आयुर्व्वेदः (AyurvvedaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritआयुर्व्वेदः, (आयुरनेन विन्दति वेत्ति वेत्यायुर्व्वेदः ।आयस् + विद् + करणे घञ् ।) अष्टादशविद्या-न्तर्गतधन्वन्तरिप्रणीतविद्याविशषः । वैद्यकशास्त्रं ।चिकित्साशास्त्रं । तत्तु अथर्व्ववेदान्तर्गतं । यथा, “विधाताथर्व्वसर्व्वस्वमायुर्व्वेदं प्रकाशयन् ।स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुं” ॥
इति भावप्रकाशः ॥
चरणव्यूहमते ऋग्वेदस्योपवेदः आयुर्व्वेदः । अथ-र्व्ववेदस्य शस्त्रशास्त्राण्युपवेदः ॥
* ॥
अथायुर्व्वेदस्यविवरणम् ।“ऋग्यजुःसामाथर्व्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः ।विचिन्त्य तेषामर्थं चैवायुर्व्वेदं चकार सः ॥
कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः ।स्वतन्त्रसंहितां तस्मात् भास्करश्च चकार सः ॥
भास्करश्च स्वशिष्येभ्य आयुर्व्वेदं स्वसंहितां ।प्रददौ पाठयामास ते चक्रुः संहितास्ततः ॥
तेषां नामानि विदुषां तन्त्राणि तत्कृतानि च ।व्याधिप्रणाशवीजानि साध्वि मत्तो निशामय ॥
धन्वन्तरिर्द्दिवोदासः काशीराजोऽश्विनीसुतौ ।नकुलः सहदेवोऽर्किश्च्यवनो जनको बुधः ॥
जावालो जाजलिः पैलः करथोऽगस्त्य एव च ।एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥
चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोरमम् ।धन्वन्तरिश्च भगवान् चकार प्रथमे सति ॥
चिकित्सादर्पणं नाम दिवोदासश्चकार सः ।चिकित्साकौमुदीं दिव्यां काशीराजश्चकार सः ॥
चिकित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ ।तन्त्रं वैद्यकसर्व्वस्वं नकुलश्च चकार सः ॥
चकार सहदेवश्च व्याधिसिन्धुविमर्द्दनं ।ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः ॥
च्यवनो जीवदानञ्च चकार भगवानृषिः ।चकार जनको योगी वैद्यसन्देहभञ्ञनं ॥
सर्व्वसारं चन्द्रसुतो जावालस्तन्त्रसारकं ।वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः ॥
पैलो निदानं करथस्तन्त्रं सर्व्वधरं परं ।द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः ॥
चिकित्साशास्त्रवीजानि तन्त्राण्येतानि षोडशव्याधिप्रणाशवीजानि बलाधानकराणि च ॥
मथित्वा ज्ञानमन्थानैरायुर्व्वेदपयोनिधिं ।ततस्तन्त्राण्युज्जहरुर्नवनीतानि कोविदाः ॥
एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहितां ।आयुर्व्वेदं सर्व्ववीजं सर्व्वं जानामि सुन्दरि ॥
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ।एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥
आयुर्व्वेदस्य विज्ञाता चिकित्सासु यथार्थवित् ।धर्म्मिष्ठश्च दयालुश्च तेन वैद्यः प्रकीर्त्तितः” ॥
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥
* ॥
तस्य लक्षणम् यथा, --“आयुर्हिताहितं व्याधिनिदानं शमनं तथा ।विद्यन्ते यत्र विद्वद्भिः स आयुर्व्वेद उच्यते” ॥
तस्य निरुक्तिर्यथा, --“अनेन पुरुषो यस्मात् आयुर्विन्दति वेत्ति च ।तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः” ॥
इति भावप्रकाशः ॥
* ॥
अन्यत् रोगशब्दे वेद-शब्दे वैद्यशब्दे च द्रष्टव्यम् ॥
