आम्रः (AmraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishआम्रः [āmrḥ], [अम् गत्यादिषु रन् दीर्घश्च 2.16.] The mango tree. -म्रम् The fruit of the mango tree. -अस्थि The seed of the mango tree.
आवर्त of a tree (आम्रातक).
inspissated mango juice. (-र्तम्) the fruit of आम्रातक. -कूटः of a mountain
सानुमानाम्रकूटः 17. -गन्धकः of a plant (समष्ठिलवृक्ष
सुरण). -निशा of the plant Curcuma Reclinata (Mar. आंबेहळद). -पञ्चमः A particular Rāga in music.-पाली of a prostitute famous for her beauty.-पेशी [आम्रस्य पेशीव] a portion of dried mango fruit.-फलप्रपाणकम् A cooling drink made of mangoes. -वण [आम्रस्य वनम् VIII.4.5.] a grove of mango trees
सो$हमाम्रवणं छित्त्वा Rām.
Apte 1890
Englishआम्रः [अम् गत्यादिषु रन् दीर्घश्च Uṇ. 2. 16] The mango-tree.
म्रं The fruit of the mango-tree.
Comp.
आवर्तः {1} N. of a tree (आम्रातक). {2} inspissated mango juice. (
र्तं) the fruit of आम्रातक.
कूटः the name of a mountain
सानुमानाम्रकूटः Me. 17.
गंधकः N. of a plant (समष्ठिलवृक्ष).
पेशी [आम्रस्य पेशीव] a portion of dried mango-fruit.
वणं [आम्रस्य वनं cf. P. VIII. 4. 5] a grove of mango trees
सोहमाम्रवणं छित्त्वा Rām.
Apte Hindi
Hindiआम्रः
- अम्+रम्+दीर्घः
आम का वृक्ष
आम्रः
- अमुगत्यादिषु रन्दीर्घश्च
आम का वृक्ष
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
E Bharati Sampat
Sanskrit(पुं) अम्यते - अम (गत्यादौ) + ‘रक्’ दीर्घश्च । ‘अभितम्यो दीर्घश्च’ (उ .२.१६) । १. चूतः , रसालः , सहकारः (वृक्षः) ।
Wordnet
Sanskrit आम्रः, आम्रवृक्षः, चूतः, सहकारः, कामशरः, कामवल्लभः, कामाङ्गः, कीरेवृः, माधवद्रुमः, भृङ्गामीष्टः, सीधुरसः, मधूली, कोकिलोत्सवः, वसन्तदूतः, अम्रफलः, मोदाख्यः, मन्मथालयः, मध्वावासः, सुमदनः, पिकरागः, नृपप्रियः, प्रियाम्बुः, कोकिलावासः, माकन्दः, षट्पदातिथिः, मधुव्रतः, वसन्तद्रुः, पिकप्रयः, स्त्रीप्रियः, गन्धबन्धुः, अलिप्रियः, मदिरासखः
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।
"आम्रवृक्षे शुकाः निवसन्ति।"
वैजयन्तीकोषः
SanskritWord: आम्रः
Root: आम्र
Gender: पुं
Number: all
अर्थः ⇒
Meaning(s):
⇒ Mango tree
Shloka(s):
3|3|25|1 ► आम्रे कामाङ्गमाकन्दौ चूतो वेलोऽङ्गनाप्रियः। (भूमिकाण्डः/वनाध्यायः)
3|3|25|2 ► करको वलयश्चाथ श्रेष्ठेऽत्र सहकारकः॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
➠ 3|3|25|1 ⇢ आम्रः (आम्र) (पुं) ⇒ Mango tree ⇒
➠ 3|3|25|1 ⇢ कामाङ्गः (कामाङ्ग) (पुं) ⇒ Mango tree
Tamil Mā ⇒
➠ 3|3|25|1 ⇢ माकन्दः (माकन्द) (पुं) ⇒ Mango tree
Tamil Mā ⇒
➠ 3|3|25|1 ⇢ चूतः (चूत) (पुं) ⇒ Mango tree
Tamil M ⇒
➠ 3|3|25|1 ⇢ वेलः (वेल) (पुं) ⇒ Mango tree
Tamil Mā ⇒
➠ 3|3|25|1 ⇢ अङ्गनाप्रियः (अङ्गनाप्रिय) (पुं) ⇒ Mango tree ⇒
➠ 3|3|25|2 ⇢ करकः (करक) (पुं) ⇒ Mango tree
