आमाशय (AmAzaya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiआमाशयः
आम-आशयः -
"अनपचे भोजन का स्थान, उदर का ऊपरी भाग, पेट"
शब्दकल्पद्रुमः
Sanskritआमाशयः, (आमस्य आशयः षष्ठीतत्पुरुषः ।)अपक्वस्थानं । तत्तु नाभिस्तनयोर्म्मध्यभागः । इतिशब्दचन्द्रिका ॥
(यथा महाभारते, --“पक्वाशयस्त्वधोनाभ्यामूर्द्ध्वमामाशयः स्थितः” ।यथा च सुश्रुते, --“पक्वामाशययोर्मध्ये शिराप्रभवा नाभिर्नाम” ॥
* ॥
“नाभिस्तनान्तरं जन्तोराहुरामाशयंबुधाः” ।“आमाशयस्तु तदधः” इति भावप्रकाशः ॥
“तत्रामाशयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनी-कत्वादूर्द्ध्वगतित्वात्तेजसश्चन्द्र इवादित्यस्य स चतु-र्व्विधस्याहारस्याधारः” । “आमाशयः श्लेष्मणः” ।इति सुश्रुतः ॥
)
वाचस्पत्यम्
Sanskritआमाशय आमस्यापक्वान्नस्याशयः । देहमध्यस्थे ना-भेरुर्द्धस्थाने भुक्तापक्वान्नादिस्थाने । आशयाहि देहस्थाःसप्त सुश्रुते दर्शिता यथा “आशयस्तु वाताशयः पित्ताशयःश्लेष्माशयो रक्ताशय आमाशयः पक्वाशयः मूत्राशयःस्त्रीणां गर्भाशयोऽष्टम इति आमाशयस्थानएव दोषरूपश्लेष्मस्थानं यथोक्तं सुश्रु० । “दोषस्थानान्यत ऊर्द्धं वक्ष्यामःतत्र समासेन वातःश्रोणिगुदसंश्रयः । श्रोणिगुदयोरुपर्य्या-नाभि पक्वाशयः पक्वाशयमध्यं पित्तस्य । आमाशयःश्लेष्मणः । तच्च स्थानं निर्ण्णीतं भावप्र० यथा “अग्निवेग-वहः प्राणोगुदान्त्रे प्रतिहन्यते । स ऊर्द्ध्वमागम्य पुनः समु-त्क्षिपति पावकम् । पक्वाशयस्त्वधोनाभ्यामूर्द्धमामाशयःस्थितः । नाभिमध्ये शरीरस्य प्राणाः नित्यं प्रतिष्ठिताः”चरके तु “नाभिस्थानोत्तरं जन्तोराहुरामाशयं बुधाः”इति अत्र विशेषमाह “उरोरक्ताशयस्तस्मादधःश्लेष्माशयःस्मृतः । आमाशयस्तु तदधस्तदधोऽन्नाशयोमतः” इतिअपक्वाशय प्रसङ्गात् आहारपाकप्रकारस्तावदुच्यतेभावप्रकाशे सुश्रुतः “यो वायुः प्राणनामासौ मुखंगच्छति देहधृक् सोऽन्तःप्रवेश्य गच्छेत्तं प्राणश्चाथावल-म्बते” इति तमाहारमामाशयस्थः क्लेदननामा कफः क्लेद-यति क्लेदनात् संहतिं भिनत्ति च उक्तं च सुश्रुते “सआहारःषड्रसोऽप्यामाशये माधुर्य्यं लभते आमाशयस्थस्यमधुरस्य कफस्य योगात् उक्तं च श्लेष्मस्वरूपं “श्लेष्मा श्वेतो-गुरुःस्निग्धः पिच्छिलः शीतलस्तथा । तमोगुणाधिकः स्वा-दुर्विदग्धोलवणो भवेत् । फेनभावं च लभते जठरानल-तेजसा” । अत आह वाग्भटः “संधुक्षितः समानेन पच-त्यामाशयस्थितम् । औदर्य्योऽग्निर्थथा बाह्यः स्थालीस्थंतोयतण्डुलमिति” प्राणवायुना प्रेरितस्ततः किञ्चिच्चलितःपाचकाख्यपित्तोष्मणेषत्पक्वो भवति उक्तं च “अथ पाचकपि-त्तेन विदग्धश्चाम्लतां व्रजेदिति” पाचकपित्तेन पाचकपित्तस्योष्मणा ततः एवाहारोनामिमण्डलाधिष्ठानेन