आमवात (AmavAta)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English आमवात AmavAta constipation or torpor of the bowels with flatulence and intumescence
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiआमवातः
आम-वातः -
कब्ज
शब्दकल्पद्रुमः
Sanskritआमवातः, (आमोऽपाकहेतुः वातः ।) स्वनामख्यात-रोगविशेषः । तस्य निदानपूर्व्विकां संप्राप्तिमाह ।“विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्य च ।स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्व्वतस्तथा ॥
वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति ।तेनात्यर्थमपक्वोऽसौ धमनीभिः प्रपद्यते ॥
वातपित्तकफैर्भूयो दूषितः सोऽन्नजो रसः ।स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ॥
जनयत्यग्निदौर्ब्बल्यं हृदयस्य च गौरवं ।व्याधीनामाश्रयो ह्येष आमसंज्ञोऽतिदारुणः ॥
विरुद्धाहारचेष्टस्य विरुद्धाहारः क्षीरमत्स्यादि ।विरुद्धा चेष्टा मुक्त्वा व्यायामादि । तद्युक्तस्य ।निश्चलस्य निर्व्व्यापारस्य । “स्निग्धं भुक्तवतो ह्यन्नंव्यायामं कुर्व्वतः” इति मिलितो हेतुः । श्लेष्म-स्थानं आमाशयसन्ध्यादि । तेन श्लेष्मस्थानगतेनअत्यर्थं अपक्वः । पित्तस्थानगमने तु पक्वोऽभ-विष्यदित्यभिप्रायः । असौ आमः धमनीभिःप्रपद्यते धमनोमार्गैश्चलति । भूयो दूषितः अति-शयेन दूषितः । सोऽन्नजो रसः । आमः स्रो-तांसि अभिष्यन्दयति संस्तभ्य रसवहशिराव-रोधं कृत्वा स्रोतांसि गुरूणि करोति । नानावर्णःवातादिजनितवर्णभेदान्नानावर्णः ॥
* ॥
आमस्यलक्षणमाह ।“अजीर्णात् यो रसो जातः सञ्चितो हि क्रमेण तै ।आमसंज्ञां स लभते शिरोगात्ररुजाकरः” ॥
अजीर्णात् भुक्तादजीर्णात् ॥
* ॥
आमवातस्य सा-मान्यलक्षणमाह ।“युगपत् कुपितावेतौ त्रिकसन्धिप्रवेशकौ ।स्तब्धञ्च कुरुते गात्रमामवातः स उच्यते” ॥
एतौ वातकफौ । त्रिकसन्धिप्रवेशकौ वेदनयेतिबोद्धव्यौ ॥
* ॥
तन्त्रान्तरे तस्य लक्षणान्तरमाह ।“अङ्गमर्दोऽरुचिस्तृष्णास्यालस्यं गौरवं ज्वरः ।अपाकः शूलताङ्गानां आमवातस्य लक्षणम्” ॥
* ॥
अस्यैवातिवृद्धस्य लक्षणमाह ।“स कष्टः सर्व्वरोगाणां यदा प्रकुपितो भवेत् ।हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ॥
करोति सरुजं शोथं यत्र दोषः प्रपद्यते ।स देशो रुज्यतेऽत्यर्थं व्याबिद्ध इव वृश्चिकैः ॥
जनयेत् सोऽग्निदौर्ब्बल्यं प्रसेकारुचिगौरवम् ।उत्साहहानिं वैरस्यं दाहञ्च बहुमूत्रतां ॥
