| YouTube Channel

आयुर्वेद (Ayurveda)

 
शब्दसागरः
English
आयुर्वेद
m.
(-दः)
1. The science of medicine.
2. The collective writings
of authority on medicine, or medical Sastra.
E.
आयुस् life, and वेद
a Veda.
Capeller Eng
English
आयुर्वेद
m.
the science of health
T. of a book on
medicine.
Yates
English
आयु-र्वेद (दः) 1.
m.
Medical science.
Spoken Sanskrit
English
आयुर्वेद - Ayurveda -
m.
- science of medicine
आयुर्वेद - Ayurveda -
m.
- science of health or medicine
आयुर्वेद - Ayurveda -
m.
- medicine
आयुर्वेद - Ayurveda -
m.
- science of health
पशु - आयुर्वेद - pazu - Ayurveda -
m.
- veterinary medicine
Wilson
English
आयुर्वेद
m.
(-दः)
1 The science of medicine.
2 The collective writings of authority on medicine, or medical Śāstra.
E.
आयस् life, and वेद a Veda.
Monier Williams Cologne
English
आयुर्—वेद
m.
the science of health or medicine (it is classed among sacred sciences, and considered as a supplement of the Atharva-veda
it contains eight departments: 1. Śalya or (removal of) any substance which has entered the body (as extraction of darts, of splinters,
&c.
)
2. Śālākya or cure of diseases of the eye or ear
&c.
by Śalākās or sharp instruments
3. Kāya-cikitsā or cure of diseases affecting the whole body
4. Bhūtavidyā or treatment of mental diseases supposed to be produced by demoniacal influence
5. Kaumāra-bhṛtya or treatment of children
6. Agada-tantra or doctrine of antidotes
7. Rāsāyana-tantra or doctrine of elixirs
8. Vājīkaraṇa-tantra or doctrine of aphrodisiacs,
Suśr.
MBh.
Hariv.
&c.
)
Macdonell
English
आयुर्वेद āyur-veda,
m.
medical science.
Apte Hindi
Hindi
आयुर्वेदः
पुं*
आयुस्-वेदः -
स्वास्थ्य या औषधि-विज्ञान
Shabdartha Kaustubha
Kannada
आयुर्वेद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಆಯಸ್ಸನ್ನು ಕೊಡತಕ್ಕ ಶಾಸ್ತ್ರ /ಆರೋಗ್ಯವನ್ನು ಕಾಪಾಡುವ ಶಾಸ್ತ್ರ
व्युत्पत्तिः - > आयुरस्मिन् विद्यते अस्तीत्यायुर्वेदः, आयुर्विद्यते ज्ञायते अनेनेत्यायुर्वेदः, आयुर्विद्यते विचार्यतेऽनेन , आयुरनेन विन्दति प्राप्नोति इत्यायुर्वेदङ् इति वा
L R Vaidya
English
Ayus-veda {% m. %} the science of health or medicine.
Aufrecht Catalogus Catalogorum
English
आयुर्वेद med. Paris (B 190). L. 390. Bik. 631. Bur-
nell 63^a.
--by Śrīsukhalata. B. 4, 218.
आयुर्वेद {% read %} Burnell 63^b.
Mahabharata
English
Āyurveda (the science of medicine). § 270 (Brahmasabhāv.): II, 11, 442 (Āºtathāshṭāṅgo)
XII, 877, 8133 (ºvido janāḥ), 13137, 13246 (ºvidaḥ).
पुराणम्
English
आयुर्वेद / ĀYURVEDA. It is the science which the sage dhanvantari taught suśruta. This describes all the diseases and the treatment meant for them. Ailments are of four kinds: Śārīrika refers to fever, skin diseases etc., Mānasika refers to those arising out of anger
Āgantuka refers to cuts, wounds and injuries, and sahaja refers to hunger, thirst, old age, etc. (Chapters 279 to 286, agni purāṇa). Refer dhanvantari for more details.
शब्दकल्पद्रुमः
Sanskrit
आयुर्व्वेदः,
पुं,
(आयुरनेन विन्दति वेत्ति वेत्यायुर्व्वेदः ।आयस् + विद् + करणे घञ् ।) अष्टादशविद्या-न्तर्गतधन्वन्तरिप्रणीतविद्याविशषः वैद्यकशास्त्रं ।चिकित्साशास्त्रं तत्तु अथर्व्ववेदान्तर्गतं यथा, “विधाताथर्व्वसर्व्वस्वमायुर्व्वेदं प्रकाशयन् ।स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुं”
इति भावप्रकाशः
चरणव्यूहमते ऋग्वेदस्योपवेदः आयुर्व्वेदः अथ-र्व्ववेदस्य शस्त्रशास्त्राण्युपवेदः
*
अथायुर्व्वेदस्यविवरणम् ।“ऋग्यजुःसामाथर्व्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः ।विचिन्त्य तेषामर्थं चैवायुर्व्वेदं चकार सः
कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः ।स्वतन्त्रसंहितां तस्मात् भास्करश्च चकार सः
भास्करश्च स्वशिष्येभ्य आयुर्व्वेदं स्वसंहितां ।प्रददौ पाठयामास ते चक्रुः संहितास्ततः
तेषां नामानि विदुषां तन्त्राणि तत्कृतानि ।व्याधिप्रणाशवीजानि साध्वि मत्तो निशामय
धन्वन्तरिर्द्दिवोदासः काशीराजोऽश्विनीसुतौ ।नकुलः सहदेवोऽर्किश्च्यवनो जनको बुधः
जावालो जाजलिः पैलः करथोऽगस्त्य एव ।एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः
चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोरमम् ।धन्वन्तरिश्च भगवान् चकार प्रथमे सति
चिकित्सादर्पणं नाम दिवोदासश्चकार सः ।चिकित्साकौमुदीं दिव्यां काशीराजश्चकार सः
चिकित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ ।तन्त्रं वैद्यकसर्व्वस्वं नकुलश्च चकार सः
चकार सहदेवश्च व्याधिसिन्धुविमर्द्दनं ।ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः
