आयुर्वृद्धि (AyurvRddhi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiआयुर्वृद्धिः
आयुस्-वृद्धिः -
"लम्बा जीवन, दीर्घायु"
Shabdartha Kaustubha
Kannadaआयुर्वृद्धि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಆಯುರ್ವೃದ್ಧಿ
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritआयुर्वृद्धि स्त्री आयुषो वृद्धिः । द्रव्यविशेषसेवनेनायुषोवृद्धौ तानि च द्रव्याणि कतिचिदुच्यन्ते । रस एव तावत्सर्वापेक्षयायुर्वृद्धिकरः “अभ्रकं तव वीजन्तु मम वीजन्तुपारदः । अनयीर्मेलनं देवि! मृत्युदारिद्र्यनाशनम्”इति सर्व० द० गौरीं प्रति शिववाक्यम्” कमयोगेन देवेशि!प्राप्यते पिण्डधारणम् । रसश्च पवनश्चेति कर्म्मयोगोद्विधा स्मृतः । मूर्च्छितो हरति व्याधीन् मृतो जीवयतिस्वयम् । बद्धः खेचरतां कुर्य्याद्रसो वायुश्च भैरवि!” इतिसर्व्व० द० तन्त्रवाक्यम् । यथा च वायोर्निरोधेनैव आयु-र्वृद्धिः । तथोक्तं काशी० “संनियम्येन्द्रियग्रामं नातिनो-चोच्छ्रितासनः । मध्यमञ्चोत्तमं चाथ प्राणायामसुपक्र-मेत् । चलेऽनिले चलं सर्वं निश्चलं तत्र निश्चले । स्थाणुत्व-माप्नुयाद्योगोततोऽनिलनिरोधनात् । यावद्देहे स्थितःप्राणो जीवितं तावदुच्यते । निर्गते तत्र मरणं ततःप्राणंनिरोधयेत् । प्राणायामेन युक्तेन सर्व्वव्याधिक्षयोभयेत्अयुक्ताभ्यासयोगेन सर्वव्याधिसमुद्भवः” ततश्च प्राणायामस्यसर्वव्याधिहरत्वादप्यायुर्वृद्धिकरत्वम् । अस्यचायुर्वृद्धिकरत्वेऽन्यदपि कारणम् तथा हि “षष्टिश्वासैभंवेत् प्राणः षट्प्राणानाडिका मता । षष्टिर्नाड्यस्त्वहोरात्रोजपसंख्याक्रमो-मतः । एकविंशतिसाहस्रं षट्शतानि महेश्वरि! । जपतिप्रत्यहं प्राणीति” तन्त्रोक्त्या २१६०० एतन्मिताः श्वासरूपाःप्राणक्रियाः अहोरात्रे भवन्ति वत्सरसंख्यया ३६० गुणि-तास्ताः ७७७६०० एतन्मिता वत्सरे भवन्ति । “शतायुर्वैपुरुष” इति श्रुत्या मनुष्याणां स्वाभाविकशतायुष्ट्वोक्तेः शतेनगुणितास्ताः ७७७६००००० एतन्मिताः प्राणक्रियामनुष्याणां जीवनकाले भवितुमर्हन्ति तत्र प्राणाया-मादिना प्राणवायोर्निरोधे प्राणक्रियानुत्पत्तेः प्राणक्रियारोधकाले च यावत्यः प्राणक्रिया भवितुमर्हन्ति तावन्तःकालाआयुषो बर्द्धन्ते इति । उक्ताः प्राणक्रियाश्च सुस्थस्यैव भवन्तिरोगाद्युपसर्गे शीघ्रधावनादिपरिश्रमे च प्राणक्रिया-धिक्यं भवति तेन स्वल्पकालमध्ये यावत्प्राणक्रिया अपेक्षिता-स्ततोन्यूनकालमध्ये तासामुत्पत्तावायुःक्षयः । शतायुष्ट्वञ्चस्वाभाविकं कर्म्मवशात् ततोन्यूनताऽपि जात्यायुर्भोगानांकर्म्मविपाकत्वस्य योगशास्त्रे उक्तेः । तादृशाल्पायुष्ट्वादिसूचकोग्रहविशेषयोगादिर्ज्योतिषे उक्तः । अन्नदोषादीनाञ्चाल्पा-युष्ट्वप्रयोजकत्वं स्मृत्युक्तमदृष्टद्वारैव । वैद्यकोक्तापथ्यभोजनस्यतथात्वञ्च रोगोत्पत्तिद्वारेतिभेदः । रोगोपसृष्टदेहं च जीवोदुःखहेत्वात् वह्न्याद्युपद्रुतदेशवत् शीघ्रं परिजिहीर्षति ।