कुक्षौ कठिनतां शूलं तथा निद्राविपर्य्ययं ।तृट्छदिश्रममूर्च्छाश्च हृद्ग्रहं विडविबद्धतां ॥
जाड्यान्त्रकूजमानाहं कष्टांश्चान्यानुपद्रवान्” ।यदा प्रकुपितो भवेत् प्रकर्षेण कुपितः स्यात्तदावक्ष्यमाणानुपद्रवान् करोति । तानाह हस्तेत्यादि ।यत्र दोषः दुष्ट आमः प्रद्यते गच्छति । जाड्यंअकर्म्मण्यत्यं । अन्यानुपद्रवान् कलायखञ्जत्वादीन्॥
* ॥
तस्यैव विशिष्टानि लक्षणान्याह ।“पित्ताद्दाहं सरागञ्च सशूलं पवनात्मकं ।स्तिमितं गुरुकण्डूकं कफजुष्टं तमादिशेत्” ॥
गुरुकण्डूकं बहुकण्डूकम् ॥
* ॥
तस्यासाध्यत्वादि-कमाह ।“एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते ।सर्व्वदेहचरः शोथः सकष्टः सान्निपतिकः” ॥
* ॥
अथ आमवातस्य चिचित्सा ।“लङ्घनं स्वेदनं तिक्तं दीपनानि कटूनि च ।रेचनं स्रेहनमपि वस्तयश्चाममारुते ॥
रूक्षस्वेदो विधातव्यो वालुकापुटकैरिह ।उपनाहाश्च कर्त्तव्यास्तेऽपि स्नेहविवर्जिता ॥
* ॥
वास्तूकमत्र वृन्ताकं पटोलं कारवेल्लकं ।कोरदूषा यवाः पथ्याः षष्टिकाः शालयोऽनवाः” ॥
अनवाः पुराणाः ।“लावकानां तथा मांसं हितं तक्रेण संस्कृतं ।हितश्च यूषः कौलत्थः कलायश्चणक्स्य च” ॥
* ॥
“चित्रकं कटुका पथ्या नागरातिविषामृताः ।चूर्णिताः कोष्णतोयेन पिबेदामानिलापहाः । १ ।शटी शुण्ठी शिवासोग्रा देवाह्वातिविषामृताः ।क्वथिताः प्रपिवेदामवाती रूक्षञ्च भोजयेत् ॥
देवाह्वा देवदारु । २ ।आमवातगजेन्द्रस्य शरीरवनचारिणः ।एकएव निहन्तायमेरण्डस्नेहकेशरी । ३ ।एरण्डस्नेहयुक्तां हरीतकीं भक्षयेद्विधिवत् ।आमानिलार्त्तियुक्तो युक्तो वृद्ध्या च गृध्रस्या । ४ ।श्वेतं पुनर्नवामूलं तेन तैलं प्रसाधयेत् ।आमवातरुजं हन्ति पादाभ्यञ्जनमर्द्दनात् । ५ ।आरग्वधस्य पत्राणि भृष्टानि कटुतैलतः ।आमवातप्रशान्त्यर्थं खादेद्भक्तावृतानि च । ६ ।शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः ।आमवाते कटीशूले पाचनं रुक्प्रणाशनं । ७ ।कटीशूले पिबेत्तैलं एरण्डफलसम्भवं ।महौषधगुडच्योश्च क्वाथं मागधिकायुतं ॥
विशोध्यैरण्डवीजानि पिष्ट्वा क्षीरे विपाचयेत् ।तत्पायसं कटीशूले गृध्रस्यां परमौषधं । ८ ।रास्ना वातारिमूलञ्च वासकः सदुरालभः ।शटीदारुबलामुस्तनागरातिविषाभयाः ॥
श्वदंष्ट्राव्याधिघातश्च मिषिधान्यं पुनर्णवा ।अश्वगन्धामृता कृष्णा वृद्धदारः शतावरी ॥
वचा सहचरश्चैव चविका वृहतीद्वयं ।समभागानि सर्व्वाणि रास्नात्र त्रिगुणा मता ॥