च्यवनो जीवदानञ्च चकार भगवानृषिः ।चकार जनको योगी वैद्यसन्देहभञ्ञनं
सर्व्वसारं चन्द्रसुतो जावालस्तन्त्रसारकं ।वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः
पैलो निदानं करथस्तन्त्रं सर्व्वधरं परं ।द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः
चिकित्साशास्त्रवीजानि तन्त्राण्येतानि षोडशव्याधिप्रणाशवीजानि बलाधानकराणि
मथित्वा ज्ञानमन्थानैरायुर्व्वेदपयोनिधिं ।ततस्तन्त्राण्युज्जहरुर्नवनीतानि कोविदाः
एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहितां ।आयुर्व्वेदं सर्व्ववीजं सर्व्वं जानामि सुन्दरि
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ।एतद्वैद्यस्य वैद्यत्वं वैद्यः प्रभुरायुषः
आयुर्व्वेदस्य विज्ञाता चिकित्सासु यथार्थवित् ।धर्म्मिष्ठश्च दयालुश्च तेन वैद्यः प्रकीर्त्तितः”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः
*
तस्य लक्षणम् यथा, --“आयुर्हिताहितं व्याधिनिदानं शमनं तथा ।विद्यन्ते यत्र विद्वद्भिः आयुर्व्वेद उच्यते”
तस्य निरुक्तिर्यथा, --“अनेन पुरुषो यस्मात् आयुर्विन्दति वेत्ति ।तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः”
इति भावप्रकाशः
*
अन्यत् रोगशब्दे वेद-शब्दे वैद्यशब्दे द्रष्टव्यम्
(“हिताहितं सुखं दुःखमायुस्तस्य हिताहितं ।मानञ्च तच्च यत्रोक्तमायुर्व्वेदः उच्यते”
“तस्यायुषः पुण्यतमो वेदो वेदविदां मतः ।वक्ष्यते यन्मनुष्याणां लोक्रयोरुभयोर्हितः”
“किमायु कस्मादायुर्व्वेदः किञ्चायुर्व्वेदः शाश्वतोऽशाश्वत इति कानि चास्याङ्गानि कैश्चायमध्ये-तव्यः किमर्थञ्चेति” ।“तत्र भिषजा पृष्टेनैवञ्चतुर्णामृक्सामयजुरथर्व्व-वेदानामात्मनोऽथर्ब्बवेदे भक्तिरादेश्या वेदोह्या-थर्व्वणः स्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चि-त्तोपवासमन्त्रादिपरिग्रहाच्चिकित्सां प्राह चि-कित्सा चायुषो हितायोपदिश्यते बेदञ्चोपदि-श्यायुर्वाच्यं तत्रायुश्चेतनाप्रवृत्तिजीवितमनुबन्धो-धारि चेत्येकोऽर्थः, तदा आयुर्व्वेदयत्यायुर्व्वेदः कथ-मुच्यते स्वलक्षणतः सुखासुखतो हिताहिततःप्रमाणाप्रमाणतश्च यतश्चायुष्यानायुष्याणि द्रव्य-गुणकर्म्माणि वेदयत्यतोऽप्यायुर्व्वेदः तत्रायुष्याणिअनायुष्याणि द्रव्यगुणकर्म्माणि केबलेनोप-देक्ष्यन्ते” ।“तानिन्द्रः सहस्रदृगमरगुरुवरोऽब्रवीत् स्वागतंब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणामस्ति भुवो-ग्लानिरप्रभावत्वं वैस्वर्य्यं वैवर्ण्यञ्च ग्राम्यवासकृत-मसुखमसुखानुबन्धं ग्राम्यो हि वासो मूल-मशस्तानां तत्कृतं पुण्यकृद्भिरनुग्रहः प्रजानांस्वशरीरमरक्षिभिः कालश्चायमायुर्व्वेदोपदेशस्यब्रह्मर्षीणामात्मनः प्रजानाञ्चानुग्रहार्थमायुर्व्वेद-मश्विनौ मह्यं प्रयच्छतां प्रजापतिरश्विभ्यां ।प्रजापतये ब्रह्मा प्रजानामल्पमायुर्ज्जराव्याधि-बहुलमसुखमसुखानुबन्धं अल्पत्वादल्पतपोदम-नियमदानाध्ययनसञ्चयं मत्वा पुण्यतममायुः-प्रकर्षकरं जराव्याधिप्रशमनं ऊर्ज्जस्करममृतंशिवं शरण्यमुदात्तं भवन्तो मत्तः श्रोतुमर्हन्त्युप-धारयितुं प्रकाशयितुञ्च प्रजानुग्रहार्थमार्षं ब्रह्मच मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारंब्राह्ममक्षयं कर्म्मेति” इति चरकः
“तानुवाच भगवान् स्वागतं वः सर्व्वत्र वामीमांस्या अध्याप्याश्च भवन्तो वत्साः ! इहखल्वायुर्व्वेदो नाम यदुपाङ्गमथर्व्ववेदस्यानुत्पाद्यवप्रजाः श्लोकशतसहस्रमध्यायसहस्रञ्च कृतवान् स्व-यम्भूः ततोऽल्पायुष्ट्वमल्पमेधस्त्वञ्चावलोक्य नराणांभूयोऽष्टधा प्रणीतवान्
तद्यथा
शल्यं शालाक्यंकायचिकित्सा भूतविद्या कौमारमृत्यमगदतन्त्रंरसायनतन्त्रं वाजीकरणतन्त्रमिति”
“वत्स ! सुश्रुत ! इह खल्वायुर्व्वेदप्रयोजनं व्या-ध्युपसृष्टानां व्याधिपरिमोक्षः स्वस्थस्य रक्षणञ्च ।आयुरस्मिन् विद्यतेऽनेन वा आयुर्विन्दतीत्यायु-र्वेदः तस्याङ्गवरमाद्यमागमप्रत्यक्षानुमानोपमानै-रविरुद्धमुच्यमानमुपधारय एतद्ध्यङ्गं प्रथमंप्रागभिघातव्रणसंरोहादयज्ञशिरःसन्धानाच्च” ।“तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्ति-करञ्चेति”
“ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे तस्मा-दश्विनावश्विभ्यामिन्द्र इन्द्रादहं मया त्विह प्रदेय-मर्थिभ्यः प्रजाहितहेतोः”
इति सुश्रुतः
)
वाचस्पत्यम्
Sanskrit
आयुर्वेद
पु०