तथा च देहो यथा न रोगादिभिरुपसृज्येत” तथा यति-तव्यमित्येतदर्थं शास्त्रेषु पथ्योपदेशः इति बोधयम् ।एवं खेचरीमुद्रादीनामप्यायुर्वृद्धिकरत्वम् काशी० उक्तम् ।“कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता-दृष्टिर्मुद्रा भवति खेखरी । न पीड्यते स रोगेण न चलिप्येत कर्म्मणा । बाध्यते न स कालेन योमुद्रां वेत्तिखेचरीम् । चित्तं चरति खे यस्माज्जिह्वा चरति खे गता ।तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता । यावद्विन्दुःस्थिरोदेहे तावन्मृत्युभयं कुतः । यावद्बद्धा नभोमुद्रा ताव-द्विन्दुर्न गच्छति । उड्डीनं कुरुते यस्मादहोरात्रं महा-खगः । उडीयानं ततः प्रोक्तं तत्र बन्धोऽभिधीयते । जठरेपश्चिमं जानु नाभेरूर्द्ध्वञ्च धारयेत् । उड्डीयानं ह्ययंबन्धोमृत्यारपि भयं जयेत् । बन्धाति हि शिराजालंअधोगामि न भोजनम् । एष जालन्धरोबन्धः कण्ठेदुःखौघनाशनः । जलन्धरे कृते बन्धे कण्ठसंकोचलक्षणे ।न पीयूषं पतत्यग्नौ न च वायुः प्रधावति । पार्ष्णिभागेनसंपीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्द्धमाकृष्य मूल-बन्धोऽभिधीयते । अपानप्राणयीरैक्यं क्षयेमूत्रपुरीषयोः ।युवा भवति वृद्धोऽपि सततं मूलबन्धनात्” । एवमन्या-न्यपि स्मार्त्ताणि कर्म्माणि आयुर्वृद्धिकराणि “मत्स्यान्मोचयतो द्विजाय ददतोऽप्यायुश्चिरं वर्द्धते” “आयुष्यं प्राङ्-मुखोभुङ्क्ते” इत्यादीनि ।रसवत् अन्यान्यपि द्रव्याणि सेवितानि आयुर्वृद्धिकराणिसुश्रुते दर्शितानि तानि रसतुल्यतया रसायनानि यथा“अथातः सर्व्वोपघातशमनीयं रसायनंव्याख्यास्यामः ।पूर्वे वयसि मध्ये वा मनुष्यस्य रसायनम् । प्रयुञ्जीतभिषक् प्राज्ञः स्निगधशुद्धतनोः सदा । नाविशुद्धशरीरस्ययुक्तो रासायनो विधिः । न भाति वाससि क्लिष्टे रङ्ग-योग इवाहितः । शरीरस्योपघाता ये दोषजा मानसा-स्तथा । उपदिष्टाः प्रदेशेषु तेषां बक्ष्यामि वारणम् । शी-तोदकं पयः क्षौद्रं सर्पिरित्येकशो द्विशः । त्रिशः समस्त-मथ वा प्राक् पीतं स्थापयेद्वयः । तत्र विडङ्गतण्डुलचूर्ण-माहृत्य यष्टीमधुयुक्तं यथाबलं शीततोयेनोपयुञ्जीत शी-ततोयं चानुपिबेदेवमहरहर्मासं तदेव मधुयुक्तं भल्लातक-क्वाथेन वा मधुद्राक्षाक्वाथयुक्तं वा मध्वामलकरसभ्यां वागुडुचीक्वार्थेन वा । एवमेते पञ्च प्रयोगा भवन्ति जीर्ण्णेमुद्गामलकयषेणालवणेनाल्पस्नेहेन घृतवन्तमोदनमश्नीयात् ।