| YouTube Channel

आयुर्दाय (AyurdAya)

 
Monier Williams Cologne
English
आयुर्—दाय
m.
predicting the length of a man's life from the aspect of the stars.
Shabdartha Kaustubha
Kannada
आयुर्दाय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗ್ರಹಗಳು ಬಲವಾದ ಸ್ಥಾನಗಳಿದ್ದು ಹೆಚ್ಚು ಆಯಸ್ಸನ್ನು ಕೊಡುವುದು
व्युत्पत्तिः - > आयुषो दायः दानम्
Aufrecht Catalogus Catalogorum
English
आयुर्दाय astrol. L. 1086.
वाचस्पत्यम्
Sanskrit
आयुर्दाय
पु०
आयुषोदायः दानम् बलविशेषस्थितियोगा-दिभिः ज्योतिषोक्ते रव्याधिभिः आयषोदाने तद्विवरणंश्रीपतिपद्धतौ यथा“आयुर्ज्ञानादेव होराफलानां कर्त्तुं यस्मान्निर्ण्णयः शक्य-तेऽत्र आयुर्दायः संप्रदायागतोऽयं सच्छिष्पाणां प्रीतयेकथ्यतेऽत्र एकोनदीधितिसमादिह गच्छतो यद्रूपादि-रूपचयसंकलितद्वयं स्यात् चेष्टोच्चरश्मिजमथ स्वमरी-चिभक्तं तज्जायतेऽत्र गुणकद्विंतयं तदाख्यम् ऊने भवेतां निजदीधितिभ्यः श्रेढीफले ते यदि रश्मियुक्ते ।तदर्द्धिते स्वांशुभिरुद्धृते ते तद्घातमूलं गुणकः स्फुटः स्यात्” ।इति गुणकानयनमत्रायं भेदस्तट्टीकायामुक्तः “अल्पाश्चेत्किरणाः सैकाश्चतुर्भक्ता भवेद्गुणः अधिकाश्चेन्निरेकास्तेदलिता गुणको भयेत्” “वर्गोत्तमे स्वभवने स्वनवांशके चस्वत्र्यंशके गुणकोद्वितयं निरुक्तः अध्यद्धरूप ३/२मधिमित्रगृहे सुहृद्भेसत्र्यंशकं ४/३ समगृहे खलु रूपमेव ।त्र्यंशोनितं २/३ रिपुगृहेऽध्यरिभेदलं १/२ स्यादेभ्योगुणो-भवति यः खलु कश्चिदेकः वेदोद्धृतः सभगुणोगुणकैः प्रदि-ष्टोहोरादिवर्गगुणकस्तु भवेत्तदर्द्धम् एतेऽपि गुण्यागदि-तामहद्भिरपेक्षयानन्तर ताडकानाम् नगांशका ११ रुद्र-मिताह्यभीष्टराशौ सुहृद्वेश्मनि मूर्च्छनांशाः १९ नवाश्विनो१ रूपमुदासराशौ २१ कुद्व्यंशका १३ विश्वसमा द्विषद्भे ।त्रयो नगांशा अधिशत्रुराशावेते भसंज्ञाअथ राशिवर्जम् ।वर्गोत्तमात्प्रीज्झा नवत्रिभागस्थिते ग्रहे तु द्वितयं गुण-श्चेत् एतैरभीष्टादिगुणैर्निहन्यादुदीरितैराशिगुणं पुन-स्तम् गृहादिके वर्गणे स्वकीये द्विकोगुणस्त्रिंशविवर्ज्जितःसः अभीष्टभे मित्रगृहे नवांशा विश्वेऽथ रूपञ्च समस्यगेहे नवांशकाः पञ्च विरोधराशौ गुणांशकः स्यादधिवै-रिणोभे पूर्बम्भपूर्व्वागुणकाय उक्ता वर्गेषु सप्तस्विह गु-ण्यसंज्ञाः गुण्यागुणैस्तैस्त्वधिकारलब्धैरुक्तै गुणैः स्यादथमिश्रितैस्तैः स्मृतोबुधैराश्रयसंज्ञितोऽयमस्य स्पुटस्यापिबधो भवेद् यः तस्यैव मूलं खलु कर्मतोऽस्य आयुर्विधानेगुणकार उक्तः ग्रहस्य लिप्ताः खखसिद्ध २४०० भक्ताःप्रोक्ताः कलाः शेषमिहायुषोऽत्र लग्नं ग्रहोनं यदिषड्गृहेभ्यो हीनं तदानीं हरसंभवः स्यात् नैवा-धिके तत्र खगोनलग्ने लिप्तीकृते राशिकला १८००विभक्ते आयुःकलानां हरः स्फुटः