आयुर्विद्यते लभ्यतेऽनेन विद--लाभे करणे घञ्आयुर्वेत्त्यनेन चिह्नज्ञापनेन विद--ज्ञाने करणे घञ् वा ।चिकित्साशास्त्रे तन्निरुक्त्यादिकं सुश्रुते दर्शितं यथा ।“शल्यं शालक्यमित्यादि अष्टाङ्गशब्दे ५२३ पृष्ठे उक्तमुपक्रम्य “इह खल्वायुर्व्वेदप्रयोजनं व्याध्युपसृष्टानांव्याधिपरिमोक्षः स्वस्थस्य रक्षणञ्च आयुरस्मिन् विद्यतेऽनेन वा आयुर्व्विन्दतीत्यायुर्वेदः तस्याङ्गवरमाद्यमागम-प्रत्यक्षानुमानोपमानैरविरुद्धमुच्यमानमुपधारय एत-द्ध्यङ्गं प्रथमं प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च ।श्रूयते हि यथा रुद्रेण यज्ञस्य शिरश्छिन्नमिति ततोदेवा अश्विनावभिगम्योचुः भगवन्तौ नः श्रेष्ठतमौ युवांभविष्ययः भवद्भ्यां यज्ञस्य शिरःसन्धातव्यम् तावूच-तुरेवमस्त्विति अथ तयोरर्थे देवा इन्द्रयज्ञभागेन प्रा-सादयन् ताभ्यां यज्ञस्य शिरःसंहितमिति अष्टा-स्वपि चायुर्व्वेदतन्त्रेष्वेतदेवाधिकमभिमतमाशुक्रियाकरणा-द्यन्त्रशस्त्रक्षाराग्निप्रणिधानात्सर्व्वतन्त्रसामान्याच्च त-दिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्ति-करञ्चेति ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे तस्मा-दश्विनावश्विभ्यामिन्द्र इन्द्रादहं मया त्विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः भवति चात्र अहं हिधन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् शल्या-ङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहीपदेष्टुम्” ।स चार्थर्ववेदस्योपवेदः “विधाताथर्व्वसर्व्वस्वमायुर्वेदंप्रकाशयन् स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम्”इति भावप्रकाशोक्तेः चरणव्यूहमते ऋग्वेदस्यो-पवेदः आयुर्वेदः अथर्ववेदस्य तु शस्त्रशास्त्राण्युपवेदः ।स षोडशर्पिप्रणीतत्वात् षोडशविधः यथोक्तं ब्रह्मवै०
पु०
“ऋग्यजुः सामाथर्व्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः वि-चिन्त्य तेषामर्थं चैवायुर्वेद चकार सः कृत्वा तु पञ्चमंवेदं भास्कराय ददौ विभुः स्वतन्त्रं संहितां तस्मात् भा-स्करश्च चकार सः भास्करश्च स्वशिष्येभय आयुर्वेदं स्वसं-हिताम् प्रददौ पाठयामास ते चक्रुः संहितास्ततः ।तेपां नामानि विदुषां तन्त्राणि तत्कृतानि व्याधि-प्रणाशवीजानि साध्वि! मत्तो निशामय धन्वन्तरिर्द्दि-वोदासः काशीराजोऽश्विनीसुतौ नकुलः सहदेवार्कीच्यवनो जनको बुधः जावालो जाजलिः पैलःकरथोऽगस्त्यएव एते वेदाङ्गवेदज्ञाः षोडश व्या-धिनाशकाः चिकित्सातत्त्वविज्ञानं नाम तन्त्रमनौप-मम् धन्वन्तरिश्च भगवान् चकार प्रथमे सति! चिकि-त्सादर्पर्णं नाम दिवोदासश्चकार सः चिकित्साकौमुदींदिव्यां काशीराजश्चकार सः चिकित्सासारतन्त्रञ्चभ्रमघ्नं चाश्विनीसुतौ तन्त्रं वैद्यकसर्वस्वं नकुलश्च च-कार सः चकार सहदेवश्च व्याधिसिन्धुविमर्द्दनम् ।ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः च्यवनोजीवदानञ्च चकार भगवानृषिः चकार जनको योगीवैद्यसन्देहभञ्जनम् सर्वसारं चन्द्रसुतो जावालस्तन्त्र-सारकम् वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः ।पैलो निदानं करथस्तन्त्रं सर्वधरं परम् द्वैधनि-र्णयतन्त्रञ्च चकार कुम्भसम्भवः चिकित्साशास्त्रवी-जानि तन्त्राण्येतानि षोडश व्याधिप्रणाशवीजानिबलाधानकराणि मथित्वा ज्ञानमन्थानैरायुर्वेदपयो-निधिम् ततस्तन्त्राण्युज्जहरुर्नवनीतानि कोविदाः ।एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम् आयु-र्वेदं सर्व्ववीजं सर्व्वं जानामि सुन्दरि! व्याधेस्तत्त्वप-रिज्ञानं वेदनायाश्च निग्रहः एतद्दैद्यस्य वैद्यत्वं नवैद्यः प्रभुरायुषः आयुर्व्वेदस्य विज्ञाता चिकित्सासुयथार्थवित् धर्म्मिष्ठश्च दयालुश्च तेन वैद्यः प्रकीर्त्तितः” ।तस्य लक्षणं यथा भा० प्र० “आयुर्हिताहितं व्याधिनिदानंशमनं तथा विद्यन्ते यत्र विद्वद्भिः आयुर्वेद उच्यते”तस्य निरुक्तिस्तत्रैव “अनेन पुरुषो यस्मात् आयुर्वि-न्दति वेत्ति तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः” ।“देहजीवयोर्योगोजीवनं तेनावच्छिन्नः काल आयुःआयुर्बोधद्वारा आयुष्याण्यनायुष्याणि द्रव्यगुणकर्म्माणिज्ञात्वा तेषां सेवनत्यागाभ्याम् आरोग्येणायुर्विन्दति तेनैवहेतुना परस्यायुर्वेत्ति येन तद्बोधद्वारा आयुर्वेदः”भा० प्र० अथायुर्वेदवंशप्रादुर्भावस्तावदभिधीयते यथा भावप्र०“विधाताऽथर्व्वसर्वस्वमयुर्वेदं प्रकाशयन् स्वनाम्ना-सम्हिताञ्चक्रे लक्षश्लोकमयीमृजुम् ततः प्रजापतिं दक्षंदक्षं सकलकर्मसु विधिर्धीनीरधिः साङ्गमायुर्वेदमुपादि-शत् अथदक्षप्रादुर्भावः अथ दक्षः क्रियादक्षः स्वर्वै-द्योदेववल्लभः वेदयामास विद्वांसौ सूर्य्यांशौ सुरसत्तमौ ।अथाश्विनप्रादुभावः “दक्षादधीत्य दस्रौ वितेनतुःसंहितांस्वीयाम् सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम् ।स्वयम्भुवः शिरश्च्छिन्नं भैरवेण रुषाथ तत् अश्विभ्यां सहितंतस्मात्तौ जातौ यज्ञभागिनौ देवासुररणे देवा दैत्यैर्येसक्षताः कृताः अक्षतास्ते कृताः सद्योदस्राभ्यामद्भुतंमहत् वज्रिणोऽभूद्भुजस्तम्भः दस्राभ्यां चिकित्सितः ।सीम्नि निपतिते चेन्द्रस्ताभ्यामेव सुखीकृतः विशीर्ण्णद-शनाः पूष्णोनेत्रे नष्टे भगस्य शशिनोराजयक्ष्माऽभू-दश्चिभ्यान्ते चिकित्सिताः भार्गवश्च्यवनः कामी वृद्धःसन् विकृतिं गतः वीर्य्यवर्ण्णस्वरोपेतः कृतोऽश्विभ्यांपुनर्युवा एतैश्चान्यैश्च बहुभिः कर्म्मभिभिषजां वरौ ।बभूवतुर्भृशं पूज्याविन्द्रादीनां दिवौकसाम् अथेन्द्रप्रादु-र्भावः संदृश्य दस्रयोरिन्द्रः कर्माण्येतानि यत्नवान् आयुर्वेदं निरुद्वेगं तौ ययाचे शचीपतिः नासव्यौ सत्यसन्धेनशक्रेण किल याचितौ आयुर्वेदं यथाधीतं ददतुः शत-मन्यवे नासत्याभ्यामधीत्यैष आयुर्वेदं शतक्रतुः अध्या-पयामास बहूनात्रेयप्रमुखान् मुनीन् अथात्रेयप्रा-दुर्भावः एकदा जगदालोक्य गदाकुलमितस्ततः ।