(“हिताहितं सुखं दुःखमायुस्तस्य हिताहितं ।मानञ्च तच्च यत्रोक्तमायुर्व्वेदः स उच्यते” ॥
“तस्यायुषः पुण्यतमो वेदो वेदविदां मतः ।वक्ष्यते यन्मनुष्याणां लोक्रयोरुभयोर्हितः” ॥
“किमायु कस्मादायुर्व्वेदः किञ्चायुर्व्वेदः शाश्वतोऽशाश्वत इति । कानि चास्याङ्गानि कैश्चायमध्ये-तव्यः किमर्थञ्चेति” ।“तत्र भिषजा पृष्टेनैवञ्चतुर्णामृक्सामयजुरथर्व्व-वेदानामात्मनोऽथर्ब्बवेदे भक्तिरादेश्या वेदोह्या-थर्व्वणः स्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चि-त्तोपवासमन्त्रादिपरिग्रहाच्चिकित्सां प्राह चि-कित्सा चायुषो हितायोपदिश्यते बेदञ्चोपदि-श्यायुर्वाच्यं तत्रायुश्चेतनाप्रवृत्तिजीवितमनुबन्धो-धारि चेत्येकोऽर्थः, तदा आयुर्व्वेदयत्यायुर्व्वेदः कथ-मुच्यते स्वलक्षणतः सुखासुखतो हिताहिततःप्रमाणाप्रमाणतश्च यतश्चायुष्यानायुष्याणि द्रव्य-गुणकर्म्माणि वेदयत्यतोऽप्यायुर्व्वेदः तत्रायुष्याणिअनायुष्याणि च द्रव्यगुणकर्म्माणि केबलेनोप-देक्ष्यन्ते” ।“तानिन्द्रः सहस्रदृगमरगुरुवरोऽब्रवीत् स्वागतंब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणामस्ति भुवो-ग्लानिरप्रभावत्वं वैस्वर्य्यं वैवर्ण्यञ्च ग्राम्यवासकृत-मसुखमसुखानुबन्धं च । ग्राम्यो हि वासो मूल-मशस्तानां तत्कृतं पुण्यकृद्भिरनुग्रहः प्रजानांस्वशरीरमरक्षिभिः कालश्चायमायुर्व्वेदोपदेशस्यब्रह्मर्षीणामात्मनः प्रजानाञ्चानुग्रहार्थमायुर्व्वेद-मश्विनौ मह्यं प्रयच्छतां प्रजापतिरश्विभ्यां ।प्रजापतये ब्रह्मा प्रजानामल्पमायुर्ज्जराव्याधि-बहुलमसुखमसुखानुबन्धं अल्पत्वादल्पतपोदम-नियमदानाध्ययनसञ्चयं मत्वा पुण्यतममायुः-प्रकर्षकरं जराव्याधिप्रशमनं ऊर्ज्जस्करममृतंशिवं शरण्यमुदात्तं भवन्तो मत्तः श्रोतुमर्हन्त्युप-धारयितुं प्रकाशयितुञ्च प्रजानुग्रहार्थमार्षं ब्रह्मच मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारंब्राह्ममक्षयं कर्म्मेति” । इति चरकः ॥
“तानुवाच भगवान् स्वागतं वः । सर्व्वत्र वामीमांस्या अध्याप्याश्च भवन्तो वत्साः ! इहखल्वायुर्व्वेदो नाम यदुपाङ्गमथर्व्ववेदस्यानुत्पाद्यवप्रजाः श्लोकशतसहस्रमध्यायसहस्रञ्च कृतवान् स्व-यम्भूः । ततोऽल्पायुष्ट्वमल्पमेधस्त्वञ्चावलोक्य नराणांभूयोऽष्टधा प्रणीतवान् ॥
तद्यथा ॥
शल्यं शालाक्यंकायचिकित्सा भूतविद्या कौमारमृत्यमगदतन्त्रंरसायनतन्त्रं वाजीकरणतन्त्रमिति” ॥
“वत्स ! सुश्रुत ! इह खल्वायुर्व्वेदप्रयोजनं व्या-ध्युपसृष्टानां व्याधिपरिमोक्षः स्वस्थस्य रक्षणञ्च ।आयुरस्मिन् विद्यतेऽनेन वा आयुर्विन्दतीत्यायु-र्वेदः । तस्याङ्गवरमाद्यमागमप्रत्यक्षानुमानोपमानै-रविरुद्धमुच्यमानमुपधारय । एतद्ध्यङ्गं प्रथमंप्रागभिघातव्रणसंरोहादयज्ञशिरःसन्धानाच्च” ।“तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्ति-करञ्चेति” ॥
“ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे तस्मा-दश्विनावश्विभ्यामिन्द्र इन्द्रादहं मया त्विह प्रदेय-मर्थिभ्यः प्रजाहितहेतोः” ॥
इति सुश्रुतः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
