| YouTube Channel

आमोदी (AmodI)

 
E Bharati Sampat
Sanskrit
(वि) (आमोदिन्) अमोदयति सुरभीकरोति + मुद (हर्षे) + णिच् ‘णिनिः’ ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३.२.७८) १. मुखवासनः (कर्पूरः , कुङ्कुमकेसरः) आमोदः अस्य अस्तीति ‘इनिः’ ‘अतइनिठनौ’ (५.२.११५) २. हर्षविशिष्टः ३. गन्धयुक्तः
शब्दकल्पद्रुमः
Sanskrit
आमोदी, [न्] त्रि, (आमोद + णिनि ।) मुखवासनः ।इत्यमरः
कर्पूरादिवटिकाकृतमुखगन्धः इतिसारसुन्दरी
मुखवासनवटिकादिः आमोद-युक्तः कर्पूरादिरामोदी इति भरतः
नानाद्रव्य-रचित एकैकश एव वा कर्पूरादिभिर्मुखोपयोग्य-मुखवासनवटिकादिः इति सर्व्वस्वं गन्धयुक्तः ।हर्षविशिष्टः
(यथा भर्तृहरिः ।“नवकुटजकदम्बामोदिनो गन्धवाहाः” ।)