चिन्तयामास भगवानात्रेयो मुनिपुङ्गवः किं करोमि क्वगच्छाभि कथम् लोका निरामयाः भवन्ति, सामयानेतान्नशक्नोमि निरीक्षितुम् दयालुरहमत्यर्थं स्वभावो दुरति-क्रमः एतेषां दुःखतोदुःखं ममापि हृदयेऽधिकम् आयु-र्वेदं पठिष्यामि नैरुज्याय शरीरिणाम् इति निश्चित्यगतवानात्रेयस्त्रिदशालयम् तत्र मन्दिरमिन्द्रस्य गत्वाशक्रं ददर्श सः सिंहासनसमासीनं स्तूयमानं सुरर्षिभिः ।भासयन्तं दिशोभासा भास्करप्रतिमन्त्विषा आयु-र्वेदमहाचार्य्यं शिरोधार्य्यं दिवौकसाम् शक्रस्तु तंनिरीक्ष्यैव त्यक्तसिंहासनो ययौ तदग्रे पूजयामासभृशं भूरितपस्कृशम् कुशलं परिपप्रच्छ तथाऽऽगमन-कारणम् मुनिर्वक्तुमारेभे निजागमनकारणम् ।व्याधिभिर्व्यथितालोकाः शोकाकुलितचेतसः भूतलेसन्ति, सन्तापं तेषां हर्त्तुं कृपां कुरु आयुर्वेदोपदेशं मेकुरु कारुण्यतो नृणाम् तथेत्युक्तः सहस्राक्षोऽध्यापया-मास तं मुनिम् मुनीन्द्र इन्द्रतः साङ्गमायुर्वेदमधीत्य सः ।अभिनद्य तमाशीर्भिराजगाम पुनर्म्महीम् अथात्रेयोमुनिश्रेष्ठो भगवान करुणापरः सनाम्ना हितां चक्रे-नरचक्रानुकम्पया ततोऽग्निवेशं भेडंच जातूकर्णं पराश-रम् सीरपाणिं हारीतमायुर्वेदमपाठयत् तन्त्रस्यकर्त्ता प्रथममग्निवेशोऽभवत्पुरा ततोभेडादयश्चक्रुः स्वस्व-तन्त्रं, कृतानि तु श्रावयासुरात्रेयं मुनिवृन्देन वन्दितम् ।श्रुत्वा तानि तन्त्राणि हृष्टोऽभूदत्रिनन्दनः यथावत्सूत्रितन्तस्मात्प्रहृष्टामुनयोऽभवन् दिवि देवर्षयोदेवाः श्रुत्वा-साध्विति तेऽब्रुवन्” अथभरद्वाजप्रादुर्भावः “एकदा हिमव-त्पार्श्वेवादागताः मुनयोबहवस्तांश्च नामभिः कथयाम्यहम्भरद्वाजोमुनिवरः प्रथमं समुपागतः ततोऽङ्गिरास्ततोगर्गोमरीचिर्भृगुभार्गवौ पुलस्त्योऽगस्तिरसितोवशिष्ठः सपराशरः हारीतोगौतमः सांख्यो मैत्रेयश्च्यवनोऽपि ।जमदग्निश्च गार्ग्यश्च काश्यपः कश्यपोऽपि नारदोवामदेवश्च मार्कण्डेयः कपिष्ठलः शाण्डिल्यः सहकौण्डिल्यः शाकुनेयश्च शौनकः आश्वलायनसाङ्कृत्यौविश्वामित्रः परीक्षितः देवलोगालवोधौम्यः काप्यकात्या-यनावुभौ काङ्कायनो वैजवापः कुशिकोवादरायणिः ।हिरण्याक्षश्च लौगाक्षिः शरलोमा गोभिलः वैखानसाबालखिल्यास्तथैवान्ये महर्षयः ब्रह्मज्ञानस्य निधयोयमस्य नियमस्य तपन्तस्तेजसा दीप्ताहूयमाना इवाग्नयः ।सुखोपविष्टास्ते तत्र सर्वे चक्रुः कथामिमाम् धर्म्मार्थकाममोक्षाणां मूलमुक्तं कलेवरम् तच्च संसिद्धये शक्तं भवेद्यदिनिरामयम् तपःस्वाध्यायधर्माणां ब्रह्मचर्यव्रतायुषाम् ।हर्त्तारः पुरतीरोगा यत्र तत्र सर्वतः रोगाःकार्श्यक-राबलक्षयकरादेहस्य चेष्टाहरा दृष्ट्यादीन्द्रियशक्तिसंक्षय-कराः सर्वाङ्गपीडाकराः धर्म्मार्थाखिलकाममुक्तिषु महा-विघ्नस्वरूपाबलात्प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतःप्राणिनाम् तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्योभवद्भिर्बुधै-र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुबुभ्तेऽब्रुवन् त्वं योग्यीभगवन्! सहस्रनयनं याह्येहि शीघ्रंक्रमादायुर्वेदमधीत्य य-द्गदभयान्मुक्ता भवामोवयम् इत्थं मुनिभिर्योग्यैः प्रार्थितोविनयान्वितैः भरद्वाजो मुनिश्रेष्ठोजगाम त्रिदशालयम् ।तत्रेन्द्रभवनं गत्वा सुरर्षिगणमध्यगम् दृष्टवान् वृत्रह-न्तारं दीप्यमानमिवानलम् सोऽभिगम्य जयाशीर्भिर-भिनन्द्य सुरेश्वरम् ऋषीणां वचनं सम्यक् श्रावयामाससत्तमः व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः तेषांप्रशमनोपायं यथावद्वक्तुमर्हसि तमुवाच मुनिं साङ्गमायु-र्वेदं शतक्रतुः जीवेद्वर्षसहस्राणि देही नीरुङ्गिशम्य यम् ।सोऽनन्तपारन्त्रिस्कन्धमायुर्वेदं महामतिः यथावदचिरा-त्सर्वं बुबुधे तन्मना मुनिः तेनायुः सुचिरं लेभे भरद्वाजोनिरामयम् अन्यामपि मुनींश्चक्रे नीरुजः सुचिरायुषः ।तत्तन्त्रजनितज्ञानचक्षुषा ऋषयोऽखिलाः गुणान् द्रव्याणिकर्माणि दृष्ट्वा तद्विधिमाश्रिताः आरोग्यं लेभिरे दीर्घमायुश्चसुखसंयुतम् आयुर्वेदोक्तविधिनाऽन्येऽपि स्युर्मुनयो यथा” ।अथ चरकप्रादुर्भावः “यदा मत्स्यावतारेण हरिणा वेदउद्धृतः तदा शेषश्च तत्रैव वेद साङ्गमवाप्तवान् अथ-र्वान्तर्गतं सम्यगायुर्वेदं लब्धवान् एकदा महीवृत्तंद्रष्टुं चर इवागतः तत्र लोकांन् गदैर्ग्र स्तान्व्यथयापरिपीडितान् द्रुमान् स्थलेष्वपुष्पाढ्यान् म्रियमाणांश्च दृष्टवान् तान् दृष्ट्वा तु दयायुक्तस्तेषां दुःखेन दुःखितः अ-नन्तश्चिन्तयामास रोगोपशमकारणम् संचिन्त्य स्वयं तत्रमुनेः पुत्रो बभूव यतश्चर इवायातोन जातः केनचि-द्यतः तस्माच्चरकनाम्नाऽसौ विख्यातः क्षितिमण्डले सभाति चरकाचार्यो देवाचार्यो यथा दिवि सहस्रवदन-स्यांशो येन ध्वंसोरुजां कृतः आत्रेयस्य मुनेः शिष्याअग्निवेशादयोऽभवन् मुनयो बहवस्तैश्च कृतं तन्त्रंस्वकं स्वकम् तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता ।चरकेणात्मनो नाम्ना ग्रन्थोऽयं चरकः कृतः अथधन्वन्तरिप्रादुर्भावः एकदा देवराजस्य दृष्टिर्न्निपतिताभुवि तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः ।