आयन (Ayana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishआयन [āyana], Coming, approaching.
आयन [āyana], Belonging to the solistice (as in उत्तरायण, दक्षिणायन).
Monier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiआयनम्
- आ+यम्+ल्युट्
"लम्बाई, विस्तार"
आयनम्
- आ+यम्+ल्युट्
"नियंत्रण, निग्रह"
आयनम्
- आ+यम्+ल्युट्
तानना
Sanskrit Tibetan
Tibetankhra ma
आयन
वाचस्पत्यम्
Sanskritआयन अयनमेव स्वार्थे अण् आ + अयनं वा प्रा० स० ।१ सम्यगामने “आयने ते परायणे दूर्व्वा रोहन्तु पुष्पिणीः”अ० १०, १४२, ८ । अयनस्येदम् अण् । ग्रहाणांदक्षिणोत्तरगमनरूपायनस्य २ सम्बन्धिनि तच्च आयनव-लनायनदृक्कर्म्मादि ज्योतिषप्रसिद्धं तत्रायनवलनं यथासि० शि० “युतायनांशोडुपकोटिशिञ्जनी जिनांशमौर्व्या१ ३९७ गुणिता विभाजिता । द्युजीवया लब्धफलस्यकार्मुकम् भवेच्छंशाङ्गायनदिक्कमायनम्” । “ग्रहस्यसायनांशस्य कोटिज्या जिनांशज्यया गुण्या द्युज्ययाभक्ता फलस्य चापमायनं वलनं भवति यस्मिन्नयनेग्रहोवर्त्तते तद्दिक् भवति” प्रमिता० । आयनदृक्कर्म सि० शि० उक्तं यथा । “आयनं वलनमस्फटेषुणासंगुणं द्युगुणभाजितं हतम् । पूर्णपूर्णधृतिभिर्गृहाश्रित-व्यक्षभोदयहृदायनाः कलाः । अस्फुटेषुवलनाहतिस्तु वायष्टिहृत् फलकलाः स्युरायनाः । ता ग्रहेऽयनपृषत्कयोःक्रमादेकभिन्नककुभोरृणं धनम्” । “ग्रहस्य यदायनं वलनंतदस्फुटशरेण संगुण्य तद्द्युज्यया भजेत् । फलमष्टा-दशशतैः १८०० संगुण्य यस्मिन् राशौ ग्रहोवर्त्तते तस्यनिरक्षोदयासुभिर्विभजेत् । फलमायनकला भवन्ति । अथवायनवलनकला अस्फुटेन शरेण संगुण्य यष्ट्या विभजेत् ।फलमायनकलाः स्वल्पान्तरा भवन्तीत्यनुकल्पः । ग्रहोयस्मिन्नयने वर्त्तते तस्यायनस्य ग्रहशरस्य च यद्येका दिक्-तदा ता आयनाः कला ग्रहे ऋणं कार्य्याः । यदि तयो-र्भिन्ना दिक् तदा धनं कार्याः । एवं कृतायनदृक्वर्मकोग्रहो भवति । अत्रोपपत्तिर्गोले सविस्तराभिहिता ।अथेहापि किञ्चिदुच्यते । क्रान्तिवृत्ते यद्ग्रहस्थानचिह्नंतद्यदा क्षितिजे लगति न तदा ग्रहः । यतोऽसौशराग्रे । शराग्रं हि कदम्बाभिमुखम् । यदोत्तरकदम्बःक्षितिजादुपरि भवति तदा तदुन्मुखेन शरेण ग्रहः क्षिति-जादुन्नाम्यते । क्षितिजकदम्बयोरन्तरं तदेवोत्तरमायनंवलनम् । यदा क्षीतिजादधः कदम्बस्तदा शरेण ग्रहोनाम्यते क्षितिजकदम्बयोरन्तरं तदा दक्षिणं वलनम् ।अतो वलनवशेन ग्रहस्योन्नामनं नामनं च । उन्नामितोग्रह आदावेवोदितः । नामितः पश्चादुदेष्यति । स चकियता कालेनेति तदायनं त्रैराशिकेन । यदि त्रिज्या-तुल्ये कर्णेकदम्बक्षितिजयोरन्तरकला वलनसंज्ञा लभ्यन्तेतदा अस्फुटशरतुल्ये किमिति फलं ग्रहादधोऽवलम्ब-रूपाः कला भवन्ति । ग्रहस्थानें यद्द्युज्यावृत्तं तत्र ताजीवारूपाः । तासां त्रिज्यावृत्तपरिणामायान्योऽनु-पातः । यदि द्युज्यावृत्तएतावती ज्या तदा त्रिज्यावृत्तेकियतीत्येवं याः फलकलास्ता एवासवः । फलस्य धनुःस्वल्पत्वान्नोत्पद्यत इति न कृतम् । तैः क्रान्तिवृत्तेपरिणामायान्योऽनुपातः । यदि निरक्षोदयासुभी राशिकलाअष्टादश शतानि लभ्यन्ते तदैभिरसुभिः किमिति फलं क्रा-न्तिवृत्तपरिणताः कला भवन्ति । यदोत्तरं किल त्रलनमुश्रुरश्चविक्षेपस्तदा तेन विक्षेपेणोन्नामितो ग्रहो यावत् तितिजंनीयते तावत् क्रान्तिवृत्तग्रहस्थामात् पृष्ठतः क्रान्तिवृत्तंक्षितिजे लगति तदेव स्थानं कृतदृक्कर्मको ग्रह । किंबहुना गोले क्रान्तिमण्डले यथास्थानं विमण्डलं विन्यस्यतत्र ग्रहं च दत्त्वा चिह्नं कार्यम् । अथ ध्रुवाद्ग्रहोपरिनीयमानं वृत्ताकारं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्रकृतदृक्कर्मको ग्रहः । एवं ध्रुवान्नीयमानेन सूत्रेण शरकृतंत्र्यस्रं भव्ति । क्रान्तिवृत्तग्रहस्यानादग्रतः पृष्ठतो वाआयनकलातुल्येऽन्तरे तत् सूत्रं क्रान्तिवृत्ते लगति ।अत आयनकला भुजः, अस्फुटःविक्षेपः कोटिः, शरा-ग्रक्रान्तिवृत्तयोरन्तरे यावत् सूत्रखण्डं स तत्र कर्णः ।एतत् त्र्यस्रं वलनत्र्यस्रसंभवम् । अतस्त्रैराशिकेन वलन-कलानामानयनम् । यदि यष्टिकोट्या वलनकलाभुजोलभ्यते तदा अस्फुटविक्षेपकोट्या किमिति फलमायन-कला इति सर्वमुपपन्नम्” प्रमिताक्षरा ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
