आयुः (AyuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindi[लंबे समय से] जीवन
E Bharati Sampat
Sanskrit(न)(आयुस्) एति । इण्(गतौ)+उसिः। ‘एतेर्णिच्च’ उ०१.१८३। १.जीवितकालः। ‘शृङ्गं सदृप्रविनयाधिकृतः परेषामत्युच्छ्रितं न ममृषे न तु दीर्घमायुः’ रघुः९.६१। २.जीवितकालवृद्ध्यर्थं क्रियमाण होम ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit आयुः, आयुष, जीवनम्, जीवा, जीवित्वम्, जीव्यम्, मन्दसान
आमृत्योः कालः।
"तस्य जीवनं परोपकारे एव व्यतीतम्।"
आयुः
जन्मनः आरभ्य गतः जीवनकालः।
"श्यामस्य आयुः द्विवर्षाधिकः अस्ति।"
आयुः
मण्डूकानां राजः ।
"आयुः वर्णनम् महाभारते वर्तते"
आयुः
एकः पुरुषः ।
"आयुः इन्द्रेण उपद्रुतः"
आयुः
अग्निविशेषः ।
"आयुः उर्वशीपुरुरवसोः पुत्रः आसीत्"
आयुः
एकः उत्सवः ।
"आयुषः उल्लेखः कोषे अस्ति"
आयुः
पुरुषनामविशेषः ।
"आयुः इति नामकानां नैकेषां पुरुषाणाम् उल्लेखः महाभारते हरिवंशे च अस्ति"
वैजयन्तीकोषः
SanskritWord: आयुः
Root: आयु
Gender: पुं
Number: all
अर्थः ⇒ पशुयागस्थः पाशुबन्धिकः अग्निः
Meaning(s):
⇒ Fire at an animal sacrifice
Shloka(s):
1|2|25|1 ► सभ्यावसथ्यौ तत्पूर्वावायुः स्यात् पाशुबन्धिकः। (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
➠ 1|2|25|1 ⇢ आयुः (आयु) (पुं) ⇒ Fire at an animal sacrifice ⇒ पशुयागस्थः पाशुबन्धिकः अग्निः
Related word(s):
परा_अपरासंबन्धः ➡ यज्ञाग्निः
जातिः ➡ इन्धनजम्
शब्दकल्पद्रुमः
Sanskritआयुः, (एति इण् गतौ छन्दसीण इत्युण् ।)जीवितव्याप्यकालः । इति जटाधरः ॥
(जीवनं, प्राणाः । यथा महाभारते, --“अहं केशरिणः क्षेत्रे वायुना जगदायुना ।जातः कमलपत्राक्षो हनूमान्नाम वानरः” ।स्वनामख्यातश्चन्द्रवंशीयो राजा, स च नहुषस्यपिता । यथा महाभारते, --“नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।तत्रैव पूर्व्वपूर्व्वेषामायोर्वंशधरः सुतः” ।पुरूरवसः पुत्त्रः स्वनामख्यातो राजा ।यथा हरिवंशे, --“बुधस्य तु महाराज विद्वान् पुत्त्रः पुरूरवाः” ।“तस्य पुत्त्रा बभूवुस्ते सप्त देवसुतोपमाः ।दिवि जाता महात्मान आयुर्धीमानमावसुः” ।हृदस्य पुत्रः स्वनामख्यातोऽसुरः ।यथा हरिवंशे, --“हृदस्य पुत्त्रो ह्यायुर्वै शिविः कालस्तथैव च” ।)
आयुः, [स्] (एति गच्छतीति इण् + उसि +णिच्च ।) जीवितकालः । परमायुः । इत्यमरः ॥
तत्-पर्य्यायः । विजीवितं २ नित्यगः ३ अनुबन्धः ४ ।“पुरुषाः सर्व्वसिद्धाश्च चतुर्वर्षशतायुषः ।कृते त्रेतादिकेऽप्येवं पादशो ह्रसति क्रमात्” ॥
इति वैद्यकं ॥
“अरोगाः सर्व्वसिद्धार्थाश्चतुर्व्वर्षशतायुषः ।कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः” ॥
इति मनुः १ । १८३ ॥
घृतं । इति राजनिर्घण्टः ॥
(“नाभिस्थः प्राणपवनः स्पृष्ट्वा हृत्कमलान्तरं ।कण्ठाद्वहिर्विनिर्याति पातुं विष्णुपदामृतं ॥
पीत्वा चाम्बरपीयुषं पुनरायाति वेगतः ।प्रीणयन् देहमखिलं जीवयन् जठरानलम् ॥
शरीरप्राणयोरेवं संयोगादायुरुच्यते” ।इति शार्ङ्गधरः ॥
“शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितं ।नित्यगश्चानुबन्धश्च पर्य्यायैरायुरुच्यते” ॥
इति ।“वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले । सन्तिपुनरधिकोनवर्षशतजीविनो मनुष्याः । तेषांविकृतिवर्ज्ज्यैः प्रकृत्यादिबलविशेषैरायुषो लक्ष-णतश्च प्रमाणमुपलभ्य वयसस्त्रित्वं विभजेत” ।“तन्त्रेण तत्रायुरुक्तं स्वलक्षणतो यथावदिहैवतत्र शरीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्यविशेषेण यौवनवतः समन्वागतबलवीर्य्यपौरुष-पराक्रमस्य ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदायेवर्त्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य स-मृद्धसर्व्वारम्भस्य यथेष्टविचारणात् सुखमायु-रुच्यते” । इति च ।“असुखमतो विपर्य्ययेण हितैषिणः पुनर्भूताना-म्परस्वादुपरतस्य सत्यवादिनः शमपरस्य परी-क्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहत-मुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोप-शमशीलस्य वृद्धोपसेविनः सुनियतरागरोगेर्ष्या-मदमानवेगस्य सततं विविधप्रदानपरस्य तपो-ज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमि-मञ्चासुञ्चापेक्षमाणस्य स्मृतिमतो हितमायु-रुच्यते” । इति च ॥
“अहितमतो विपर्य्ययेण प्रमाणमायुषस्त्वर्थेन्द्रिय-मनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यते अ-निमित्तैरिदमस्मात् क्षणान्मुहूर्त्ताद्दिवसात्त्रिपञ्च-दश-सप्तदश-द्वादशाहात् पक्षान्मासात् षण्मा-सात् संवत्सराद्वा स्वभावमापत्स्यते इति । तत्र-स्वभावः प्रवृत्तेरुपरमो मरणमनित्यतानिरोध-इत्येकोऽर्थः । इत्यायुषः प्रमाणमतो विपरीतम-प्रमाणम्” । इति च ॥
“वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले तस्य नि-मित्तं प्रकृतिगुणात्मसम्पत् सात्मोपसेवनञ्चेति” ।इति च चरकः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
