| YouTube Channel

आयुष्यसूक्त (AyuSyasUkta)

 
शब्दकल्पद्रुमः
Sanskrit
आयुष्यसूक्तं,
क्ली,
(आयुष्यञ्च तत्सूक्तञ्चेति कर्म्म-धारयः ।) नान्दीश्राद्धादौ वसुधारासम्पातनान-न्तरपाठ्यो वैदिकमन्त्रविशेषः ।सामगानां तन्मन्त्रो यथा, --ओँ आयुर्विश्वायुर्विश्वं विश्वमायुरसिमहि प्रजा-न्त्वष्टरधिनिधेह्यस्मै शतं जीवेम शरदो वयन्ते ।आयुषे मे पवस्व वर्च्चसे मे पवस्व विदुः पृथिव्यादिवो जनित्र्या शृण्वन्त्वापोधःक्षरन्ती सोमोहोद्गाय ममायुषे मम ब्रह्मवर्च्चसाय यजमान-स्यर्द्ध्या अमुष्य राज्याय अमुष्य स्थाने यदर्थं वृद्धि-स्तस्य षष्ट्यन्तनाम प्रयोज्यं इति रघुनन्दनभट्टा-चार्य्यकृतश्राद्धप्रयोगतत्त्वं
*
यजुर्विदां तन्मन्त्रो यथा, --ओँ आयुष्यं वर्च्चस्यं रायष्पोषमौद्भिदं इदं हिरण्यंवर्च्चस्व जेत्रायाविशतादुमां तद्रक्षांॱᳪ᳭सि नपिशाचास्तरन्ति वेदानामोजः प्रथमजंॱᳪ᳭ ह्येतत् ।यो बिभर्त्ति दाक्षायण्यंॱᳪ᳭ हिरण्यंॱᳪ᳭ सहदेवेषुकृणुते दीर्घमायुः समनुष्येषु कृणुते दीर्घमायुः ।यदा बध्रान्दाक्षायणांॱᳪ᳭ हिरण्यंॱᳪ᳭ शतानीकायसुमनस्यमानाः तन्न आवध्रामि शतसारदयायुष्माञ्जरदष्टिर्यथासं” इति तत्कृतयजुर्व्वेदीय-श्राद्धप्रयोगतत्त्वं
वाचस्पत्यम्
Sanskrit
आयुष्यसूक्त
न०
कर्म्मधा० “आयुष्मानिति शान्त्यर्थं जप्त्वातत्र समाहितः” छ० प० उक्ते “आभ्युदयिकश्राद्धादिषुजप्येसूक्तभेदे तच्च सूक्तम् “आयुर्विश्वायुर्विश्वमायुरसीमहि ।प्रजान्त्वष्टधार निधेह्यस्मै शतं जीवेम शरदां वयन्ते ।आयुषे पवस्व वर्च्चसे मे पवस्व विदुः पृथिव्या दिषोजनि-त्र्याः शृण्वन्त्वापोऽध्यक्षरन्ती सोमोहोद्माय ममायुषेमम ब्रह्मवर्चसाय यजमानस्यार्द्ध्या अमुष्य शाज्याय” भव-देवभट्टधृतम् अत्रामुष्ये यत्र षष्ठ्यन्तं संस्कार्य्यनामोल्लेख्यम् ।सामवेदिनाञ्चैतत् पाठ्यं वेदभेदेऽन्यदाकरे ज्ञेयम्