| YouTube Channel

आम्रावर्त्तः (AmrAvarttaH)

 
शब्दकल्पद्रुमः
Sanskrit
आम्रावर्त्तः,
पुं,
(आम्रस्य आवर्त्तः ।) आम्रशुष्करसः तत्पर्य्यायः आम्रातकः आम्सत्वइति भाषा अस्य गुणाः तृष्णाच्छर्द्दिवातपित्त-हरत्वम् सारकत्वम् रुचिकारित्वम् सूर्य्यां-शुभिः पाकात् लघुत्वञ्च “पक्वस्य सहकारस्य-कटे विस्तारितो रसः घर्म्मशुष्को मुहुर्दत्तआम्रातक इति स्मृतः”
इति राजनिर्घण्टः
(यदुक्तम् ।“आम्रावर्त्तस्तृषाच्छर्द्दिवातपित्तहरः सरः ।रुच्यः सूर्य्यांशुभिः पाकाल्लघुश्च हि कीर्त्तितः” ।)