पिबेत् कषायमेतेषामष्टभागावशेषितं ।क्षिप्त्वा नागरचूर्णञ्च प्रक्षेपोऽत्र यथामलं ॥
सर्व्वेषु वातरोगेषु सामेषु तु विशेषतः ।पक्षाघातेऽर्दिते कम्पे कुब्जे सन्धिगतेऽनिले ॥
जानुजङ्घास्थिपीडासु गृध्रस्याञ्च हनुग्रहे ।उरुस्तम्भे वातरक्ते विसूच्यां क्रोष्टुशीर्षके ॥
हृदामये च दुर्नाम्नि योनिशुक्रामयेषु च ।पुंसां मेढ्रगते वाते स्त्रीणां बन्ध्यामये तथा ॥
योषितां गर्भदं मुख्यं नास्त्यस्मात् परमौषधं ।महारास्नादिकः क्वाथो वेधसायं विनिर्म्मितः” ।महारास्नादिक्वथः । ९ । “अजमोदामरिच-पिप्पलीविडङ्गसुरदारुचित्रकशताह्वाः । सैन्धव-मागधिमूलं भागा नवकस्य पलिकाः स्युः ॥
शुण्ठीदशपलिका स्यात् पलानि तावन्ति वृद्धदारस्य ।अभया पलानि पञ्च श्लक्ष्णं चूर्णं विधापयेदेषां ॥
समगुडवटकानदतश्चूर्णं वा कोष्णवारिणा पिबतः ।नश्यन्त्यामानिलजाः सर्व्वे रोगाः सुदारुणाः शीघ्रं ॥
आनाहशूलतूनी प्रतितूनी गृध्रसी गुल्मः । कटि-पृष्ठपरिष्फुटनं स्फुटनं चैवास्थिजङ्घयोस्तीव्रं ॥
श्वयथुस्तथाङ्गसन्धिषु ये चान्येऽप्यामवातजा रोगाःसर्व्वे प्रयान्ति शान्तिं तमैव सूर्य्यांशुविध्वस्तं ॥
अजमोदादिचूर्णमोदकः । १० ।“आमवाते हितोऽतीव पथ्यादिर्गुग्गुलुर्मतः” ।तथैव योगराजाख्यश्चरकादिचिकित्सकैः । ११ ।नागरस्य पलान्यष्टौ घृतस्य कुडवं तथा ।क्षीराढकसमायुक्तं खण्डस्यार्द्धशतं पलं ॥
व्योषत्रिजातकद्रव्यात् प्रत्येकञ्च पलं पलं ।निःक्षिपेच्चूर्णितं तत्र खादेदग्निबलं यथा ॥
आमवातप्रशमनं धातुपुष्टिकरं परं ।बल्यमायुष्यमोजस्यं बलीपलितनाशनं” ॥
शुण्ठीखण्डः । १२ ।“मेथिकायाः पलान्यष्टौ शुण्ठ्या अष्ट पलानि च ।तयोश्चूर्णं पटे पूतं दुग्धे मृद्वग्निना पचेत् ॥
दुग्धाढकयुगे गव्यं घृतमष्टपलं क्षिपेत् ।तत्तावत्सुपचेत् यावत् भवेदतिघनं पयः ॥
पुनः पचेत् शनैस्तत्र दत्त्वाढकमितां सितां ।ततः प्राके सुविज्ञाते ज्वलनादवतारयेत् ॥
मरिचं पिप्पली शुण्ठी कणामूलं सचित्रकं ।यवानी जीरको धान्यं कारवी शतपुष्पिका ॥
जातीफलं शटीत्वक् च पत्रकं भद्रमुस्तकं ।गृह्णीयात् पलमेतेषां सर्व्वेषाञ्च पृथक् पृथक् ॥
षडक्षं नागरं तत्र मरिचं च षडक्षकं ।एषां चूर्णं परिक्षिप्य सर्व्वं संमिश्र्य रक्षयेत् ॥
एतत्तु भेषजं प्रोक्तं मेथिकापाकसंज्ञकं ।भक्षयेत् पलमात्रं तत् यथा चाग्निबलं तथा ॥
आमवातं निहन्त्येतत् सर्व्वांश्च पवनामयान् ।ज्वरांश्च विषमान् हन्ति पाण्डुरोगं सकामलं ॥