एते खल्वर्शांसि क्षपयन्ति कृमीनुपघ्नन्ति ग्रहणधारण-शक्तिं जनयन्ति भासेमासे प्रयोगे वषशतमायुषोऽभिवृद्धिर्भ-वति । विडङ्गतण्डुलानां द्रोणं पिष्टपचने पिष्टवदुत्स्वेद्यविगतकषायं स्विन्नमवतार्य्य दृषदि पिष्टमायसे दृढेकुम्भे मधूदकोत्तर प्रावृषि भस्मराशावन्तर्गृहे चतुरोमासान्निदध्यात् वर्षाविगमे चोद्धृत्योपसंस्कृतशरीरः सह-स्रसम्पाताभिहुतं कृत्वा प्रातः प्रातर्यथाबलमुपयुञ्जीत, जीर्णे मुद्गामलकयूषेणालवणेनाल्पस्नेहेन घृतंवन्तमोदनम-श्रीयात् पांशुशय्यायां शयीत । तस्य मासादूर्द्ध्वं सर्वाङ्गेभ्यःकृमयो निःक्रामन्ति तानणुतैलेनाभ्यक्तस्य वंशविदलेनापहरेत् । द्वितीये पिपीलिकास्तृतीये यूकास्तथैवापहरेत्चतुर्थे दन्तनखरोमाण्यवशीर्य्यन्ते पञ्चमे प्रशस्तगुणलक्ष-णानि जायन्ते । अमानुषं चादित्यप्रकाशं वपुरधिग-च्छति दूराच्छ्रवणानि दर्शनानि चास्य भवन्ति रजस्त-मसी चापोह्य सत्वमधितिष्ठति । श्रुतिनिगाद्यपूर्वोत्पादीगजबलोऽश्वजवः पुनर्युवाष्टौ वर्षशतान्यायुरवाप्नोति ।तस्याणुतैलमभ्यङ्गार्थे । अजकर्णकषायमुत्सादनार्थे सो-शीरं, कूपोदकं स्नानार्थे, चन्दनमुपलेपनार्थे, भल्लातकवि-धानवदाहारः परिहारश्च । काश्मर्य्याणां निष्कुलीकृतानामेष एव कल्पः पांशुशय्याभोजनवर्जम् । अत्र हिपयसा शृतेन भोक्तव्यम् आशिषश्च पूर्वेण समानाः ।शोणितपित्तनिमित्तेषु विकारेष्वेतेषामुपयोगः । यथोक्तमा-गारं प्रविश्य बलामूलार्द्धपलं पलं वा पयसालीड्यपिबेत् । जीर्णे पयः सर्पिरोदनैत्याहारः । एवं द्वादश-रात्रमुपयुज्य द्वादश वर्षाणि वयस्तिष्ठति । एवं दिवसश-तमुपयुज्य वर्षशतं वयस्तिष्ठति । एवमेवातिबलानागबला-विदारीशतावरीणामुपयोगः । विशेषतस्त्वतिबलामुदकेन, नागबलाचूर्णं मधुना, विदारीचूर्णं वा क्षीरेण, शतावरीम-प्येवं, पूर्व्वेणान्यत् समानमाशिषश्च समाः । एतास्त्वौषधयोबलकामाणां शोणितंछर्दयतां विरिच्यमानानां चोप-दिश्यन्ते । वाराहीमूलतुलाचूर्णं कृत्वा ततोमात्रां मधु-युक्तां पयसालोड्य पिबेत् जीर्णे पयःसर्पिरोदनैत्या-हारः । प्रतिषेधोऽत्र पूर्ववत् क्रियाप्रयोगमुपसेवमानोवर्षशतमायुरवाप्नोति स्त्रीषु चाक्षयताम् । एतेनैव चू-र्णेन पयोऽवचूर्णशृतशीतमभिमथ्याज्यमुत्पाद्य मधुयुतसु-पयुञ्जीत सायम्प्रातरेककालं वा जीर्णे पयःसर्पिरोदनइत्याहारः । एवं मासमुपयुज्य वर्षशतायुर्भवति । जीर्णेपयः सर्पिरोदन इत्याहारः । चक्षुःकामः प्राणकामोवा वीजकसाराग्निमन्थमूलं निःक्वाथ्य माषप्रस्थं साध-येत् तस्मिन् सिध्यति चित्रकमूलानामक्षमात्रं कल्कं दद्या-दामलकरसचतुर्थभागं ततः स्विन्नमवतार्प्य सहस्रसम्पाता-भिहुतं कृत्वा शीतीभूतं मधुसर्पिभ्यां संसृज्योपयुञ्जीतयथाबलं लवणं परिहरन् भक्षयेत् जीर्णे मुद्गामलकयूषेणा-लवणेन घृतवन्तमोदनमश्नीयात् पयसा वा मासत्रय-मेवमाभ्यां प्रयोगाभ्यां चक्षुःसौपर्ण्णवद्भवत्यनल्पबलोबलवान् स्त्रीषु चाक्षयो वर्षशतायुर्भवतीति । भवति चात्र ।पयसा सह सिद्धानि नरः सनफलानि यः । भक्षयेत् ।पयसा सार्द्धं वयस्तस्य न शीर्य्यते ।