समाननाम्नावायुना प्रेरितोग्रहणीं प्रति याति उक्तं च । “ततःसमानम-रुता ग्रहणीमभिधावति” । ग्रहणीलक्षणमाह “षष्ठी पित्त-धरा नाम या कला परिकीर्त्तिता । आमपक्वाशयान्तःस्थाग्रहणी साभिधीयते” पित्तधरा पाचकाख्यं पित्तं यदग्न्य-धिष्ठानं तद्धारयति तत्र ग्रहण्यामामाशयपक्वाशयमध्यवर्त्तिपाचकाख्यपित्ताधिष्ठानेनाग्निनाहारः पच्यतेस कटुश्च भवति तथा च “ग्रहण्यां पच्यते कोष्ठवह्निनाजायते कटुरिति” । अयमर्थः आहारोग्रहण्यां कोष्ठवह्नि-ना ग्रहणीस्थितपाचकपित्तस्थे न च वह्निना पच्यतेपच्यमानः स ग्रहणीस्थितस्य कटुरसस्य पित्तयोगात्कटुर्भवतिएतदाहारपाके विशेपमाह शरीरं पाञ्चभौतिकं तत्रपञ्चसु भूतेषु पञ्चाग्नयस्तिष्ठन्ति उक्तं च चरके “भौमाप्या-ग्नेयवायव्याः पञ्चोप्माणः । सनाभसाः पञ्चाहारगुणान् स्वान्स्वान् पार्थिवादीन् पचन्त्यतः” । अत्रोष्मपदेनाग्निरुच्यतेआहारोऽपि पाञ्चभौतिकः तत्र पाचकपित्तस्थेनाग्निनोत्ते-जितेन शरीरवर्त्तिभूभागः पच्यते पक्वोभूभागः स्वकीयान्गुणानभिबर्द्धयति एवं जलादिभागा अपि पच्यन्ते तथा चसुश्रुते “पञ्चभूतात्मको देह आहारः पाञ्चभौतिकः । विपक्वंपञ्चधा सम्यग्गुणान्स्वानभिबर्द्धयेदिति” गुणशब्देनात्र गुणिनःपृथिव्यादय उच्यन्ते तेन गुणान् शरीरवर्त्तिनः पार्थिवादीन्भागानभिवर्द्धयेदिति एवमहोरात्रेण पक्व आहारोमिष्टःकटुश्च मधुरो भवति अम्लोऽम्लो भपति कटुतिक्तःकषायश्चकटुर्भवति उक्तं च “मिष्टः कटुश्च मधुरोऽथाम्लोऽम्लः पच्यतेरसः । कटुतिक्तकषायाणां विपाको जायते कटुरिति” एवंविपक्वस्याहारस्य सारो रसशेषोग्रहणिस्थो मल इवमलः । अस्य जलभागः शिणभिर्वस्तिन्नीतोमूत्रं भवति उक्तंच “आहारस्य रसः सारःसारहीनोमलद्रवः । शिराभि-स्तज्जलं नीतं वस्तिंमूत्रत्वमाप्नुयात् । शेषं कीट्टं भवे-त्तस्य तत् पुरीषं निगद्यते । समानवायुना नीतं तत्तिष्ठतिमलाशये” तत्र मलाशयालयेनापानवायुना प्रेरितं मूत्रंमेढ्रभगमार्गेण, पुरीषं गुदमार्गेण, शरीराद्बहिर्याति । उक्तंच “मूत्रन्तूपस्थमार्गेण, पुरीषं गुदमार्गतः । अपानवायुनाक्षिप्तं बहिर्याति शरीरतः” । उपस्थः शिश्नोभगश्च । रसस्तुसमानवायुना प्रेरितोधमनीमार्गेण शरोरारम्भकस्य रसस्यस्थानं हृदयं गत्वा तेन सहमिश्रितो भवति उक्तं च “रसस्तुहृदयं याति समानमरुतेरितः । स तुं व्यानेन विक्षिप्तःसर्वान् धातून्विवर्द्धयेत् । केदारेषु यथा कुल्या पुष्णाति वि-विधौषधीः । तथा कलेवरे धातून् सर्वान् बर्द्धयते रसः” ।रसस्तु तत्र तत्र त्रिधा भिद्यते उक्तं च चरके “स्थूलसूक्ष्ममलैर्भेदैस्तत्रस्तत्र त्रिधा रसः” । अधिकआहारपाक-शब्दे वक्ष्यते ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