स्यात् रूपाद्य-दाल्पः सहरस्तदानीम् रूपाद्विशुद्धोगुणकस्तु तासामेवंहि पापद्युचरोनलग्ने शुभोनलग्ने तु हरोद्विनिघ्नआयुः कलाभ्योहरलब्धलिप्ताः विशोधनीया यदिरूपकोनोहरस्तदानीं गुणकेन गुण्यः चक्रार्द्ध-हानौ बहुषु द्वयोर्वा द्युचारिणोरेकगृहस्थयोस्तु सत्या-भिधानस्य मतेन सत्यं स्वांशं हरत्येव बलोत्कटोयः एवंकार्य्या चक्रपातार्द्धहानिरायुर्दाये ह्यंशजे पिण्डजेच” इत्यंशायुः “नैसर्गाख्ये जीवशर्मोदिते हारंकृत्वात्वेककोनोगुणः स्यात्” निसर्गायुषिविशेषः “आयु-र्लिप्ताः स्वगुणगुणिता व्योमशून्याश्वि २०० भक्ताअब्दामासादिवसघटिकाः स्युर्विनाड्यः क्रमेण” “एवंयथायथं गुणकगुणिता आयुलिप्ताः २०० भक्ताअब्दा भवन्ति शेषं विकला द्वादशभिर्गुणयित्वा षष्ट्या विभज्यलब्धं कलासु संयोज्य पुनरपि ताः कला द्विशत्या विभजेत्तेन मासा भवन्ति पुनःशेषं त्रिंशता गुणयित्वा कलासुसंयोज्य द्विशत्या भागे दिवसा भवन्ति पुनःशेषंषष्ट्यागुण्य कलासु संयोज्य द्विशत्या विभज्य लब्धं घटिकाभवन्ति एवं पलानि च” “एवं सर्वं द्युचरजनितंह्यायुरनीय लग्नादायुः साध्यं कथितविधिना किन्तु लग्नेविशेषः” “एवं द्युगणजनितमिति रव्यादिग्रहसूचितं तेनतत्तद्ग्रहदत्तायुरुच्यते इत्यर्थः” “लग्ने तु वीर्य्याभ्यधिकेभतुल्यैर्वर्षैर्युतं तत्र विधेयमायुः भागादिकादप्यनुपातलब्धंमासादिना संयुतमेव कार्य्यम्” वीर्य्याधिके षडधिके इत्यर्थः ।अनुपातस्तु लग्नभागादि द्विगुणं कृत्वा पञ्चभिर्भक्त्वा लब्धंमासाः शेषं त्रिंशतागुण्य पञ्चभिर्भक्तं लब्धं दिनानिशेषं षष्ट्यागुण्य पञ्चभिर्भक्त्वा लब्धं घटिका एवं पलादि-कमुन्नेयम् एवं लग्नायुः” अथ रव्यादीनां पिण्डायुः ।“नन्देन्दवो १९ वाणयमाः २५ शरक्ष्मा १५ दिवाकराः १२पञ्चभुवः १५ कुपक्षाः २१ नखाश्च २० भास्वत्प्रमुखग्रहाणांप्रिण्डायुषोऽब्दा निजतुङ्गगानाम् निजोच्चशुद्धः खच-रोविशोध्योभमण्डलात् षद्भवनोनकश्चेत् यथा स्थितः ।षद्भवनाधिकस्तु लिप्तीकृतः संगुणितो निजाब्दैः ।तत्र खाभ्ररसचन्द्रविलोकै २१६०० रुद्धृते सतियदाप्यते फलम् वर्षमासदिननाडिकाच्च्युतं तद्धिपिण्डभवमायुरिष्यते” इति पिण्डायुः “त्र्यंशुकंहरति शत्रुभे ग्रहः स्वायुषोऽत्र तु वक्रचारगः ।सूर्य्यलुप्तकिरणोऽर्द्धहारकः प्रोझ्य भार्गवदिनेशनन्दनौ ।खचरोजायते योऽर्द्धत्र्यंशयोरपहारकः आंयुषः सहरेदर्द्धं त्र्यंशं शुक्रशनैश्वरौ प्राग्वत्फलानि स्वहरै-र्विधाय तदैक्यती यत्ग्रहसंख्ययाप्तम् तदत्र ह्रासंबलिनो ग्रहस्य जगौ मणित्थोहरिरित्थमेव हरयुति-र्विहृनाग्रहसंख्यया हरोपचयश्च ततः फलम् ।अधिकवीर्यवतोऽम्बरचारिणो निगदतीति मुनिः किल देवलः ।