हन्त्युन्मादमपस्मारं प्रमेहान् वातशोणितं ।अम्लपित्तं शीतपित्तं शिरःपीडां दृगामयं ॥
पदरं सूतिकारोगं हन्यादेतन्न संशयः ।वपुषः पुष्टिकृद्बल्यं वीर्य्यवृद्धिकरं परं” ॥
मेथिकापाकः । १३ ।“रसो रसोनस्य पिचुप्रमाणःक्षिपेच्च तत्राक्षमितं घृतं गोः ।पिबेटुभे तेन दहत्यवश्यंशिखीव तूलं हि महामवातं” ॥
सामान्यवातव्याधिचिकित्सायां हि लिखितं रसी-नाष्टकमामवाते अतिगुणदं । १४ ।“सैन्धवं श्रेयसी रास्ना शतपुष्पा यवानिका ।स्वर्जिका मरिचं कुष्ठं शुण्ठी सौवर्च्चलं विडं ॥
वचाजमोदा जरणः पौष्करं मधुरं कणा ।एतान्यर्द्धपलांशानि सूक्ष्मकल्कानि कारयेत् ॥
प्रस्थमेरण्डतेलस्य प्रस्थोऽम्बु शतपुष्पजं ।काञ्जिकं द्विगुणं दत्त्वा मस्तु च द्विगुणं तथा ॥
एतत् संभृत्य संभारं शनैर्मृद्वग्निना पचेत् ।सिद्धमेतत् प्रयोक्तव्यमामवातहरं परं ॥
पाने चाम्भञ्जने वस्तौ कुरुतेऽग्निबलं भृशं ।वातार्त्ते वंक्षणे शूले कटीजानूरुसन्धिजे ॥
तथा हृत्पार्श्वजे शूले शस्तं श्लेष्मणि पीडिते ।अन्यांश्चानिलजान् रोगान् नाशयत्याशु देहिनां”वृहत्सैन्धवाद्यं तैलं । १५ ।“दधिमत्स्यगुडक्षीरपोतकीमाषपिष्टकं ।वर्जयेदामवातार्त्तो गुडमांसमनूपजं” ॥
इत्यामवाताधिकारः । इति भावप्रकाशः ॥
(आत्रेयौवाच ।“लक्षणं शृणु पुत्त्र ! त्वं समासेन वदाम्यहं ।गुर्व्वन्नाहारपुष्टेन मन्दाग्नेश्च व्यवायिनः ॥
तर्पितैः कन्दशाकैस्तु आमोवायुसमीरितः ।श्लेष्मस्थाने प्रपच्यैव जायते बहुवेदनः ॥
आमातिसारो वर्त्तेत सन्धौ शोफः प्रजायते ।जडत्वञ्चैव गात्राणां बलासपतनं मुखे ॥
पृष्ठमन्यात्रिकेजातवेदनार्त्तोऽपि सीदति ।अङ्गं वैकल्यमायाति आमवाते भिषग्वर” ! ॥
चिकित्सा यथा ॥
* ॥
“तस्य नो स्नेहनं कार्य्यं पाचनञ्च विधीयते ।आमं संक्षयते प्राज्ञैः चतुर्धा भेदलक्षणैः” ॥
विष्टम्भ्यामलक्षणं यथा ॥
* ॥
“विष्टम्भी गुल्मकृन्मेही आमः पक्वाम एव च ।सर्व्वाङ्गगो भवेच्चान्यो वक्ष्ये तस्यापि लक्षणं ॥
विष्टम्भो गुरु चाध्मानं वस्तिशूलञ्च जायते ।तस्यापि पाचनं कार्य्यं स्नेहनञ्चैव कारयेत्” ॥
गुल्मशङ्क्यामलक्षणं यथा ॥
* ॥
“जठरं गर्ज्जते यस्य गुल्मवत् परिपीड्यते ।कटीदेशे जडत्वञ्च आमगुल्माभिशङ्कितः ॥
तस्यादौ लङ्घनानि स्युर्ज्ञात्वा देहबलाबलं ।पाचनं नैव कर्त्तव्यं गुल्मपाके विमूर्च्छति ॥
पाचिते चापि गुल्मामे तदाशु मरणं ध्रुवम्” ।स्नेह्यामलक्षणं यथा ॥
* ॥
