| YouTube Channel

आयसं (AyasaM)

 
शब्दकल्पद्रुमः
Sanskrit
आयसं,
क्ली,
(अयस् + अण् ।) लौहं इतिभरतः राजनिर्घण्टश्च
अयोनिर्मितादौ, त्रि
(यथा महाभारते, --“आयसं हृदयं मन्ये तस्य दुष्कृतकर्म्मणः” ।यथा मनुः, ३१५ ।“शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा” ।रघुवंशे, १७ ६३ ।“स चकर्ष परस्मात् तदयस्कान्त इवायसम्” ।(अयोजनितार्थे यथा, --“विपाके कटु शीतञ्च सर्व्वश्रेष्ठं तदायसम्”
इति वैद्यकचक्रपाणिसंग्रहे
)