Tamil Mā ⇒
➠ 3|3|25|2 ⇢ वलयः (वलय) (पुं) ⇒ Mango tree
Tamil Mā ⇒
Related word(s):
परा_अपरासंबन्धः ➡ वृक्षः
शब्दकल्पद्रुमः
Sanskritआम्रः, (अम्यते अम गत्यादौ अमितभ्योदीर्घश्चेतिरक् दीर्घश्च ।) फलवृक्षविशेषः । आम आँव इतिभाषा । तत्पर्य्यायः । चूतः २ रसालः ३ । अति-सौरभश्चेत् सहकारः ४ । इत्यमरः ॥
कामशरः ।कामवल्लभः ६ कामाङ्गः ७ कीरेष्टः ८ माधवद्रुमः९ भृङ्गाभीष्टः १० सीधुरसः ११ मधूली १२कोकिलोत्सवः १३ वसन्तदूतः १४ अम्लफलः १५मोदाख्यः १६ मन्मथालयः १७ मध्वावासः १८सुमदनः १९ पिकरागः २० नृपप्रियः २१ प्रि-याम्बुः २२ कोकिलावासः २३ । इति राजनिर्घण्टः ।माकन्दः २४ षट्पदातिथिः २५ मधुव्रतः २६वसन्तद्रुः २७ पिकप्रियः २८ स्त्रीप्रियः २९ गन्ध-बन्धुः ३० अलिप्रियः ३१ । इति शब्दरत्नावली ॥
मदिरासखः ३२ । इति जटाधरः ॥
बालाम्रफल-गुणाः । वायुरक्तपित्तकारित्वं । इति राजव्रल्लभः ॥
अपिच । कषायत्वं । अम्लरसत्वं । सुगन्धित्वं ॥
कफामयनाशित्वं । अस्रकरत्वं । पित्तप्रकोपवायु-रक्तदोषपटुत्वादिरुचिप्रदत्वञ्च । तच्च बद्धास्थिता-दृक् । इति राजनिर्घण्टः ॥
* ॥
मध्याम्रगुणः ।पित्तकारित्वं ॥
* ॥
पक्वाम्रगुणाः । वर्णरुचि-मांसशुक्रबलकारित्वं । पित्ताविरोधित्वं । वायु-नाशित्वं । हृद्यत्वं । गुरुत्वं । अनुलोमनत्वं । इतिराजवल्लभः ॥
अपिच । त्रिदोषशमताकारित्वं ।स्वादुत्वं । पुष्टिजनकत्वं । अधिकधातुप्रचयकारित्वं ।तृप्तिकान्तिकारित्वं । तृष्णाश्रमशमनत्वञ्च । इतिराजनिर्घण्टः ॥
* ॥
मधुयुक्ताम्रगुणाः । क्षयरोग-प्लीहवातश्लेष्मरोगनाशित्वं ॥
* ॥
घृतयुक्ताम्रगुणाः ।वातपित्तनाशित्वं । अग्निबलवर्णकारित्वञ्च ॥
* ॥
दुग्धयुक्ताम्रगुणाः । शीतलत्वं । स्वादुत्वं । गुरुत्वं ।स्निग्धत्वं । भेदकत्वं । वातपित्तहारित्वं । शुक्ररक्तब-लवर्द्धकत्वञ्च ॥
* ॥
तत्फलास्थिगुणाः । तृष्णाच्छ-र्द्दिमेहातीसारनाशित्वं । इति राजबल्लभः ॥
* ॥
तत्त्वग्गुणः । कषायत्वं ॥
* ॥
तन्मूलगुणाः ।सुगन्धित्वं । कषायत्वं । रुचिकारित्वं । संग्राहित्वं ।शीतलत्वञ्च ॥
* ॥
तत्पुष्पगुणौ । रुचिकारित्वं ।अग्निदीपनत्वञ्च ॥
* ॥
आम्रपेषीगुणाः । काषा-यत्वं । अम्लत्वं । भेदकत्वं । कफवातनाशित्वञ्च ॥
* ॥
कृत्रिमपक्वाम्रगुणः ॥
अम्लरसहानेर्मधुरत्वाच्चपित्तनाशित्वं ॥
* ॥
चुषिताम्रगुणाः ॥
परमरुचि-बलवीर्य्यकारित्वं । लघुत्वं । शीतलत्वं । शीघ्र-पाकित्वं । वातपित्तहारित्वं । सारकत्वञ्च ॥
* ॥
तद्गालितरसगुणाः । बलकारित्वं । गुरुत्वं । वात-हरत्वं । सारकत्वं । हृद्यत्वं । तृप्तिजनकत्वं । अति-शयष्टंहणत्वं । कफवर्द्धकत्वञ्च ॥
* ॥
तत्खण्ड-गुणाः ॥
गुरुत्वं । रोचकत्वं । गुरुपाकित्वं । मधु-रत्वं । वृंहणत्वं । बलकारित्वं । शीतलत्वं । वातना-शित्वञ्च ॥
* ॥
अतिशयाम्रभक्षणगुणाः ॥
मन्दाग्नि-बिषमज्वररक्तामयबद्धगुदोदरनयनामयकारित्वं ।“एतदम्लाम्रविषयं न तु मधुराम्रपरं । मधुरस्यपरं नेत्रहितत्वादिगुणत्वात् ॥
यद्यतिशयभक्षणंकरोति तदा शुण्ठीजलानुपानं । अथवा सौवर्च्चलेनसह क्षीरं प्रयोक्तव्यं” ॥
* ॥
