतुरङ्गुलः ४आरेवतः व्याधिघातः कृतमालः सुव-र्णकः इत्यमरः
मन्थानः रोचनः १० दीर्घ-फलः ११ नृपद्रुमः १२ हिमपुष्पः १३ राजतरुः १४कण्डुघ्नः १५ ज्वरान्तकः १६ अरुजः १७ स्वर्ण-पुष्पः १८ स्वर्णद्रुः १९ कुष्ठसूदनः २० कर्णा-भरणकः २१ महाराजद्रुमः २२ कर्णिकारः २३स्वर्णाङ्गः २४ इति राजनिर्घण्टः
प्रग्रहः २५ ।इति रत्नमाला
अस्य गुणाः अतिमधुरत्वं ।शीतलत्वं शूलज्वरकण्डुकुष्ठमेहकफविष्टम्भना-शित्वञ्च इति राजनिर्घण्टः
अपि ज्वर-हृद्रोगवातरक्तोदावर्त्तरोगे अतिशयपथ्यत्वं मृदु-त्वञ्च अस्य फलगुणाः मधुरत्वं शुक्रकारित्वं ।वातपित्तहारित्वञ्च इति राजवल्लभः
आमल-तास इति हिन्दीभाषा ।“आरग्वधो राजकृक्षः सम्पाकश्चतुरङ्गुलः ।आरेवतव्याधिघातकृतमालसुवर्णकाः
कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः ।आरग्वधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः
ज्वरहृद्रोगपित्तास्रवातोदावर्त्तशूलनुत् ।तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहं
ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परं” ।इति भावप्रकाशः
(व्यवहारो यथा, --“बाले वृद्धे क्षते क्षीणे सुकुमारे मानवे ।योज्योमृद्वलपायित्वाद्विशेषाच्चतुरङ्गुलः” *
ग्रहणप्रणाली यथा
*
“फलकाले फलन्तस्य ग्राह्यं परिणतञ्च यत् ।तेषां गुणवतां भारं सिकतासु निधापयेत्
सप्तरात्रात् ससुद्धृत्य शोषयेदातपे मिषक् ।ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत्” *
संयोगविशेषे गुणा यथा
*
“द्राक्षारसयुतो देयो दाहोदावर्त्तपीडिते ।चतुर्व्वर्षसुखं बाले यावद्द्वादशवार्षिके *
चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाथवाञ्जलिं ।सुरामण्डेन संयुक्तमथवा कोलसीधुना
दधिमण्डेन वा युक्तंरसेनामलकस्य वा ।कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा”
इति चरकः
)