तान् दृष्ट्वा हृदयं तस्य दयया परिपीडिंतम् दयार्द्रहृ-दयः शक्रो धन्वन्तरिमुवाच धन्वन्तरे! सुर-श्रेष्ठ भगवन्! किञ्चिदुच्यते, योग्योभवसि भूता-नामुपकारपरोभव उपकाराय लोकानां केन किं नकृतं पुरा त्रैलोक्याधिपतिर्विष्णुरभून्मत्स्यादिरूप-वान् तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपोभव ।प्रतीकाराय रोगाणामायुर्वेदं प्रकाशय इत्युक्त्वा सुरशा-र्द्दूलः सर्वभूतहितेप्सया समस्तमायुषोवेदं धन्वन्तरिमुपादि-शत् अधीत्य चायुषोवेदमिन्दाद्धन्वन्तरिः पुरा आगत्य-पृथिवीं काश्यां जातोबाहुजवेश्मनि नाम्ना ततोऽ-भवत् ख्यातोदिवोदास इति क्षितौ बालएव विरक्तोभू-च्चचार महत्तपः यत्नेन महता ब्रह्मा तं काश्या-मकरोन्नृपम् ततो धन्वन्तरिर्लोकैः काशीराजोऽभिधी-यते हिताय देहिनां स्वीया संहिता विहिताऽमुना ।अयं विद्यार्थिनो लोकान् संहितां तामपाठयत्” अथसुश्रुतप्रादुर्भावः अथ ज्ञानदृशा विश्वामित्रप्रभृतयो-ऽवदन् अयं धन्वन्तरिः काश्यां काशीराजोय उच्यते ।विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान् वत्स वाराणसींगच्छ विश्वेशवरवल्लभाम् तत्र नाम्ना दिवोदासः काशी-राजोऽस्ति बाहुजः हि धन्वन्तरिः साक्षादायुंर्यद-विदांवरः आयुर्वेदं ततोऽधीष्व लोकोपकृतिहेतवे ।सर्वप्राणिदयातीर्थमुपकारोमहामखः पितुर्वचनमाकर्ण्यसुश्रुतः काशिकाङ्गतः तेन सार्द्धं समध्येतुं मुनिसूनुशतंययौ अथ धन्वन्तरिं सर्वे वानप्रस्थाश्रमे श्रितम् भग-वन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम् काशीराजंदिवोदासन्तेऽपश्यन् विनयान्विताः स्वागतं इतिस्माह दिवोदासोयशोधनः कुशलं परिपप्रच्छ तथाऽऽ-गमनकारणम् ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम् ।भगवन्मानवान्दष्ट्वा व्याधिभिः परिपीडिहीतान् क्रन्दतोम्रि-यमाणांश्च जातास्माकं हृदि व्यथा आमयानां शमोपायंविज्ञातुं वयमागताः आयुर्वेदं भवानस्मानध्यापयितुम-र्हति अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत् व्याख्यातंतेन ते यत्नाज्जगृहुर्मुनयोमुदा काशीराजं जयाशीर्भिर-भिनन्द्य मुदान्विताः सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकंस्वकम् प्रथमं सुश्रुतस्तेषु स्वतन्त्रं कृतवान् स्फुटम् सुश्रुतस्यसखायोऽपि पृथक् तन्ताणि तेनिरे सुश्रुतेन कृतं तन्त्रं सु-श्रुतं बहुभिर्यतः तस्मात्तत् सुश्रुतं नाम्ना विख्यातं क्षितिम-ण्डले” चरके तु आयुर्वेदनिरुक्तिस्तत्प्रणेतृवंशोऽन्यथाभ्यधायियथा “ब्रह्मणा हि यथा प्रोक्तमायुर्वेदं प्रजापतिः जग्रा-ह निखिलेनादावश्विनौ तु पुनस्ततः अश्विभ्यां भगवान्शक्रः प्रतिपेदे केवलम् ऋषिप्रोक्तोभरद्वाजस्तस्माच्छ-क्रमुपागमत्” ब्रह्मादिभारद्वाजान्तवंशमुक्त्वा ततो यथाभरद्वाजस्य प्राप्तिस्तदपि तत्रैवोक्तम् यथा कतिचिन्मु नीनु-पक्रम्य “ब्रह्मज्ञानस्य निधयोयमस्य नियमस्य तपसस्तेज-सादीप्ताहूयमाना इवाग्नयः सुखोपविष्टास्ते तत्र पुण्यांचक्रुः कथामिमाम् धर्मार्थकाममोक्षाणामारोग्यं मूल-मुत्तमम् रोगास्तस्यापहन्तारः श्रेयसीजीवितस्य ।प्रादुर्भुतोमनुष्याणामन्तरायोमहानयम् स्यात्तेषांशमोपायैत्युक्त्वा ध्यानमास्थिताः अथ ते शरणं शक्रंददृशुर्ध्यानचक्षुषा वक्ष्यति शमोपायं यथावदमरप्रभुः ।कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम् अहमर्थेनियुज्येयमत्रेति प्रथमं वचः भरद्वाजोऽब्रर्वत्तस्मादृषिभिःस नियोजितः शक्रभवनं गत्वा सुरर्षिगणमध गम् ।ददर्श बलहन्तारं दीप्यमानमिवातलम् सोभिगम्य जया-शीर्भिरभिनन्द्य सुरेश्वरम् प्रोवाच भगवान्धीमान् ऋषीणांवाक्यमुत्तमम् व्याधयोहि समुत्पन्नाः सर्वप्रणिभय-ङ्कराः तद्ब्रूहि मे शमोपायं यथाब्दभरभो! ।तस्मैप्रोवाच भगवानायुर्वेदं शतक्रतुः पदैरल्पैर्मतिं बुद्ध्वाविपुलां परमर्षये हेतुलिङ्गौषधज्ञानं स्वस्थातुरपराय-णम् त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः सोऽ-नन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः यथावदचिरात्सर्व्वं वुबुधे तन्मना मुनिः तेनायुरमितं लेभे भरद्वाजःसुखान्वितम् ऋषिभ्योऽनधिकं तन्तु शशासानवशेषयन् ।ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम् दीर्घमायुश्चि-कीर्षन्तो वेदं वर्द्धनमायुषः तेनर्षयस्ते ददृशुर्यथावज्ज्ञा-नचक्षुषा सामान्यञ्च विशेषञ्च गुणान् द्रव्याणि कम ।समवायञ्च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः लेभिरे परमंशर्म जीवितञ्चाप्यनश्चरम् अथ मैत्रीपरः पुण्यमायुर्वेदंपुनर्व्वसुः शिष्येभ्योदत्तवान् षड्भ्यः सर्वभूतानुकम्पया ।अग्निवेशश्च भेडश्च जातूकर्णः पराशरः हारीतः क्षार-पाणिश्च जगृहुस्तन्मुनेर्वचः बुद्धेर्व्विशेषस्तत्रासीन्नो-पदेशान्तरं, मुनेः तन्त्रस्य कर्त्ता प्रथममग्निवेशोयतोऽ-भवत् अथ भेडादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि ।श्रावयामासुरात्रेयं सर्षिसङ्घं मुमेधसः श्रुत्वा सूत्र-मर्थानामृषयः पुण्यकर्मणाम् यथावत् सूत्रितमितिप्रहृष्टास्तेऽनुमेनिरे” एवमायुर्वेदवंशमुक्त्वा तस्य निरुक्ति-स्तत्र दर्शिता यथा “हिताहितं सुखं दुःखमायुस्तस्यहिताहितम् मानञ्च तच्च यत्रोक्तमायुर्वेदः सौच्यते ।शरीरेन्द्रिसत्त्वादिसंयोगधारिजीवितम् नित्यगश्चानुबन्धश्चपर्य्यायैरायुरुच्यते तस्यायुषः पुण्यतमो वेदो वेदविदांमतः वक्ष्यते यन्मुष्याणां लोकयोरुभयोर्हितः” ।