तत्पल्लवगुणाः । रुचिकारित्वं । कफपित्तनाशि-त्वञ्च ॥
* ॥
तथा च राजनिर्घण्टः ।“आम्रमामं जलं स्विन्नं मर्द्दितं दृढपाणिना ।सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितं ॥
प्रपाणकमिदं श्रेष्ठं भीमसेनेन निर्म्मितं ।सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रियतर्पणम्” ॥
(तत्रादावाम्रस्य नामानि गुणाश्च ।“आम्रः प्रोक्तो रसालश्च सहकारोऽतिसौरभः ।कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः ॥
* ॥
आम्रपुष्पमतीसारकफपित्तप्रमेहनुत् ।असृग्दुष्टिहरं शीतं रुचिकृद्ग्राहि वातलम् ॥
आम्रं बालं कषायाम्लं रुच्यं मारुतपित्तकृत् ।तरुणन्तु तदत्यम्लं रूक्षं दोषत्रयस्रकृत् ॥
आम्रमामं त्वचाहीनमातपेऽतिविशोषितम् ॥
अम्लं स्वादुकषायं स्याद्भेदनं कफवातजित् ॥
* ॥
पक्वन्तु मधुरं वृष्यं स्निग्धं बलसुखप्रदम् ॥
गुरु वातहरं हृद्यं वर्ण्यं शीतमपित्तलम् ।कषायानुरसं वह्लि-श्लेष्म-शुक्र-विबर्द्धनम् ॥
* ॥
तदेव वृक्षसम्पक्वं गुरुवातहरं परम् ।मधुराम्लरसं किञ्चित् भवेत् पित्तप्रकोपनम् ॥
* ॥
अम्रं कृत्रिमपक्वञ्च तद्भवेत् पित्तनाशनम् ॥
* ॥
रसस्याम्लस्य हीनस्तु माधुर्य्याच्च विशेषतः ॥
उषितं तत्परं रुच्यं बल्यं वीर्य्यकरं लघु ॥
शीतलं शीतपाकि स्याद्वातपित्तहरं सरम् ॥
* ॥
तद्रसो गालितो बल्यो गरुर्वातहरः सरः ।अहृद्यस्तर्पणोऽतीव वृंहणः कफवर्द्धनः ॥
* ॥
तस्य खण्डं गुरुपरं रोचनं चिरपाकि च ।मधुरं वृंहणं बल्यं शीतलं वातनाशनम् ॥
वातपित्तहरं रुच्यं वृंहणं बलवर्द्धनम् ॥
* ॥
वृष्यं वर्णकरं स्वादु दुग्धाम्रं गुरु शीतलम् ॥
* ॥
मन्दानलत्वं विषमज्वरञ्चरक्तामयं बद्धगुदोदरञ्च ।आम्रातियोगो नयनामयं वाकंरोति तस्मादति तानि नाद्यात् ॥
एतदम्लाम्रविषयं मधुराम्लपरं न तु ।मधुरस्य परं नेत्रहितन्त्वाद्या गुणा यतः ॥
शुण्ठ्याम्भसोऽनुपानं स्यादाम्राणामतिभक्षणे ।जीरकं वा प्रयोक्तव्यं सह सौवर्च्चलेन च” ॥
* ॥
आम्रवीजस्य गुणाः ।“आम्रवीजं कषायं स्याच्छर्द्द्यतीसारनाशनम् ।ईषदम्लञ्च मधुरं तथा हृदयदाहनुत्” ॥
* ॥
आम्रनवपल्लवस्य गुणाः ॥
“आम्रस्य पल्लवं रुच्यं कफपित्तविनाशनम्” ॥
* ॥
इति भावप्रकाशः ॥
“अपक्वमाम्रं फलमेव शस्तंसंग्राहि पित्तासृजि कोपनञ्च ।तथा विपक्वं मधुरन्तु चाल्पं, भेद्यं सपित्तामयनाशनञ्च” ॥
इति हारीतः ॥
“वातपित्तास्नकृद्बालं बद्धास्थिकफपित्तकृत् ॥
गुर्व्वाम्रं वातजित् स्वाद्वम्लं कफशुक्रकृत्” ।इति वाभटः ॥
“रक्तपित्तकरं बालमापूर्णं पित्तवर्द्धनम् ।पक्वमाम्रं जयेद्वायुं मांसशुक्रबलप्रदम्” ॥
* ॥
“आम्रामलकलेहाश्च वृंहणा बलबर्द्धनाः ।रोचनास्तर्पणाश्चोक्ताः स्नेहमाधुर्य्यगौरवात्” ॥
इति चरकः ॥
“पित्तानिलकरं बालं पित्तलं बद्धकेशरम् ॥
हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् ।कषायानुरसं स्वादु वातघ्नं वृंहणं गुरु ॥
पित्ताविरोधि सम्पक्वमाम्रं शुक्रविवर्द्धनम् ।वृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्य्यति” ॥
इति सुश्रुतः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