“यस्य च स्निग्धता गात्रे जाड्यं मन्दाग्निको वली ।स्नेहामो विजलो यस्य स्नेहीवामः प्रकीर्त्तितः ॥
तस्य नो स्नेहनं कार्य्यञ्चोपवासञ्च कारयेत् ।पाचनञ्चैव कर्त्तव्यमामञ्चैवातिसारयेत्” ।आमस्य लक्षणं यथा ॥
* ॥
“यस्य शोफाननं जाड्यं तथा चैव घनोदरं ।अरुच्यामातिसारश्च सचासाध्यो विजानता ॥
प्रत्याख्येया क्रिया कार्य्या जीवितस्यापि संशये ।पाचनं पाचितं ज्ञात्वा तस्माच्चूर्णानि दापयेत्” ।चिकित्सा यथा ॥
* ॥
“आमवाते कणायुक्तं दशमूलीजलं पिबेत् ।गुडूची नागरं पथ्या चूर्णमेतद्गुडान्वितं ॥
धान्यनागरराजाम्लदेवदारुवचाभयाः ।पाचनञ्चामवाते च श्रेष्ठमेतत्सुखावहं” ॥
)
वाचस्पत्यम्
Sanskritआमवात आमोऽपकहेतुः वातः । भा० प्र० उक्ते वातव्याधिभेदे तल्लक्षणाद्युक्तं तत्रैव “युगपत्कुपितावेतौ त्रिकसन्धिप्रवेशकौ । स्तब्धञ्च कुरुतो गात्रमामवातः स उच्यते”(एतौ वातश्लेष्माणौ) तस्य लक्षणमुक्त निदा० । “अङ्गमर्द्दोऽ-रुचिस्तृष्णा ऽस्वातन्त्र्यं गोरवं ज्वरः । अपचीशूलजङ्गा-लमामवातः स उच्यते” । तत्र निदानादि यथा “विरुद्धा-हारवेष्टस्य मन्दाग्नेर्निश्चलस्य च । स्निग्धं भुक्तवतोऽह्यन्नंव्यायामं कुर्वतस्तथा । वायुना प्रेरितोह्यामः श्लेष्मस्थानंप्रधावति । तेनात्यर्थमपक्वोऽसौ धमनीभिः प्रपद्यते ।वातपित्तकफैर्भूयो दूषितः सोऽन्नजोरसः । स्रोत्रांस्यभिष्य-न्दयति नानाब्रर्णोऽतिपिच्छलः । जनयत्यग्निदौर्बल्यमि-न्द्रियस्य च गौरवम् । व्याधीनामाश्रयोह्येष आमसंज्ञोऽनि-लोह्ययम्” (श्लेष्मस्थानमामाशयसन्ध्यादि) । तेनश्लेष्मस्थानगमने पाकाभावात् दूषकता पित्तस्थानगमनेतु तेन पाकसम्भवान्नं दोषजनकतेति । अतिवृद्धस्य लक्षण-मुक्तं तत्रैव “स कष्टः सर्वरोगाणाम् यदा प्रकुपितो भवेत् ।हस्तपादशिरोमुल्मत्रिकजानूरुसन्धिषु । करोति सरुजंशोफं यत्र दोषः प्रपद्यते । स देशो रुज्यतेऽत्यर्यं व्याविद्धइव वृश्चिकैः । जनयेत् सोऽग्निदौर्बल्यम् प्रसेकारुचिगौर-वम् । उत्साहहानिं वैरस्यं दाहनं बहुमूत्रताम् ।कुक्षौ शूलं कठिनतां तथा निद्राविपर्य्ययम् । तृट्छर्द्दि-भृशमूर्च्छाश्च हृद्ग्रन्थिविड्विबद्धताम् । जाड्यान्द्रकूजनानाहकुष्ठांश्चान्यानुपपद्रवान्” । तत्र दोषभेदे लक्षणानि“पित्ताद्दाहं सकासञ्च सशूलं पवनात्मकम् । स्तिमितंगुरु कण्डूकं कफजुष्टं तमादिशेत् । एकदोषानुगःसाध्योद्विदोषोयाप्य उच्यते । सर्वदोषगतः शोफः स कष्टःसान्निपातिकः” इति सुश्रु० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