अथातो मेधायुष्कामीयं रसायनं चिकित्सितं व्या-ख्यास्यामः! मेधायुःकामः श्वेतवल्गुजफलान्यातप-परिशुष्काण्यादाय सूक्ष्मचूर्णानि कृत्वा गुडेन सहसमालोढ्य स्नेहकुम्भे सप्तरात्र धान्यराशौ निदध्यात्सप्तरात्रादुद्धृत्य हृतदोषस्य यथाबलं पिण्डं प्रयच्छेद-नुदिते सूर्य्ये उष्णोदकं चानुपिवेत् । भल्लातकविधान-वच्चागारप्रवेशो जीर्णोषधश्चापराह्णे हिमाभिरद्भिः प-रिषिक्तगात्रः शालीनां षष्टिकानां च पयसा शर्करामधुरे-णौदनमश्रीयादेवं षण्मासानुपयुज्य विगतपाष्मा वल-वर्णोपेतः श्रुतिमिगादी स्मृतिमानरोगो वर्षशतायुर्भवति ।कुष्ठिनं पाण्डुरोगिणमुदरिणं वा कृष्णाया गोर्मूत्रे-णालोड्यार्द्धपलिकं पिण्डं विगतलौहित्ये सवितरि पाय-येत, अपराह्णे चालवणेनामलकयूषेण सपिर्ष्मन्तमोदनमश्नी-यात् । एवं मासमुपयुज्य स्मृतिमानरोगो वर्षशतायुर्भवतिएष एवोपयोगश्चित्रकमूलानां, रजन्याश्चित्रकमूले विशेषोद्विपलिकं पिण्डं परं प्रमाणं शेषं पूर्ववत् ।हृतदोष एव प्रतिसंसृष्टभक्तो यथाकममागारं प्रविश्यमण्डूकपर्ण्णीस्वरसमादाय सहस्रसम्पाताभिहुतं कृत्वा यथा-बलं पयसालोड्य पिबेत् पयोऽनुपानं वा तस्यां जीर्णायांयवान्नं पयसोपयुञ्जीत तिलैर्वा सह भक्षयित्वा त्रीन्मासान्पयोऽनुपानं जीर्णे पयः सर्पिरोदन इत्याहारः । एवमु-पयुञ्जानः ब्रह्मवर्चसी श्रुतनिगादी भवति वर्षशत-मायुरवाप्नोति त्रिरात्रोपोषितश्च त्रिरात्रमेनां भक्ष-येत् । त्रिरात्रादूर्द्ध्वं पयःसपिरिति चोपयुञ्जीत ।विल्वमात्रं पिण्डं वा पयसालोड्य पिबेदेवं दशरात्रमुप-युज्य मेधावी वर्षशतायुर्भवति । हृतदोष एवागारं प्रविश्यप्रतिसंसृष्टभक्तोब्राह्मीस्वरसमादाय सहस्रसम्पाताभिहुतंकृत्वा यथाबलमुपयुञ्जीत जीर्ण्णौषधश्चापराह्णे यवागूमल-वणां पिबेत् क्षीरसात्म्यो वा पयसा भुञ्जीत । एवं सप्तरा-त्रमुपयुज्य ब्रह्मवर्चसी मेधावी भवति । द्वितीयं सप्तरात्र-मुपयुज्य ग्रन्थमीप्सितमुत्पादयति । नष्टञ्चास्य प्रादुर्भवति ।तृतीयं सप्तरात्रमुपयुज्य द्विरुच्चारितं शतमम्यवधारयति ।एवमेकविंशतिरात्रमुपयुज्यालक्ष्मीरपक्रामति मूर्त्तिमती चैनंवाग्देव्यनुप्रविशति सर्वाश्चैनं श्रुतय उपतिष्ठन्ति । श्रुतधरःपञ्चवर्षशतायुर्भवति । ब्राह्मीस्वरसप्रस्थद्वये घृतप्रस्थं विड-ङ्गतण्डुलानां कुडवं द्वे द्वे पले वचात्रिवृतयोर्द्वादश हरीत-क्यामलकविभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकध्यं साधयित्वास्वनुगुप्तं निदध्यात् । ततः पूर्वविधानेन मात्रां यथाबल-मुपयुञ्जीत जीर्णे पयःसर्पिरोदन इत्याहारः । एतेनो-र्द्ध्वमधस्तिर्य्यक्कृमयो निःक्रामन्ति अलक्ष्मीरपक्रामति ।पुष्करकर्णः स्थिरवयाः श्रुतनिगादी त्रिवर्षशतायुर्भवत्ये तदेवकुष्ठविषमज्वरापस्मारोन्मादविषभूतग्रहेष्वन्येषु च महा-व्याधिषु च संशोधनमादिशन्ति । हृतदोष एवागारंप्रविश्य हैमवत्या वचायाः पिण्डमामलकमात्रमभिहुतंपयसालोड्य पिबेत् जीर्णे पयःसर्पिरोदन इत्याहारः ।