| YouTube Channel

आयस्तः (AyastaH)

 
E Bharati Sampat
Sanskrit
(वि) आ+यसु(प्रयत्ने)+क्तः। ‘निष्ठा’ ‘निष्ठा’ ३.२.१०२। १.क्षिप्तः। ‘आयस्त भीमभुजमन्दरवेल्लनाभिः’ वेणी०६.९। २.तेजितः। ३.कष्टकरम् ४.कुपितः। आ+यसु(प्रयत्ने)+क्तः(कर्मणि)। ‘निष्ठा’ ‘निष्ठा’ ३.२.१०२। ५.श्रान्तः। ‘आयस्तमैक्षत जनः चटुलाग्रपादम्’ माघः५.६। ‘आयस्तः सुरसरिदोघरुद्धवर्त्मा’ ७.३२।
शब्दकल्पद्रुमः
Sanskrit
आयस्तः, त्रि, (आङ् + यस् + कर्त्तरि क्तः ।) तेजितः ।क्षिप्तः क्लेशितः कुपितः हतः इति मेदिनी
(प्रयत्नशीलः, कार्य्योत्सुकः, यत्नसिद्धः, कष्टसिद्धः ।)