एवं बहूनामायुर्वेदानां सत्त्वेऽपि तेषां विरलप्रचा-रतया लुप्तप्रायत्वात् सुश्रुतचरकयोर्लोके प्रचाराच्चतत्रत्यविषयास्तावत् संक्षेपेणोच्यन्ते तत्र सुश्रुतस्यायुर्वेद-स्याष्टाङ्गत्वम् तच्च अष्टाङ्गशब्दे ५२३ पृष्ठे शल्यं शालक्य-मित्यादि दर्शितम् तच्छास्त्रस्य प्रयोजनं रोगचिकित्सासा पुरुषविषयैवेति पुरुषस्वरूपतदुत्पत्तिगर्भादिक्रमेणाभि-धाय तदीयशरीरसंस्थानं रोगनिदानरोगोपशमनद्रव्यादिदीनि क्रमेणोक्तानि तदेतत् संक्षेपेण सुश्रुते उक्तम्“अस्मिन् शास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुषः इत्यु-च्यते यस्मिन् क्रिया सोऽधिष्ठानम्, कस्मात्? लोकस्यद्वैविध्यात् लोको हि द्विविधः स्थावरो जङ्गमश्च ।द्विविधात्मक एवाग्नेयः सौम्यश्च तद्भूयस्त्वात् पञ्चात्म-को वा तत्र चतुर्व्विधो भूतग्रामः स्वेदजाण्डऊओद्भिज्जजरायुजसंज्ञः तत्र पुरुषः प्रधानं तस्योपक-रणन्यत् तस्मात्पुरुषोऽधिष्ठानम् तद्दुःखसंयोगाव्याधय इत्युच्यन्ते ते चतुर्व्विधा आगन्तवः शारीरामानसाः स्वाभाविकाश्चेति तेषामागन्तवोऽभिघात-निमित्ताः शारीरास्त्वन्नपानभूला वातपित्तकफशोणित-सन्निपातवैषम्यनिमित्ताः मानसास्तु क्रोधशोकभयहर्षविषादेर्ष्याभ्यसूयादैन्यमात्सर्य्यकामलोभप्रभृतयैच्छाद्वेषभे-दैर्भवन्ति स्वाभाविकाः क्षुत्पिपासाजरामृत्युनिद्राप्रभृ-तयः एते मनःशरीराधिष्ठानाः तेषां संशोधन-संशमनाहाराचाराः सम्यक् प्रयुक्ताः निग्रहहेतवः ।प्राणिनां पुनर्मूलमाहारी बलवर्णौजसाञ्च षट्सु रसे-ष्वायत्तो रसाः पुनर्द्रव्याश्रयाः द्रव्याणि पुनरोषधयस्ताःद्विविधाः स्थावरा जङ्गमाश्च तासां स्थावराश्चतुर्व्विधाः ।वनस्पतयो वृक्षा वीरुध ओषधय इति तास्वपुष्पाःफलवन्तो वनस्पतयः पुष्पफलवन्तो वृक्षाः प्रतानवत्यःस्तम्बिन्यश्च वीरुधः फलपाकनिष्ठा ओषधय इति ।जङ्गमास्त्वपि चतुर्विधा जरायुजाण्डजस्वेदजो-द्भिज्जाः तत्र पशुमनुष्यव्यालादयो जरायुजाः ।खगसर्पसरीसृपप्रभृतयोऽण्डजाः कृमिकीटपिपीलिका-प्रभृतयः स्वेदजाः इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः ।तत्र स्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्य्यासस्वरसादयःप्रयोजनवन्तो जङ्गमेभ्यश्चर्म्मनखरोमरुधिरादयः पार्थिवाःसुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः काल-कृतास्तु प्रवातनिवातातपच्छायाज्योत्स्नातमः शीतो-ष्णवर्षाहोरात्रपक्षमासर्त्वयनादयः संवत्सरविशेषाः ।त एते स्वभावत एव दोषाणां सञ्चयप्रकोपप्रशमप्रती-कारहेतवः प्रयोजनवन्तश्च भवन्ति चात्र शारीराणां-विकाराणामेष वर्गश्चतुर्व्विधः चये कोपे शमे चैव हेतु-रुक्तश्चिकित्सकैः आगन्तवश्च ये रोगास्ते द्विधा निपतन्तिहि मनस्यन्ये शरीरेऽन्ये तेषान्तु द्विविधा क्रिया ।शरीरपतितानान्तु शारीरवदुपक्रमः मानसानान्तुशब्दादिरिष्टो वर्गः सुखावहः एवमेतत्पुरुषो व्याघि-रौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम् ।तत्र पुरुषग्रहणात्तत्सम्भवद्रव्यसमूहोभूतादिरुक्तस्तदङ्गप्र-त्यङ्गविकल्पाश्च त्वङ्मांसुसिरास्नायुप्रभृतयः व्याधिग्रहणाद्वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः सर्व्व एवव्याधयो व्याख्याताः ओषधिग्रहणात् द्रव्यगुणरसवीर्य्य-विपाकप्रभावाणामादेशः क्रियाग्रहणाच्छेद्यादीनि स्नेहा-दीनि कर्म्माणि व्याख्यातानि कालग्रहणात्सर्व्व-क्रियाकालानामादेशः भवति चात्र वीजं चिकित्सित-स्यैतत्समासेन प्रकीर्त्तितम् सविंशमध्यायशतमस्यव्याख्या भविष्यति तच्च सविंशमध्यायशतं पञ्चसुस्थानेषु तत्र सूत्रस्थाननिदानशारीरचिकित्सितकल्पे-ष्वर्थवशात्संविभज्योत्तरे तन्त्रे शेषानर्थान् व्याख्यास्यामः” ।चरके तु त्रिस्कन्दमित्युक्तम् तच्च हेतुलिङ्गौषधरूपस्कन्ध-त्रयं बोध्यम् अयञ्चायुर्वेद अष्टादशविद्यान्तर्गतः ।“आयुर्वेदो धनुर्वेदो गान्धर्व्वश्चेति ते त्रय” इति ५२५ पृष्ठेअष्टादशविद्याशब्दे उक्तबाक्यात् अस्मिन् शास्त्रे द्वि-जानामेवाधिकारोनान्येषां यथाह सुश्रुतः “अथातःशिष्योपनयनीयमध्यायं व्याख्यास्यामः ब्राह्मणक्षत्रि-यवैश्यानामन्यतममन्वयवयःशीलशौर्य्य शौचाचारविनयशक्तिबलमेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्र-मृजुवक्त्राक्षिनासं प्रसन्नचित्तवाक्चेष्टं क्लेशसहञ्च भिषक्शिष्यमुपनयेत् अतो विपरीतगुणं नोपनयेत्” ।विप्रेण वैश्यकन्यायामुत्पन्नस्याम्बष्ठस्यापि द्विजधर्म्मतयाउपनयनादिसंस्कारवत्त्वात् “अम्बष्ठस्य चिकित्सितम्”इति मनूक्तेश्च अत्राधिकार इति भेदः तत्रायं विवेकःद्विजमात्राणां चिकित्सितेऽधिकारेऽपि तत्रत्यवृत्तिग्रहणेतु तेषां निन्द्यतैव “पूयं चिकितसकस्यान्नमिति” मनु-ना निन्दितत्वात् अम्बष्ठानां तु तद्वृत्तौ दोषाभावः मनुना“सूतानामश्वसारथ्यमम्बष्ठस्य चिकित्सितम्” इत्यनेन तेषांचिकित्सावृत्तिकत्वेनाभिधानात अम्बष्ठस्य यथोपनयने-ऽधिकारस्तथाऽम्बष्ठशब्दे ३२८ पृष्ठे निरूपितम् अतएव-“भिषक् केशवनन्दनः वोपदेवश्चचारेदं विप्रोवेदपदा-स्पदम्” विप्रवोपदेवस्य पितुः केशवस्य भिषक्त्वं स्वय-मेव तेनोक्तम् तस्य निन्दितत्वे तन्नोच्येत इति द्रष्टव्यम् ।