एवन्द्वादशरात्रमुपयुञ्जीत ततोऽस्य श्रोत्रं विव्रियते द्विर-भ्यासात् स्मृतिमान् भवति त्रिरभ्यासाच्छतमादत्ते चतुर्द्धादशरात्रमुपयुज्य सर्व्वं तरति किल्विषं तार्क्ष्य दर्शनमुत्पद्यतेशतायुश्च भवति । द्वे द्वे पले इतरस्या वचाया निः-क्वाथ्य पिबेत् पयसा समानं भोजनं समाः पूर्व्वेणा-शिषश्च । वत्ताशतपाकंवा सर्पिर्द्रोणमुपयुज्य पञ्चवर्ष-शतायुर्भबति गलगण्डापचीश्लीपदस्वरभेदांश्चापहन्तीति ।अथायु कामीयं वक्ष्यामः । मन्त्रौषधसमायुक्तं संवत्सर-फलप्रदम् । विल्वस्य चूर्णं पुष्ये तुहुतं वारान् सहस्रशः ।श्रीसूक्तेन नरः कल्ये ससुवर्णं दिने दिने । सर्पिर्मधु-युतं लिह्यादलक्ष्मीनाशनं परम् । त्वचं विल्वस्य मूलस्यमूलक्वाथं दिने दिने । प्राश्नीयात् पयसा सार्द्धं स्नात्वाहुत्वा समाहितः । दशसाहस्रमायुष्यं स्मृतं युक्तरथं भवेत् ।हुत्वा विशालाक्वाथन्तु मधुलाजैश्च संयुतम् । अमोघंशतसाहस्रं युक्तं युक्तरथं स्मृतम् । सुवर्णपद्मवीजानिमधुलाजाः प्रियङ्गवः । गव्येन पयसा पीतमलक्ष्मींप्रतिषेधयेत् । नीलोत्पलदलक्वाथो गव्येन पयसा शृतः ।ससुवर्णतिलैः सार्द्धमलक्ष्मीनाशनः स्मृतः । गव्यं पयःसुवर्णञ्च मधूच्छिष्टञ्च माक्षिकम् । पीतं शतसहस्राभिहुतंयुक्तरर्थं स्मृतम् । वचाघृतसुवर्णञ्च विल्वचूर्णमिति त्रयम् ।मेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्द्धनम् । वासामूलतुला-क्वाथे तैलमावाप्य साधितम् । हुत्वा सहस्रमश्नीया-न्मेध्यमायुष्यमुच्यते । यावकांस्तावकान्भक्षेदभिभूय यवां-स्तथा । पिप्पलीमधुसंयुक्तान् शिक्षाचरणवद्भवेत् । मध्वा-मलकचूर्णानि मुवर्णमिति च त्रयम् । प्राश्यारिष्टगृही-तोऽपि मुच्यते प्राणसंशयात् । शतावरीघृतं मम्यगुपयुक्तंदिने दिने । सक्षोद्रं ससुवर्णं च नरेन्द्रं स्थापयेद्वशे । गोच-न्दनामोहनिकामधूकं माक्षिकं मधु । सुवर्णमिति संयोगःपेयः सौभाग्यमिच्छता । पद्मनीलोत्पलक्वाथे यष्टीमधु-कसंयुते । सर्पिरासादितं गव्यं ससुवर्णं सदा पिबेत् ।पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे । अलक्ष्मीघ्नं सदा-युष्यं राज्याय सुभगाय च । यत्र नोदीरितो मन्त्रो योगे-ष्वेतेषु साधने । शब्दिता तत्र सर्व्वत्र गायत्री त्रिपदीभवेत् । पाष्मानं नाशयन्त्येता दद्युश्चौषधयः श्रियम् ।कुर्य्युर्नागबलं चापि मनुष्यममरोपमम् । सतताध्ययनंबादः परतन्त्रावलोकनम् । तद्विद्याचार्य्यसेवा च बुद्धि-मेधाकरोगणः । आयुष्यं भोजनं जीर्णेवेगानाञ्चाविधा-रणम् । ब्रह्मचर्य्यमहिंसा च साहसानाञ्च वर्जनम्” ।एवम् “सद्योमांस नवान्नञ्च वाला स्त्री क्षीरभोजनम् ।घृतमुष्णोदकं चैव सद्यः प्राणकराणि षट्” इत्याद्युक्तानिसुश्रुते हिताहितीयाध्याये हिततया चोक्तानि च आयु-र्वृद्धिकराणि ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
