| YouTube Channel

आम्बिकय (Ambikaya)

 
वाचस्पत्यम्
Sanskrit
आम्बिकय
पु०
अम्बिकाया अपत्यं शुभ्रा० ढक् विचित्रवी-र्य्य स्य क्षेत्रे काशिराजस्य मध्यमकन्यायाम् अम्बिकायां व्यासे-नोत्पादिते धृतराष्ट्रे हिअकाले दिवं गतस्य विचित्रवीर्य्यस्य अम्बिकाम्बालिकयोःपत्न्योर्मध्ये अम्बिकायां ज्ये-ष्ठभाय्यायां सत्यवत्यानियुक्तेन व्यासेनोत्पादितः तत्कथायथा “ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः दीप्य-मानेषु दीपेषु शरणं प्रविवेशह तस्य कृष्णस्य कपिला जटादीप्ते लोचने बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमील-यत् संबभूव तया सार्द्धं मातुः प्रियचिकीर्षया भयात्काशीसुता तन्तु नाशक्नीदभिवीक्षितुम् ततो निष्क्रान्तमागत्य माता पुत्रमुवाच अप्यस्यां गुणवान् पुत्रोराज-पुत्रो भविष्यति? निशम्य तद्वचोमातुर्व्यासः सत्यवतीसुतः ।प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः नागायुत-समप्राणो विद्वान् राजर्षिसत्तमः महाभागो महौ-दार्य्यो महाबुद्धिर्मविष्यति तस्य चापि शतं पुत्रा भवि-ष्यन्ति महात्मनः किन्तु मातुः वैगुण्यादन्ध एव भवि-ष्यति” इत्युपक्रम्य पाण्डुविदूरोत्पत्तिमुपवर्ण्ण्य च“एते विचित्रवीर्य्यस्य क्षेत्रे द्वैपायनादृषेः जज्ञिरे देव-गर्भाभाः कुरुवंशविवर्द्धनाः” इत्युक्तम् भा० आ० प० १० ६अ० अम्बिकायाश्च यथा विचित्रवीर्य्यभार्य्यात्वं तथोक्तंअम्बाशब्दे ३२८ पृष्ठे “आम्बिकेयेन ददृशे राज्ञा दुर्य्योघनेनच” भा० व० प० १२ अ० “परं श्रेयः पाण्डवेया! यथाहभीष्मस्तन्न श्रुतवानाम्बिकेयः” भा० व० प० अ० ।अम्बिकायाः पार्व्वत्या अपत्यम् ढक् कार्त्तिकेये तस्यतदुत्पत्तिकथा अग्निकुमारशब्दे ६५ पृष्ठे दृश्या