अन्यत्र चायुर्वेदस्य चतुर्व्यूहत्वमुक्तं रोगरोगनिदानरोग-निवृत्तितदुपायरूपविषयचातुर्विध्यात् “सचायुर्वेदः नर-गजाश्वगोवृक्षाधिकारभेदेन पञ्चविधः तत्र नरायुर्वेदःचरकसुश्रुतादिर्लोकप्रसिद्धः गजायुर्वेदोऽश्वायुर्वेदोऽपि शालि-होत्रकृतः तयोश्च लोके प्रचाराभावात् अग्निपुराणतःसमुदृद्धृत्यात्रतौ दर्श्येते तत्र गजायुर्वेदो यथा“गजलक्ष्म चिकित्सां लोमपाद! वदामि ते” इत्युपक्रम्य“पाकलेषु तु सर्वेषु कर्त्तव्यमनुवासनम् घृततैलपरीपाकं स्थानंवातविवर्जितम् स्कन्धेषु क्रिया कार्य्या तथा पाकलव-न्नृप गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतं व्विज ।आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते लवणैः पञ्च-भिर्मिश्रा प्रतिपानाय वारुणी विडङ्गत्रिफलाव्योससैन्धवैःकबलान् कृतान् मूर्च्छासु भोजयेन्नागं क्षौद्रतोयञ्च-पाययेत् अभ्यङ्गः शिरसः शूले नस्यञ्चैव प्रशस्यते ।नागानां स्नेहकटुकैः पादरोगानुपक्रमेत् पश्चात्कल्क-कषायेण शोधनञ्च विधीयते शिखितित्तिरिलावानां पि-प्पलीमरिचान्वितैः रसैः समर्पयेन्नागं वेंपथुर्यस्यजायते बालं विल्वं तथा लोध्रं धातकी सितया सह ।अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः नस्यं करग्रहेदेयं घृतं लवणसंयुतम् मागधीनागराजाजीयवागूर्मण्डुकान्विताः उत्कर्ण्णके तु दातव्यो वाराहश्च तथा-रसः दशमूलकुलत्थाश्वकाकमाचीविपाचितम् तैल-प्राशनसंयुक्तं गलग्रहगदापहम् अष्टाभिर्लवणैः पिष्टैःप्रसन्नं पाययेद्घृतम् मूत्रलंशेखरावीजं कथितं त्रपुषस्यच त्वग्दोषेषु पिबेच्चैवं वृषं वा क्वथितं द्विपः ।गवां मूत्रविडङ्गानि कृमिकेष्वेषु शस्यते शृङ्गवेरकणाद्रा-क्षाशर्कराभिः शृतं पयः क्षतक्षयकरं पानं तथामांसरसः शुभः अक्षोदनं व्योषयुतमरुचौ तु प्रशस्यते ।त्रिवृद्व्योसाग्निदन्त्यर्कश्यामाक्षीरेभपिपपली एतैर्गुल्म-हरः स्नेहः कृतश्चैव तथा रसः भेनद्रावणाभ्यङ्गस्नेह-पानानुवासनैः सर्वानेव समुत्पन्नान् विद्रवान् समुपाह-रेत् षष्टिकं मुद्गयूषेण सारदेन तथा पिबेत् बालवि-ल्वैस्तथा लेपः कुट्यरोगे प्रशस्यते विडङ्गेन्द्रयवौ हिङ्गुसबलं रजनीद्वयम् पूर्वाह्णे पाययेत् पिण्डान् सर्वशूलो-पाशान्तये प्रधानभोजने तेषां षष्टिकव्रीहिशालयः ।मध्यमौ यवगोधूमौ शेषा दन्तिनि चाधमाः यवश्चैव तथै-वेक्षुर्नागानां बलवर्द्धनः नागानां यवसं शुष्कं तथावात प्रकोपणम् मदक्षीणस्य नागस्यपयः पानं प्रशस्यते ।दीपनीयैस्तथा द्रव्यैः शृतोमांसरसस्ततः वायसः कुरभ-श्चोभौ काकोलूककुलाहविः भवेत् क्षौद्रेणसंयुक्तं पिण्डो-युद्धे मदाय हि कटुमस्या विडङ्गानि क्षीरकोषातकी-पयः हरिद्रा चेति धूमोऽयं कुञ्जरस्य जयावहः ।पिप्पली तण्डुलास्तैलं माध्वीकं माक्षिकन्तथा नेत्रयोःपरिषेकोऽयं दीपनीयः प्रशस्यते पुरीषं कषायाश्च तथापारावतस्य क्षीरवृक्षकरीरश्च प्रसन्नायेष्टमञ्जनम् ।अनेनाञ्जितनेत्रस्तु करोति कदनं रणे उत्पलानि चनीलानि मुस्तं तगरमेव तण्डुलोदकपिष्टानि नेत्र-निर्वापणं परम् नखवृद्धौ नखच्छेदः तैलसेकश्च मास्यपि ।शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस्तथा शरन्निदा-घयोः सेकः सर्पिषा तथाप्यति” इति गजायुर्वेदःअथाश्वायुर्वेदः तत्रैव “अश्ववाहनसारं वक्ष्येऽश्वस्य चि-कित्सितम्” इत्युपक्रम्य “वृषो निम्बवृहत्यौ गुडुची स-माक्षिका सिंहानकहरी पिण्डीस्वेदश्च शिरसस्तथा हि-ङ्गुपुष्करमूलञ्च नागरं साम्लवेतसम् पिप्पलीसैन्धवयुतंशूलघ्नमुष्णवारिणा नागराऽतिविषा मुस्ता सानन्ता विल्व-मालिका क्वाथमेषां पिबेद्वाजी सर्व्वातीसारनाशनम् ।प्रियङ्गुलोध्रमधुभिः पिबेद्वृषरसं हयः क्षीरं वा पञ्चको-लाद्यं कासनाद्विप्रमुच्यते विष्कन्नेषु सर्व्वेषु श्रेयआदौ विशोषणम् अभ्यङ्गावर्तनिस्नेहनस्यवर्त्तिक्रमः-स्मृतः त्वरितानां तुरङ्गाणां पयसैव क्रियाक्रमः लोध्र-करञ्चयोर्मूलं मातुलाङ्गाग्निनागराः कुष्ठं हिङ्गुवचा-रास्ना लेपोऽयं शोथनाशनः मञ्जिष्ठा मधुकं द्राक्षावृहत्यौरक्तचन्दनम् त्रपुषीवीजमूलानि शृङ्गाटककशेरुकम् ।अजापयःशृतमिदं सशीतं शर्करान्वितम् पीत्वा निर-शनोवाजी रक्तमेहात् प्रमुच्यते मन्याहनुनिगालस्थशिरःशेफोगलग्रहः अभ्यङ्गः कटुतैलेन तत्र तेष्वेव शस्यते ।प्रत्यक्पुष्पी तथा वह्निः सैन्धवं सौरसो रसः कृष्णाहिङ्गु-युतैरेभिः कृत्वा नस्यं सोदति निशे ज्योतिष्मतो पाठाकृष्णकुष्ठं वचामधु जिह्वास्तम्भे लेपोऽयं गुडमूत्रयुतो-हितः तिलैर्यष्ट्या रजन्या निम्बपत्रैश्च योजिता ।क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपणी अभिघातेनखञ्जन्ति येऽप्यश्वास्तीव्रवेदनाः परिषेकक्रिया तेषां तैलेना-शु रुजापहा दोषकायाभिघाताभ्यां तनुजे लिङ्गिते तथा ।शान्तिर्मत्स्याम्बुवस्ताभ्यां पक्वमन्नमथ क्रमात् अश्वत्थोडुम्बरप्लक्षमधूकवटवल्कलैः प्रभूतनलिकाक्वाथः सुखोष्णोव्रणशोधनः शताह्वा नागरं रास्नामञ्जिष्ठाकृष्णसैन्धवैःदेवदारुवचायुग्मरजनीरक्तचन्दनैः तैलं सिद्धं कषायेणगुडुच्या पयसा सह म्रक्षणं वस्तिनस्ये योज्यं सर्व्वत्रलिङ्गिते रक्तस्रावो जलौकाभिर्नेत्रान्ते पित्तरोगिणः ।