| YouTube Channel

आमान्नं (AmAnnaM)

 
शब्दकल्पद्रुमः
Sanskrit
आमान्नं,
क्ली,
(आमञ्च तत् अन्नञ्चेति कर्मधारयः ।)अपक्वान्नं काँचाचाउल इति भाषा तद्दानमन्त्रोयथा, --“आमान्नं ते प्रयच्छामि फलताम्बूलसंयुतं ।सघृतं परमं दिव्यं मया भक्त्या निवेदितं”
इति वृहन्नन्दिकेश्वरपुराणोक्तदुर्गोत्सवपद्धतिः
*
बलात् चाण्डालादिस्वामिकापक्वान्नभोजनप्राय-श्चित्तं यथा चाण्डालान्नं भुक्त्वा त्रिरात्रमुपवसेत्सिद्धं भुक्त्वा पराकः इति बलाद्भोजनविषयं ।इति प्रायश्चित्तविवेकः
त्रिरात्रमामान्नविषयं ।परत्र सिद्धमित्युक्तेः पराकमाह मनुः ।“यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनं ।पराको नाम कृच्छ्रोऽयं सर्व्वपापापनोदनः”
“तेनात्रामान्ने सिद्धान्नप्रायश्चित्ततुरीयभागविधा-नादज्ञानादावपि तत्तुरीयकल्पना इति” इतिप्रायश्चित्ततत्त्वं
*
आमान्नद्वारा कर्त्तव्यश्राद्धानि ।यथा, --“आपद्यनग्नौ तीर्थे चन्द्रसूर्य्यग्रहे तथा ।आमश्राद्धं द्विजैः कार्य्यं शूद्रेण तु सदैव हि”
इति श्राद्धतत्त्वधृतप्रचेतोवचनं
अपि ।योगिनीतन्त्रे ।“निरग्नेरामश्राद्धे तु अन्नं क्षालयेत् क्वचित् ।वृद्धौ क्षालयेदन्नं संक्रमे ग्रहणेषु च”
इति तिथ्यादितत्त्वम्
*