| YouTube Channel

आमातीसार (AmAtIsAra)

 
शब्दकल्पद्रुमः
Sanskrit
आमातीसारः,
पुं,
(आमरोगेण कृतः अतीसारः ।)षट्प्रकारातीसारमध्यें रोगविशेषः तस्यसंप्राप्तिरूपे ।अन्नाजीर्णात् प्रद्रताः क्षोभयन्तःकोष्ठं दोषा धातुसंधान् मलांश्च ।नानावर्णं नैकशः सारयन्तिशूलोपेतं षष्ठमेनं वदन्ति
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति ।पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितं”
इति निदानं
(चिकित्सा यथा, --“न तु संग्रहणं दद्यात् पूर्व्वमामातीसारिणे ।दोषाह्यादौ रुध्यमाना जनयन्त्यामयान् बहून्
शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान् ।दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा
क्षीणधातुबलार्त्तस्य बहुदोषोऽति निस्रुतः ।आमोऽपि स्तम्भनीयः स्यात् पाचनान्मरणं भवेत्”इति वैद्यचक्रपाणिसंग्रहः
*
“अभया मस्तुना पिष्टा मधुशर्करयान्विता ।आमातीसारं शमयेद् गुडामलकमेव
वत्सकं जीरके द्वे दध्ना पिष्टन्तु दापयेत् ।आमातिसारशमनं वस्तिशूलं नियच्छति”
इति हारीतः
*
“तस्य रूपाणि विज्जल-मामविप्लुतमवसादितं रूक्षं द्रवं सशब्दमशब्दंवा विबद्धमूत्रवातमतिसार्य्यते पुरीषं वायुश्चान्तः-कोष्ठस्य सशब्दशूलः तिर्य्यक् चरति विबद्ध इत्या-मातिसारः” ।“आमे परिणते यस्तु विबद्धमतिसार्य्यते ।सशूलपिच्छमल्पाल्पं बहुशः सप्रवाहिकं
तं मूलकानां यूषेण वदराणामथापि वा ।उपोदकायाः क्षोरिण्या यवाण्या वास्तुकस्य वा
सुवर्च्चलायाश्चञ्चोर्व्वा शाकेनावल्गुजस्य वा ।शठ्याः कर्कारुकाणां वा जीवन्त्याश्चिर्भटस्य वा
लोणीकायाः सपाठाया शुष्कशाकेन वा पुनः ।दधिदाडिमसिद्धेन बहुस्नेहेन भोजयेत्”
इति चरकः
)
वाचस्पत्यम्
Sanskrit
आमाति(ती)सार
पु०
आमकृतोऽति(ती)सारः आमकृतेषष्ठे अतिसाररोगभेदे अतिसारशब्दे तस्य विवृतिः अस्यनिदानादि उक्तं सुश्रुते यथा “अन्नाजीर्ण्णात् प्रद्रुताःक्षोभयन्तः कोष्ठं दोषा धातुसंघान् मलांश्च नाना-वर्ण्णान्नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति” आमा-तिसारे नो कार्य्यमादौ संग्रहणं नृणाम्” सुश्रु०