लिप्तीभूतैर्लग्नभागैर्निहन्यादादायुर्दाय खेचराणां पृथक्-स्थम् व्योमाकाशर्त्विन्दुपक्षै २१६०० र्भजेत्तं स्वायुर्दायात्शोध्यमब्दादि लब्धम् एवं क्रूरे लग्नगे सौम्यदृष्टे तस्मि-न्दाये तत्फलार्द्धं विशोध्यम् एतद्दाये नांशसंज्ञे विधेयंपिण्डायुर्वत् कर्म नैसर्गिकेऽपि, अत्र विशेषा लघुपद्धतौ ।“लग्नेचेदशुभस्तदोदयगृहात् हित्वांशनिघ्नं फलं क्रूरस्योदयभावजं यदि तनौ द्वौ तद्बलिष्ठस्य चेत् साम्येऽधिकभावजेन बलयोस्तेन ग्रहायुः कला निघ्नाः स्वाभ्ररसेन्दु-दस्र २१६०० विहृता लब्धं त्यजेत् स्वायुषः” लग्नगपा-पस्य लग्ने सत्त्वे तु त्यागः “योयो भावः स्वामिदृष्टोयुतो वेत्यादिना” तस्य पुष्टत्वाभिधनात्, “क्रूरःसोऽपिशुभेक्षितो यदि तदा लब्धस्य खण्डं त्यजेत् नैतत् कर्म्मविलग्नपे तनुगते क्रूरेऽपि नांशायुषीत्युक्तेश्च” ग्रहाणांबलं बलशब्दे वक्ष्यते नखाः शशी द्वौ नवकं९ धृतिश्च १८ कृतिः २० खवाणा ५० रविपूर्वकाणाम् इयंनिरुक्ताक्रमशोग्रहाणां नैसर्गिके ह्यायुषि वषेसंख्या” ।इति नैसर्गिग्रहदत्तायुः इदानीमंशायुःप्रभृतीनां कस्य कुत्रग्राह्यता तदाह “अंशोद्भवं लग्नबलात् प्रसाध्य-मायुश्च पिण्डोद्भवमर्कवीर्य्यात् नैसर्गिकं चन्द्रमसोबलेनब्रूमस्त्रयाणामथ वीर्य्यसाम्ये अंशोद्भवं लग्नबलेन हन्यात्पिण्डाख्यमायुश्च बलेन भानोः नैसर्गिकं चन्द्रमसो बलेनसर्वाण्यथैकत्र विधाय तानि विलग्नतिग्मांशुहिमद्युतीनांहरेद्बलैक्येन ततो यदाप्तम् वर्षाद्यमायुस्त दहस्फुटं स्यात्श्रीनीलकण्ठादय एवमूचुः लग्नसूर्यशिनोबलशून्याःस्युर्यदात्र परमायुरगांशम्” हीनबलत्वमाह दामोदरःरूपत्रयाल्पं किल षड्बलैक्यं भवेद्विलग्नस्य खगस्य यस्य ।स्वस्वामिना नो सहितो दृष्टः हीनवीर्य्यः कथितो-मुनीन्द्रः” केशवोऽपि “त्र्यल्पे हीनबली बली षडधिकेवीर्य्ये ग्रहश्चोदयः” “सर्व एव स्वचरा ददतीदं जीवश-र्मगदितं हि तदायुः ग्रहः स्वोच्चहीनः चेत् षड्-गृहोनो भचक्राद्विशीध्योऽथ भागीकृतः सन् कुवेदर्त्तुनागै८६४ र्हतो वेदखाक्षौ ५०४ र्विभक्तोदिनाद्यम्भवत्येव-मायुः” अहोभ्यः खरामै ३० हृतेभ्योऽधिमासाः पत-ङ्गैश्च तेभ्योभवेयुस्तदाब्दाः भचक्रार्द्धहान्यादिकोऽन्यो-विधिर्यः सपिण्डोद्भवायुर्वदेवात्र कार्यः इति आयुः-स्वथैतेषु बलाढ्यलग्ने विहाय राशीन् कृतलिप्तिकेऽत्रभक्ते द्विशत्या २०० फलमब्दपूर्वं यत्स्यात् विलग्नायुषितच्च योज्यम् लग्नार्कयोरर्कशशाङ्कयोश्च लग्नोडुपत्योरपिवीर्यसाम्ये तदायुषोरैक्यदलं भवेद्यत् तत् श्रीधराद्यैःस्फुटमायुरुक्तम्” इति लग्नायुः “ये धर्मकर्मनिरता विजि-तेन्द्रियाये ये पथ्यभोजनजुषोद्विजदेवभक्ताः लोकोत्तरन्द-धति ये कुलशीललीलां तेषामिदङ्गदितमायुरुदारधीभिः” ।अष्टवर्गादपि आयुर्दायज्ञानं भवति तच्चाष्टवर्गशब्दे उक्तप्रायम् ५२२ पृष्ठे दृश्यम् नक्षत्रायुःकेन्द्रायुःप्रभृतीनांविस्तरभयादिहानुक्तिराकरे तच्च दृश्यम्