| YouTube Channel

आमिषः (AmiSaH)

 
E Bharati Sampat
Sanskrit
(पुंन) आमिष्यते भुज्यते आ+मिषु(सेचने)+घञ् ‘अकर्तरि कारके संज्ञायां घञ्’ ३.३.१९। १.मांसम् ‘उपानयत् पिण्डमिवामिषस्य’ रघुः२.५९। २.भोग्यवस्तु ३.दुराशा ‘अध्यात्मरतिरासीनो निरपेक्षो निरामिषः’ मनुः६.४९। ४.उत्कोचः। ५.सुन्दराकृतिः। ६.सम्भोगः। ७.पर्णम् ८.जम्बीरफलम् ‘आमिषं पुंनपुंसकम् भोग्यवस्तुनि सम्भोगेऽप्युत्कोचे पललेऽपि च’ मेदिनी०। ‘आमिषं पलले सुन्दराकाररूपादौ सम्भोगे लोभलञ्चयोः’ हैमः।
Wordnet
Sanskrit
Synonyms:
आमिषः, आमिषाहारः, मांसाहारः
noun
तद् भोजनं यस्मिन् मांसमत्स्यादयः सन्ति।
"तस्मै आमिषः रोचते।"