खादिरोडुम्बराश्वत्थकषायेण साधितम् धात्रीदुराल-भातिक्ताप्रियङ्गुकुसुमैःसर्मः गुडुच्या कृतः क्वाथःकल्कोयुक्तो विलम्बिते उत्पाते शिशिरे श्राव्ये मुष्कशोथेतथैवच क्षिप्रकारिणि दोषे सद्योवेधनमिष्यते ।गोशकृत्सर्ज्जिकाकुष्ठरजनीतिलसर्षपैः गवां मूत्रेणपिष्टैश्च मर्द्दनं कण्डुनाशनम् शीतोमधुयुतः क्वाथोनासिकायां सशर्करः रक्तपित्तहरः पानादश्वकण्डोस्तथैवच सप्तमे सप्तमे देयमश्वानां लवणं दिने तथा भुक्त-वतां देया अतिपाते तु वारुणी जीवनीयैः समधुरै-र्मृद्वीकाशर्करायुतैः सपिपिप्लीकैः शरदि प्रतिपानं सपद्मकैः विडङ्गपिप्पलीधान्यशताह्वालोध्रसैन्धवैः सचित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे ।लोध्रप्रियङ्गुकायुक्ता पिप्पली विश्वभेषजैः सक्षौद्रैःप्रतिपानं स्याद्वसन्ते कफनाशनम् प्रियङ्गुपिप्पली-लोघ्रयष्ट्याह्वैः समहौषधैः निदाघे सगुडा देयामदिरा प्रतिपानके लोध्रकाष्ठं सलवणं पिप्पल्यो-विश्वभेषजम् भवेत्तैलयुतैरेभिः प्रातिपानं घनागमे ।निदाघेऽर्द्धकृताहाराः शरत्सु पुष्टशोणिताः प्रावृडिभन्न-पुरीषाश्च पिबेयुर्वाजिनोघृतम् पिबेयुर्वाजिनस्तैलं कफ-वाय्वधिकास्तु ये स्नेहव्यापद्भवो येषां तेषां कार्य्यं विरू-क्षणम् त्र्यहं यवागूरूक्षा स्याद्भोजनं तक्रसंयुतम् ।शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः वर्षासु शि-शिरे चैव वस्तौ यमकमिष्यते गुर्व्वभिष्यन्दिभक्तानिव्यायामं स्नानमातपम् वायुर्वर्षञ्च वाहस्य स्नेहनीयस्यवर्ज्जयेत् स्नानं पानं सकृत्द्दृष्टमश्वानां सलिलागमे ।अत्यर्थं दुर्दिने काले पानमेकं प्रशस्यते युक्तं शीतातपेकाले द्विः पानं प्लवनं सकृत् ग्रीष्मे त्रिः स्नानपानंस्याच्चिरं तस्यावगाहंनम् निस्तुषाणाम्प्रदातव्या यवा-नाञ्चतुराढकी चणकव्रीहिमौद्गाणां, कलायान् वापि दा-पयेत् अहोरात्रेण वाहस्य यवसस्य तुला दश अष्टौशुष्कस्य दातव्या चतस्रोऽथ वुषस्य वा दूर्व्वा पित्तं, यबःकासं, वुषश्च श्लेष्मसंज्ञकम् नाशयत्यर्जुनःश्वासं, तथा शालि-र्बलक्षयम् वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्नि-पातिकाः रोगा पीडयिष्यन्ति दूर्व्वाहारं तुरङ्गमम् ।द्वौ रज्रुबन्धौ दुष्टानां पक्षयोरुभयोरपि पश्चाद्बन्धश्चकर्त्तव्यो दूरकीलव्यपाश्रयः वसेयुस्त्वास्तृतेस्थाने कृतधूपनभूमयः घनोपन्यस्तयवसाः सप्रदीपाः सुरक्षिताः कृत-बन्धाश्च कपयोधार्य्याश्चाश्वगृहे मृगाः” इत्यश्वायुर्वेदः अ-धिकं जयदत्तकृतेऽश्वशास्त्रे दृश्यम् ।अथ गवायुर्वेदः अग्निपु० “गवाम्माहात्म्यमुक्तं हिचिकित्साञ्च तथा शृणु” इत्युपक्रम्य “शृङ्गामयेषुधेनूनां तैलं दद्यात् ससैन्धवम् शृङ्गवेरबलामांसीकल्क-सिद्धं समाक्षिकम् कर्णमूलेषु शूलेषु मञ्जिष्ठाहिङ्गु-सैन्धवैः सिद्धं तैलं प्रदातव्यं रसोनेनाथ वापुनः विल्वमूलमपामार्गो धातकी सपाटला कुटजंदन्तमूलेषु लेपोहृच्छूलनाशनः दन्तशूलहरैर्द्रव्यैर्घृतंवापि विपाचितम् मुखरोगहरं ज्ञेयं जिह्वारोगेषु सै-न्धवम् शृङ्गवेरं हरिद्रे द्वे त्रिफला गलग्रहे ।हृच्छूले वस्तिशूले वातरोगक्षये तथा त्रिफला घृतमिश्राच गवां पाने प्रशस्यते अतीसारे हरिद्रे द्वे पाठाञ्चैवप्रदापयेत् सर्वेषु कोष्ठरोगेषु तथा सास्नागतेषु ।शृङ्गवेरञ्च भार्गीं कासश्वासे दापयेत् दातव्याभग्नसन्धाने प्रियङ्गुर्लवणान्विता तैलंवातहरं पित्ते मधु-यष्टिविपाचितम् कफे व्योषञ्च समधु संपिष्टकरजोऽस्रजे ।तैलाज्यं हरितालञ्च भग्नक्षतघृतं ददेत् माषास्तिलाःसगोधूमाः पशुक्षीरं घृतन्तथा एषां पिण्डी स-लवणा वत्सानां पुष्टिदा त्वियम् बलप्रदा वृषाणां स्यात्ग्रहनाशाय धूपकः देवदारुवचामांसीहिङ्गुगुग्गुल्सर्षपाः ग्रहादिगदनाशाय एष धूपोगवां हितः घण्टाचैव गवां कार्य्या धूपेनानेन धूपिता अश्वगन्धातिलैः शुक्लैस्तेन गौः क्षीरिणी भवेत्” इति गवायुर्वेदःअथ वृक्षायुर्वेदस्तत्रैव “वृक्षायुर्वेदमाख्यास्ये प्लक्ष-श्चोत्तरतः शुभः प्राग्वटोयाम्यतश्चाम्र आप्ये ऽश्वत्थःक्रमेण तु दक्षिणादिसमुत्पन्नाः समीपे कण्टकिद्रुमाः ।उद्यानं गृहवामे स्यात्तिलानप्यथ पुष्पितान्” इत्युपक्रम्य“अरिष्टाशोकपुन्नागाः शिरीषाः सपियङ्गवः अशोकक-दलीजम्बुस्तथा बकुलदाडिमाः सायं प्रातस्तु घर्मान्तेशीतकाले दिनान्तरे वर्षर्त्तौ तु भुवः शोषेसेक्तव्या रोपिता-द्रुमाः उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ।स्थानात् स्थानान्तरं कार्य्यं वृक्षाणां द्वादशान्तरम् ।विफलाः स्युर्घनावृक्षाः शस्त्रेणादौ हि शोधनम् ।विडङ्गघृतपक्वाक्तान् सेचयेच्छोतवारिणा फलनाशेकुलत्थैश्चमार्षैर्मुद्गैर्यवैस्तिलैः शृतशीतपयःसेकः पहल-पुष्पाय सर्व्वदा आविकाजशकृन्मूत्रं यवचूर्ण्णंतिलानि गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् ।तत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः मत्स्याम्भसाऽ-वसेकेन वृद्धिर्भवति शाखिनः विडङ्गतण्डुलोपेतं मत्स्यंमांसं हि दोहदम् सर्वेषामविशेषेण वृक्षाणां रोगमर्द्द-नम्” वृहत्संहितोक्तो वृक्षायुर्वेद आरामशब्दे दृश्यः ।आयुर्वेदमधीते वेद वा उक्था० ठक् आयुर्वेदिकःआयुर्वेदाभिज्ञे
त्रि०
आयर्वेदे साधु कथा० ठक् ।आयुर्वेदिकः आयुर्वेदे साधौ
त्रि०
Capeller
German
आयुर्वेद
m.
Heilkunde.